विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०७८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७९
वेदव्यासः
अध्यायः ०८० →

वज्र उवाच ॥। ॥
कस्त्वसौ बालवेषेण कल्पान्तेषु पुनःपुनः ॥
दृष्टोऽपि न त्वया ज्ञातस्तत्र कौतूहलं महत् ॥१॥
मार्कण्डेय उवाच ॥
भूयोभूयस्त्वसौ दृष्टो मया देवो जगत्पतिः ॥
कल्पक्षये न विज्ञातस्तन्मायामोहितेन वै ॥२॥
कल्पक्षये व्यतीते तु तं तु देवं पितामहात् ॥
अनिरुद्धं विजानामि पितरं ते जगत्पतिम् ॥ ३ ॥
वज्र उवाच ॥
ज्ञातवानसि तं देवं कथं देवात्पितामहात् ॥
दुर्विज्ञेयं जगद्योनिं सर्वभूतभवोद्भवम् ॥ ४ ॥
मार्कण्डेय उवाच ॥
मायया मोहितस्तस्य बालस्यामिततेजसः ॥
दृष्ट्वोदरे जगत्कृत्स्नं विस्मयाविष्टचेतनः ॥ ९ ॥
गत्वाहं ब्रह्मसदनं पृष्टवाँस्तं पितामहम् ॥
एकार्णवे मया लोके देवदेवे जगत्पतौ ॥ ६ ॥।
दृष्टो बालो महातेजास्तस्याहमवशस्ततः ॥
प्रविष्टो जठरे तस्य देव सर्वं चराचरम् ॥ ७ ॥
मया दृष्टं जगत्सर्वं न च जानामि बालकम् ॥
ध्रुवं तं भगवान्वेत्ति सर्वज्ञत्वाज्जगद्गुरुः ॥ ८॥
एवं पृष्टो मया ब्रह्मा मामुवाच जगद्गुरुः ॥
मार्कण्डेय विजानामि ह्यनिरुद्धं जगद्गुरुम् ॥ ९॥
त्वं च तं वेत्थ तत्त्वेन न च कल्पक्षये मुने ॥
त्वया दृष्टं यथा तस्य जठरे भुवनं मुने ॥ 1.79.१० ॥
तथा दृष्टं मया तस्य जगद्योनेर्महात्मनः ॥
मदीयस्य दिनस्यान्ते कदाचिद्भृगुनन्दन ॥ ११ ॥
एकार्णवे तदा लोके नष्टे स्थावरजङ्गमे ॥
नागपर्यङ्कशयने पश्यामि पुरुषं तदा ॥ १२ ॥
तस्मिन्काले न जानामि तमहं तेन मोहितः ॥
ततः पृच्छामि तं देवं को भवानिति विस्मितः ॥ १३ ।॥
स मामुवाच प्रहसन्ममेदं सकलं जगत् ॥
न तु मां वेत्सि तत्त्वेन जगतामीश्वरेश्वरम् ॥ १४ ॥।
मयाप्युक्तः स देवेशो ममेदं सकलं जगत् ॥ .
वृथा प्रलयमध्ये ते मत्समीपे विशेषतः ॥ १५ ।।॥
विप्रत्ययश्च यदि ते प्रविश्य जठरं मम ॥
त्रैलोक्यमखिलं पश्य संहृतं यन्मया स्वयम् ॥ १६ ॥
एवमुक्तस्स तु मया तदा केनापि हेतुना ॥
प्रविश्य जठरं मे स क्षणमात्राद्विनिर्गतः ॥ १७ ॥
निर्गम्य मामब्रवीच्च दृष्टं त्रिभुवनं मया।।
तवोदरे जगन्नाथ त्वं च पश्य ममोदरे।।१८।।
एवमुक्त्वा स सुष्वाप भोगिभोगासने तदा।।
अहमप्यवशस्तस्य प्रविष्टो जठरं तदा ॥१९॥
पश्यामि जगतीं ब्रह्मन्सशैलवनकाननाम्॥
ससमुद्रसरिद्द्वीपलोकपातालभूषिताम्॥1.79.२०॥
दृष्ट्वाहं पृथिवीं तस्य तथा जठरसंस्थिताम् ॥
निर्गमिष्यन्न पश्यामि शरीरं तस्य भार्गव ॥२१ ।॥
अन्तरिक्षं प्रपश्यामि निरालम्बं परिभ्रमन् ॥
परिभ्रमणखिन्नोऽस्मि तमेव शरणं गतः ॥ २२ ॥
ततस्तु तस्य पश्यामि रन्ध्रहीनं तु विग्रहम् ॥।
तस्य देहाद्विनिर्गन्तुं शक्तिनासीत्तथा च मे ॥२३॥
रन्ध्रहीनान्महाभाग तमेव शरणं गतः ॥
ततोऽहं गतवान्ब्रह्मन्रंन्ध्रं प्राप्तं मयानघ ॥ २४॥
बालाग्रादपि सूक्ष्मं तत्ततोऽहं तेन निर्गतः ॥
पद्मनालेन निष्क्रान्तं पश्याम्यात्मानमात्मना ॥ २९ ॥
नाभिसरसि तत्पद्मं जातं देवस्य शार्ङ्गिणः ॥
शेषरत्नार्कशैवालि विकासितदलं महत् ॥ २६ ॥
ततोऽहं पद्मजन्मेति लोके ख्यातिमुपागतः ॥||
नाभिजातं च यत्पद्मं तस्य देवस्य भार्गव ॥ २७॥
तन्महामण्डलं कृत्स्नं मेरुस्तस्य च कर्णिका ॥
तत्राहं तस्य संभूतो देवदेवस्य चक्रिणः॥२८॥
देवस्स विष्णुर्जगतामधीशः सर्वेश्वरः सर्वजगत्प्रधानः ॥
यॊ बालरूपी भवतान्तकाले दृष्टोऽस्य सर्वस्य चराचरस्य ॥ २९॥
एवं हि तस्योदरसंस्थितेन मयोषितं जातकुतूहलेन ॥
तस्यैव मायापरिमोहितेन कल्पान्तकालेषु सदा नरेन्द्र ॥ 1.79.३० ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० पद्मनाभोपाख्यानो नामैकोनाशीतितमोऽध्यायः ॥ ७९ ।॥