विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०९१

विकिस्रोतः तः
← अध्यायः ०९० विष्णुधर्मोत्तरपुराणम्
अध्यायः ९१
वेदव्यासः
अध्यायः ०९२ →

वज्र उवाच ।।
ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां पृथक्पृथक् ।।
स्नानानि श्रोतुमिच्छामि तत्पीडाशमनान्यहम् ।। १ । ।
मार्कण्डेय उवाच ।।
मञ्जिष्ठां मातुलुंगं च कुंकुमं रक्तचन्दनम् ।।
पूर्णकुम्भे कृते ताम्रे सूर्यस्नानं विधीयते ।। २ । ।
उशीरं च शिरीषं च पद्मकं चन्दनं तथा ।।
शंखे न्यस्तमिदं स्नानं चन्द्रदोषनिवारणम् ।। । । ३ ।।
खदिरं देवदारुं च तिलान्यामलकानि च । ।
पूर्णकुम्भे कृते रौप्ये भौमपीडाविनाशनम् ।। ४ ।।
नदीसंगमतोयानि तन्मृदा सहितानि च ।।
न्यस्तानि कुम्भे माहीये बुधपीडाविनाशनम् ।। ५ ।।
गोरोचनं नागमदं शतपुष्पा शतावरी ।।
विन्यस्य राजते कुम्भे शुक्रपीडानिवारणम् ।। ६ ।।
तिलान्माषान्प्रियंगुं च गन्धपत्रं तथैव च ।।
न्यस्तं कार्ष्णायसे कुम्भे सौरपीडानिवारणम् ।। ७ ।।
गुग्गुलुं हिंगुलं तालं शुभां चैव मनःशिलाम् ।।
शृंगे च माहिषे न्यस्तं राहुपीडाविनाशनम् ।। ८ ।।
वराहनिर्हृतां राजन्पर्वताग्रमृदं तथा ।।
छागं क्षीरं खड्गपात्रे केतुपीडाविनाशनम् ।। ९ ।।
ग्रहस्नानमिदं प्रोक्तमृक्षस्नानमतः शृणु ।।
येन सम्यक्प्रयुक्तेन मुच्यते किल्विषान्नरः ।। ।। 1.91.१० ।।
वटाश्वत्थशिरीषाणां पत्राणि तु तिलैस्सह ।।
सर्वगन्धोपपन्नानि कृत्तिकासु विधीयते ।। ११ ।।
सर्वबीजोदकस्नानं रोहिणीषु प्रशस्यते ।।
सर्वरत्नोदकस्नानं मृगशीर्षे विधीयते ।। १२ ।।
वचा च गन्धा कान्ताभिः स्नानं रौद्रे प्रकीर्तितम् ।।
गोष्ठमृद्गोमयस्नानमादित्ये पापनाशनम् ।। १३ ।।
सर्वौषध्यः पञ्चगव्यं तथा गौराश्च शालयः ।।
सिद्धार्थकास्सर्वगन्धांस्तिष्यस्नाने शुभप्रदाः ।। १४ ।।
वल्मीकाग्रमृदा स्नानं तथा सार्पे शुभप्रदम् ।।
सतिलं देवनिर्माल्यं स्नानं शस्तं मघासु च ।। १५ ।।
फल्गुनीषु च पूर्वासु शाड्वलं लवणं घृतम् ।।
उत्तरासु तथा स्नानं शिम्बिमुस्ताप्रियंगुभिः ।। १६ ।।
हस्ते स्नानं प्रशंसन्ति पर्वताग्रसरोमृदा ।।
चित्रासु देवनिर्माल्यं स्वातौ पुष्पैर्जलोद्भवैः ।। १७ ।।
विशाखासु प्रशंसन्ति रौद्रचन्दनपद्मकैः ।।
नदीकूलद्वयान्मृद्भिर्मैत्रे स्नानं प्रकीर्तितम् ।। १८ ।।
ज्येष्ठोदकेन ज्येष्ठासु सुवर्णसहितं हितम् ।।
सर्वमूलजलैः स्नानमाप्ये मुक्ताफलोदकैः ।। १९ ।।
वैश्वदेवे प्रशंसन्ति पद्मकोशीरचन्दनैः ।।
सर्वौषधैश्चाभिजिति श्रवणे संगमोदकैः ।। 1.91.२० ।।
नदीवापीजलयुतैर्वारुणे तु प्रशस्यते ।।
आजे श्रीवासकं स्नानं कान्ता पुरुहितं हितम् ।। २१ ।।
आहिर्बुध्न्ये तथा स्नानं पद्मकोशीरचन्दनैः ।।
कुङ्कुमागुरुकर्पूरैः सहितं पापनाशनम् ।।
दर्भेर्मूलयुतैः पौष्णे हरिद्राद्वयचन्दनैः ।। २२ ।।
नागाश्वगन्धा मदवन्तिका च क्षौद्रान्विता चाश्विनके प्रदिष्टा ।।
सुराह्व काष्ठं रजनीद्वयं च स्नानं वचाभिः सहितं च याम्यम् ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहनक्षत्रस्नानविधिवर्णनं नामैक नवतितमोऽध्यायः ।। ९१ ।।