विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०८१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८० विष्णुधर्मोत्तरपुराणम्
अध्यायः ८१
वेदव्यासः
अध्यायः ०८२ →

वज्र उवाच ।।
त्वयोदितानां धर्मज्ञ समासेन पृथक्पृथक् ।।
कालस्यावयवानां च श्रोतुमिच्छामि देवताः ।। १ ।।
मार्कण्डेय उवाच ।।
पौरुषं यदहोरात्रं श्रुतवानसि यादव ।।
कालात्मा पुरुषस्तस्य सर्वभूतपतिः प्रभुः ।। २ ।।
कल्पस्य दैवतं ब्रह्मा यस्येदं सकलं जगत् ।।
क्रमान्मन्वन्तराणां तु मनवस्तु चतुर्दश ।। ३ ।।
स्वायम्भुवस्तु प्रथमो मनुः स्वारोचिषस्तथा ।।
वैवस्वतोऽथ सावर्णिर्ब्रह्मपुत्रस्तथैव च ।। ४ ।।
धर्मपुत्रो रुद्रपुत्रो दक्षपुत्रश्च यादव ।।
रौच्यो भौत्यश्च विश्वात्मा मनवस्तु चतुर्दश ।।५।।
वज्र उवाच।।
य एते भवता प्रोक्ता मनवश्च चतुर्दश ।।
नित्यं ब्राह्मे दिने प्राप्ते एत एव क्रमाद्द्विज ।।६।।
भवन्त्युतान्ये धर्मज्ञ एतन्मे च्छिन्धि संशयम् ।।
अथवा वर्त्तमानेऽस्मिन्भवता मम कीर्तिताः ।। ७ ।।
मार्कण्डेय उवाच ।।
एत एव महाराज मनवस्तु चतुर्दश ।।
कल्पेकल्पे त्वया ज्ञेया नात्र कार्या विचारणा ।।८।।
एकरूपास्त्रयः कल्पा ज्ञातव्यास्सर्व एव हि ।।
क्वचित्किंचिद्विभिन्नाश्च मायया परमेष्ठिनः ।।९ ।।
ज्ञातव्यमेकरूपत्वमब्दानां च तथा त्वया ।।
कल्पेकल्पे महाराज मनूनां च विशेषतः ।। 1.81.१० ।।
वज्र उवाच ।।
कल्पानां जनसादृश्ये युक्तिनैवोपपद्यते ।।
कदाचिदपि धर्मज तत्र पश्यामि कारणम् ।। ११ ।।
एकस्मिन्नन्तरे मुक्तिं कल्पेकल्पे गते द्विज ।।
प्रभविष्यज्जगच्छून्यं कालस्यादेरभावतः ।। १२ ।।
मार्कण्डेय उवाच ।।
जीवस्यान्यस्य सर्गेण नरे मुक्तिमुपागते ।।
अचिन्त्यशक्तिर्भगवाञ्जगन्पूरयते सदा ।। १३ ।।
ब्रह्मणा सह मुच्यन्ते ब्रह्मलोकमुपागताः ।।
सृज्यन्ते च महाकल्पे तद्विधाश्चापरे जनाः ।। १४ ।।
ते प्राप्ताः परमं स्थानं येषां जन्म न विद्यते ।।
समजीवप्रमाणाश्च सर्वे कल्पास्तथा नृप ।।
ब्रह्मलोके विष्णुलोके रुद्रलोके च ये गताः ।। १५ ।।
विष्णुलोकास्सुबहवो रुद्रलोकास्तथैव च ।।
श्वेतद्वीपगता ये च तेषां जन्म न विद्यते ।। १६ ।।
न तु सर्वेषु राजेन्द्र तेषु मुक्तिः प्रकीर्तिता ।।
ब्रह्मलोकोपरिष्टाच्च ये लोका रौद्रवैष्णवाः ।। १७ ।।
मयोदितास्तयोर्गत्वा पुनर्जन्म न विद्यते ।।
महाकल्पक्षये जीवाः सर्वे तं परमेश्वरम् ।। १८ ।।
प्राप्यापि विनिवर्तन्ते विना ज्ञानेन यादव ।।
भूय एव तदा लोकान्सर्गे सृजति तान्प्रभुः ।। १९ ।।
कल्पमध्य्रे तु कल्पान्ते ज्ञानोज्झितकलेवराः ।।
प्राप्नुवन्ति परं परं स्थानं तद्विष्णोः परमं पदम् ॥ 1.81.२० ॥
जीवबीजान्यसर्गेण तत्स्थानं परमेश्वरः ॥
प्रपूरयति धर्मज्ञ राजन्केनापि हेतुना ॥ २१ ॥
वज्र उवाच ॥
कल्पानां सति सादृश्ये यो भेदो भृगुनन्दन ॥
तमहं श्रोतुमिच्छामि तत्र मे कौतुकं महत् ॥ २२ ॥
मार्कण्डेय उवाच ॥
कल्पानां सति सादृश्ये शृणु भेदं नराधिप।।
समतीते यथा कल्पे षष्ठे मन्वन्तरे गते ॥ २३ ॥
सप्तमस्य चतुर्विंशे राजंस्त्रेतायुगे तदा ॥
यदा रामेण समरे सगणो रावणो हतः ॥२४॥
रामेणैव तदा राजन्कुम्भकर्णो निपातितः ॥
वर्तमाने तु यद्वृत्तं कल्पे यदुकुलोद्वह ॥ २९॥
रामस्य चरितं बद्धं तदा वाल्मीकिना शुभम् ॥
अतीतकल्पे यद्वृत्तं मया तत्काम्यके वने ॥ २६ ॥
युधिष्ठिराय कथितं धर्मपुत्राय पार्थिव ॥
कल्पानां सति सादृश्ये भेद एष तवेरितः॥२७॥
तेषां स्वरूपं च तथा तथा राजन्ननुक्रमम् ॥
ब्रह्मजन्मनिसर्गाश्च तथा तस्य पृथग्विधाः ॥ २८ ॥
कार्तिकेयस्य लक्ष्म्याश्च तथा देवस्य शूलिनः ॥
एवमाद्याः प्रभेदास्तु त्वया ज्ञेया नु पार्थिव ॥
कल्पादीनां महाराज चान्यत्रापि यदूद्वह ॥ २९ ॥
सादृश्यभेदाविह भूमिपाल कल्पस्यकल्पस्य मयोदितौ ते ॥
युगादिभिन्नस्य च दैवतानि वक्ष्याम्यतस्तानि निबोध राजन् ॥1.81.३०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० कल्पसादृश्यो नामैकाशीतितमोऽध्यायः ॥ ८१ ॥