विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०८२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८१ विष्णुधर्मोत्तरपुराणम्
अध्यायः ८२
वेदव्यासः
अध्यायः ०८३ →

मार्कण्डेय उवाच ॥। ॥
भगवान्वासुदेवश्च तथा संकर्षणः प्रभुः ॥
प्रद्युम्रश्चानिरुद्धश्च कृतादीनां च दैवताः ॥ ॥ १ ॥
तथा खण्डयुगानीह द्वादशोक्तानि भूपते॥
षष्ठाब्दे च विवर्तन्ते पञ्चाब्दानि पृथक्पृथक् ॥ २ ॥
तेषां तव प्रवक्ष्यामि दैवतांस्तु पृथक्पृथक् ॥
विष्णुर्बृहस्पतिश्शक्रो वह्निस्त्वष्टा तथैव च ॥ ३॥
अहिर्बुध्न्यश्च पितरो विश्वेदेवा निशाकरः ॥
इन्द्राग्नी चैव नासत्यौ भगश्चैव महाबलः ॥ ४ ॥
इति द्वादश ते प्रोक्ता मया खण्डयुगेश्वराः॥
अथ षष्ट्यब्दनामानि निबोध गदतो मम ॥ ९ ॥
वर्तमाने तथा कल्पे षष्ठे मन्वन्तरे गते॥
तस्यैव च चतुर्विंशे राजंस्त्रेतायुगे तदा ॥ ६ ॥।
यदा रामेण समरे सगणो रावणो हतः ॥
लक्ष्मणेन तथा राजन्कुम्भकर्णो निपातितः ॥ ७ ॥
माघशुक्लं समारभ्य चन्द्रार्कौ वासवर्क्षगौ ॥
जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा स्मृतः ॥ ८॥
प्रभवो विभवः शुक्लः प्रमोदश्च प्रजापतिः॥
वैष्णवे तु युगे पञ्च प्रोक्तास्संवत्सराश्शुभाः । ९
अङ्गिरा श्रीमुखो भावो युवा धाता तथैव च।।
अब्दो जीवयुगे पञ्च येषामाद्याश्शुभास्त्रयः।।1.82.१०।।
ईश्वरो बहुधान्यश्च प्रमाथी विक्रमो वशः।।
शक्राब्दाः पञ्च निर्दिष्टा येषामाद्यावुभौ शुभौ।।११।।
वह्निस्स्वभानुस्तरणो वारिदश्च तथाऽव्ययः ॥
आग्नेयाः पञ्च निर्दिष्टा द्वितीयं तेष्वशोभनम् ॥ १२ ॥
सर्वजित्सर्वधारी च विरोधी विकृतिः खरः ॥
त्वाष्ट्रे पञ्च་ युगे तेषां द्वितीयं तु शुभप्रदम् ॥ १३ ॥।
नन्दनो विजयश्चैव जयः कामश्च दुर्मुखः ॥
आहिर्बुध्न्ये युगे पञ्च येषामाद्या हितास्त्रयः ॥१४ ॥
हेममाली विलम्बी च विकारी शर्वरी प्लवः ॥
पैत्र्ये पञ्चयुगे तेषां पञ्चमश्च शुभप्रदः ॥ १९॥
शोककृच्छुभकृत्क्रोधी विश्वावसुपरावसू ॥
वैश्वे पञ्च शुभा वैषामब्दौ राजन्द्विपंचमौ ॥१६॥
प्लवङ्गः कीलकस्सौम्यस्सोमो रोधकृदेव च ॥
सौम्ये पञ्च शुभावेषां प्रथमानन्तरावुभौ ॥१७॥
धावनं मथनं वीरं राक्षसं चानलं तथा ॥
इन्द्राग्निदैवते पञ्च सर्वे एव शुभप्रदाः ॥१८॥
पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती ॥
आश्विनेऽपि युगे पञ्च चतुर्थस्तेषु शस्यते ॥१९॥
दुन्दुभ्यङ्गारकौ रक्तः क्रोधश्चापि क्षयस्तथा ॥
भाग्ये पञ्च शुभास्सर्वे विशेषेण तु पञ्चमः ॥ 1.82.२० ॥।
अतः परं चारवशाद्देवाचार्यस्य पार्थिव ॥
द्वादशाब्दाधिपांस्तुभ्यं कथयामि फलान्वितान् ॥ २१ ॥
आग्नेयक्षगे जीवे वर्षं स्याद्वह्निदैवतम् ॥
अहितं तद्विनिर्दिष्टं गोद्विजाग्न्युपजीविनाम् ॥२२॥
सौम्यरौद्रोपगे जीवे सौम्यवर्षमुदाहृतम् ।।
ईतयस्सकला यत्र चानावृष्टिभयं तथा ।। २३ ।।
अदित्यपुष्यगे चाब्दो विज्ञेयो गुरु दैवतः ।।
शुभङ्करी हितो लोके क्षेमारोग्यसुभिक्षदः ।। २४ ।।
सार्पपैत्र्योपगे जीवे पैत्र्यं वर्पमुदाहतम् ।।
हार्दं वृष्टिप्रदं लोके शिवसौभिक्ष्यकारकम् ।। २५ ।।
फाल्गुनीद्वयहस्तस्थे वर्षं भाग्यमुदाहृतम् ।।
चौरप्राबल्यकं घोरं नारीदौर्बल्यकारकम् ।। २६ ।।
चित्रास्वातिगते जीवे त्वाष्ट्रः संवत्सरः शुभः ।।
शूकधान्यक्षयकरः शिबिधान्यविवर्धनः ।। २७ ।।
इन्द्राग्निदैवतं जीवे विशाखामैत्रसंस्थिते ।।
यज्ञक्रियाप्रवृत्तानां हितं मुदितमानवम् ।। २८ ।।
ज्येष्ठामूलगते जीवे शाक्तमब्दमुदाहृतम् ।।
शूकधान्यक्षयकरं भूतानां भयवर्धनम् ।। २९ ।।
आषाढाद्वयगे जीवे वैश्वदेवमुदाहृतम् ।।
नाशुभं न शुभं लोके राज्ञां विग्रहकारकम् ।। 1.82.३० ।।
विष्णुवासवसंस्थे तु वैष्णवं परिकीर्तितम् ।।
क्षेमसौभिक्षदं लोके पाषंडिपरिपीडनम् ।। ३१ ।।
प्रोष्ठपदाद्वयगते जीवे वारुणसंस्थिते ।।
पूर्वधान्यप्रदं त्वाजं पश्चाद्धान्यविनाशनम् ।। ३२ ।।
पौष्णाश्वियाम्यगे जीवे वर्षं स्यादश्विदैवतम् ।।
सुवृष्टिक्षेमदं लोके सर्वातङ्कविवर्जितम् ।। ३३ ।।
चैत्रशुक्लसमारम्भे जगतां जगदीश्वर ।।
सर्वं चक्रे तदा राजँस्ततस्तस्मिन्सदा दिने ।। ३४ ।।
संवत्सरेशः क्रियते ब्रह्मणा तु सदा ग्रहः ।।
नागो यज्ञश्च धर्मज्ञ गन्धर्वश्च तथैव च ।। ३५ ।।
सप्त च्छिन्ने तु यः श्लेषः कलिपातसमागणे ।।
आदित्यादिस्स बोद्धव्यो ग्रहः संवत्सराधिपः ।। ३६ ।।
आदित्येन सहानन्तो नागो भवति भूमिप ।।
चित्राङ्गदश्च गन्धर्वो दीर्घभद्रो निशाचरः ।।३७।।
सौम्येन वासुकिर्नागः पूर्णभद्रो निशाचरः ।।
चित्रसेनश्च गन्धर्वः समाश्चामी प्रकीर्तिताः ।।३८।।
