विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०७७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७८
वेदव्यासः
अध्यायः ०७९ →

।। वज्र उवाच ।।
सप्तमस्ते महाभाग जातस्य दिवसस्त्वयम् ।।
वर्तते ब्रह्मणो ब्रह्मँस्तत्र मन्वन्तरक्षये ।। १ ।।
कथं कालस्त्वया नीतः पुरा कल्पक्षये तदा ।।
एतन्मे संशयं छिन्धि त्वं समः परमेष्ठिनः ।। २ ।।
मार्कण्डेय उवाच ।।
नौगतेन मया नीतः कालो मन्वन्तरक्षये ।।
भूयोभूयो महाभाग देवदेवप्रसादतः ।। ३ ।।
कल्पक्षयनुप्राप्य दाहकाल उपस्थिते ।।
जनलोकगतेनाथ कालो नीतस्स वै मया ।। ४ ।।
दाहकाले तदा वृत्ते प्रलयाम्भोधिसंप्लवे ।।
जनलोकादहं भ्रष्टः पतितो धरणीतले ।। ५ ।।
नूनं तस्यैव देवस्य सा माया भीमविक्रमा ।।
एकार्णवे भूमितले पतितस्यापि मे नृप ।। ६ ।।
जीवितं न परिभ्रष्टं नूनं तस्य प्रसादतः ।।
तदाहं नष्टविज्ञानः पतितोंऽभसि दारुणे ।। ७ ।।
ऊह्यमानोम्बुकल्लोलैरितश्चेतश्च यादव ।।
अपश्यमानो जगतीं सशैलवनकाननाम् ।। ८ ।।
निर्वेदं जीविते दीर्घे तदा भूतोस्मि शत्रुहन् ।।
सोऽहमार्तोऽथ निर्विण्णस्तस्मिंस्तूदकसंप्लवे ।। ९ ।।
पश्यामि जलमध्यस्थं विपुलं वटपादपम् ।।
महाशाखं घनच्छायं स्निग्धपल्लवशोभितम् ।। 1.78.१ ० ।।
तमहं बाहुभिर्गत्वा तस्मिन्न्यग्रोधपादपे ।।
(शाखासक्तं तु पश्यामि सवितारं तथोज्ज्वलम् ।। ११ ।।
दिव्यं पश्यामि पर्यङ्कं सर्वरत्नोपशोभितम् ।।)
पर्यङ्के तत्र पश्यामि बालं कमललोचनम् ।।१२।।
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।।
पद्मपत्राभचरणं तदाकारकरं तथा ।। १३ ।।
अलङ्कृतं चाभरणैः शिखण्डैकविभूषितम् ।।
एकं साहस्रमध्यस्थं भ्राजमानमिव श्रिया ।। १४ ।।
स मां दृष्ट्वा तदा बालः स्मितपूर्वमुवाच ह ।।
यदि श्रान्तोऽसि धर्मज्ञ विग्रहं वदनेन मे ।। १५ ।।
प्रविश्य विश्रमस्वाद्य यावद्वा रुचितं तव ।।
एवमुक्तस्य सञ्जाता व्रीडा यदुकुलोद्वह ।। १६ ।।
ततोऽहमवशस्तस्य प्रविष्टो नृप विग्रहम् ।।
जगतीं तत्र पश्यामि सशैलवनकाननाम् ।। १७ ।।
यथापूर्वं महाभाग नगराकारशालिनीम् ।।
देवदैत्योरगाकीर्णां समुद्रवरभूषणाम् ।। १८ ।।
नृपराष्ट्रसमाकीर्णां वणिग्भिरुपशोभिताम् ।।
द्विजाध्ययनसंघुष्टां वर्णाश्रमसमाकुलाम् ।।१९।।
सरित्पर्वतवृक्षाढ्यां यज्ञोत्सवसमाकुलाम् ।।
तां दृष्ट्वा कौतुकं जातं तस्य बालस्य कर्मणा।।1.78.२०।।
द्रष्टुमिच्छामि तस्यान्तं भ्रममाणस्ततस्ततः ।।
यदा नासादयाम्यत्र तस्य बालस्य चेष्टितम् ।।२१।।
पूर्णे युगसहस्रेऽपि तमेवाहं तदा शिशुम् ।।
संप्राप्तः शरणं राजन्नहं भाव्यर्थेन चोदितः ।। २२ ।।
ततोऽहं वदनात्तस्य निर्गतश्शशिसन्निभात् ।।
यदा तस्योदरेऽपश्यं त्रैलोस्य सचराचरम् ।।२३ ।।
तथा पश्यामि सकलं बहिर्भूमिपसत्तम ॥
ततोऽहं पतितस्तस्य पादयोस्सुमहात्मनः॥२४॥
ततस्सोऽन्तर्हितो बालस्सह तेनैव शाखिना॥
एवं मया तस्य निशा नरेन्द्र संप्राप्य पुण्यं जठरे हि नीता।
महाशरीरस्य महानुभाव महाप्रमेयस्य पितामहस्य॥२९॥
इति श्रीविष्णुधर्मोंतरे प्रथमखण्डे मा० सं० बालप्रभावकथनो नामाष्टसप्ततितमोऽध्यायः॥७८॥