विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०८०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०७९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ८०
वेदव्यासः
अध्यायः ०८१ →

वज्र उवाच ॥
ब्रह्मणोऽस्य समुत्पत्तिमारभ्य सुमहाद्युते ॥
कालस्य गतिमिच्छामि श्रोतुं भृगुकुलोद्वह।।१।।
मार्कण्डेय उवाच।।
स्वेनाहोरात्रमानेन ब्रह्मणोऽस्य जगत्पतेः।।
समाष्टकं गतं राजन्पञ्चमासास्तथैव च।। ॥ २॥
अहोरात्रचतुष्कं च वर्तमानदिनाद्गतम् ॥
अतः परं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ३ ॥
मनवः षड् गतास्सप्त सन्धयश्च तथा गताः ॥
सप्तविंशद्व्यतीताश्च तथैव च चतुर्युगाः ॥ ४ ॥
युगत्रयं तथातीतं वर्तमानचतुर्युगात् ॥
संवत्सराणां दशकं तथा कलियुगाद्गतम् ॥ ५ ॥
वाताश्वमेघकालेऽस्मिन्सह यक्षेण यादव ॥
भविष्याणामतीतानां ब्रह्मणां भूरिदक्षिण ॥ ६ ॥
अनादिमत्त्वात्कालस्य संख्यां वक्तुं न शक्यते ॥
गङ्गायाः सिकता धारा यथा वर्षति वासवः ॥ ७ ॥
शक्या गणयितुं राजन्न व्यतीता पितामहाः
अन्तवत्तां बुधो बुद्ध्वा सर्वस्य जगतीपते ॥ ८॥
तन्मार्गं परिमार्गन्ते यद्विष्णोः परमं पदम् ॥
वज्र उवाच ॥ कियत्कालपरीमाणं मया शास्या वसुन्धरा।।९।।
परिक्षिता च धर्मज्ञ तन्मे ब्रूहि भृगूत्तम।।
मार्कण्डेय उवाच।।
अद्यप्रभृति राजेन्द्र समा पञ्चाशकं गते।।1.80.१०।।
परीक्षिति महाराजे दिवं प्राप्ते कुरूद्धहे ॥
परीक्षिद्धीने लोकेस्मिन्प्राणितुं त्वं तु शक्यसे ॥ १३ ॥
महाप्रस्थानमाविश्य नागलोकं गमिष्यसि ॥
स्वर्गते त्वयि राजेन्द्र परीक्षिति तथा नृपे ॥ १२॥
राजा नागपुरे भावी पारीक्षिज्जनमेजयः ॥
मथुरायां तथा भावी तव पुत्रोऽचलो नृपः ॥ १३ ।॥
नगरं खाण्डवप्रस्थं भयादिविनिवर्जितम् ॥
पालयिष्यति धर्मात्मा पुत्रस्ते भीमविक्रमः ॥ १४ ॥
दानवेन्द्रो मयः पूर्वं फाल्गुनेन प्रयास्यता ॥
महाप्रस्थानमित्युक्तो राजंस्त्वत्प्रियकाम्यया ॥ १५॥
यावद्वज्रो महीं भुङ्क्ते खाण्डवप्रस्थमाश्रितः ॥
तावत्सभेयं संरक्ष्या त्वया मदुपरोधतः॥१६॥
सेयं संरक्ष्यते तेन प्रतिज्ञाय धनञ्जये ।।
त्वयि नाकमनुप्राप्ते सभेयं मयशासनात् ।। १७ ।।
हिमाचलं तु नेष्यन्ति यत्र बिन्दुसरं सरः ।।
राक्षसाः किङ्करा नाम यत्तस्मान्निर्मिता पुरा ।। १८ ।।
उक्तं हि ते कालगतं मयैतदायुःप्रमाणं च तथा तवोक्तम् ।।
अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन् ।। १९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० यानकालवर्णनो नामाशीतितमोऽध्यायः ।। ८० ।।