भौमेन तक्षको नागो मणिभद्रो निशाचरः ।।
तदा चित्ररथो नाम गन्धर्वश्चाभिषिच्यते ।। ३९ ।।
बुधेन नागः कार्कोटो यक्षभद्रो निशाचरः ।।
तुम्बुरुर्नाम गन्धर्वः समास्वाम्यभिषिच्यते।।1.82.४०।।
जीवेन नागः पद्मस्तु दीर्घबाहुर्निशाचरः ।।
गन्धर्वश्च महातेजास्तथा शालिशिरः प्रभुः ।। ।। ४१ ।।
महापद्मस्तु शुक्रेण नागो भवति भूपते ।।
नारदश्चैव गन्धर्वो महाबाहुर्निशाचरः ।। ४२ ।।
सौरेण नागः शङ्खस्तु महाकर्णो निशाचरः ।।
ऊर्णायुश्चैव गन्धर्वः समास्वाम्यभिषिच्यते ।। ४३ ।।
अतः परं प्रवक्ष्यामि समारूपं महीपते ।।
ग्रहस्वामिभवं तुभ्यं शेषास्सर्वे तदाश्रयाः ।। ४४ ।।
तीक्ष्णार्कस्त्वल्पमत्स्यश्च गतमेघोऽतिभास्करः ।।
बहुनागव्याधिगणो भास्कराब्दो रणाकुलः।।४५।।
बहुवर्षोऽतिसस्यश्च गवाक्षीरप्रदायकः।।
चन्द्राब्दः कामिनामिष्टः चित्यङ्कितमहीतलः ।। ४६ ।।
अग्नितस्कररोगाढ्यो नृपविग्रहदायकः ।।
गतसस्यो बहुव्यालो भौमाब्दो बालहा भृशम् ।।४७।।
विप्रक्षत्रियसस्यानां जनानां च कलाभृताम् ।।
बुद्धिप्रदोऽब्दो बौद्धस्तु बहुसस्याकरः क्षितौ ।। ४८ ।।
बहुयज्ञोऽतिसस्यश्च गोगजाश्वहितस्तथा ।।
बहुवृष्टिप्रदः सौम्यो जीवाब्दो द्विजपुष्टिदः ।। ४९ ।।
सस्याढ्यो धर्मबहुलो गतातंको बहूदकः ।।
कामिनां कामदः कामः सिताब्दो नृपशर्मदः ।। 1.82.५० ।।
दुर्भिक्षमरकान्रोगान्करोति पवनस्तथा ।।
शनैश्चराब्दः शोकांश्च विग्रहाणि च भूभुजाम् ।। ५१ ।।
क्रमेण परिवर्त्तन्ते पञ्च यादव वत्सराः ।।
तेषामधिपतीन्वक्ष्ये नामानि च फलानि च ।। ५२ ।।
पञ्च भक्ते तु यच्छेषं तिष्ठेदब्दगणे गते ।।
संवत्सराद्यः संज्ञेयो नित्यं संवत्सरो बुधैः ।। ५३ ।।
आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ।।
इडाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ।।
इद्वत्सराख्यः कथितः तथा चैवात्र पञ्चमः ।। ५४ ।।
संवत्सरोऽग्निः परिवत्सरोऽर्क इडाभिधानो भगवाञ्छशाङ्कः ।।
ब्रह्मा स्वयंभूरनुवत्सरोऽपि इद्वत्सरः शैलसुतापतिश्च ।। ५५ ।।
वृष्टिः समाख्ये कथिता द्वितीये प्रभूततोया कथिता तृतीये ।।
पश्चाज्जलं मुञ्चति यश्चतुर्थः स्वल्पोदकं पंचममब्दमुक्तम् ।। ५६ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० स० अब्दफलनिर्देशो नाम द्व्यशीतितमोऽध्यायः ।। ८२ ।।