विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७३
वेदव्यासः
अध्यायः ०७४ →

वरुण उवाच ॥
लघ्वक्षरसमा मात्रा निमेषः परिकीर्तितः ॥
अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम ॥१॥
नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः।।
द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दशत्रुटिः स्मृतः।।2।।
विनाडिका तु षट्प्राणास्ताः षष्टिर्नाडिका मता ॥
अहोरात्रं च ताष्षष्ट्या नित्यमेतैः प्रकीर्तितम् ॥ ३ ॥
त्रिंशन्मुहूर्ताश्च तथा अहोरात्रेण कीर्तिताः ॥
तत्र पञ्चदश प्रोक्ता राम नित्यं दिवाचराः ||४||
उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः।।
तदा तथा भवेद्वृद्धिर्दिवसस्य महाभुज।।५।।
दिवसश्च यथा राम वृद्धिं समधिगच्छति ॥
तदाश्रितमुहूर्तानां ज्ञेया हानिस्तदा तथा ॥ ६ ॥।
दक्षिणां च यदा काष्ठां क्रमादाक्रमते रविः ॥
दिवसस्य तदा हानिर्ज्ञातव्या नित्यमेव तु ॥ ७ ॥
क्षीयन्ते दिनहानौ तु तन्मुहूर्तास्तथैव च ॥
रात्र्याश्रिताश्च वर्धन्ते रात्रिवृद्धौ तथातथा ॥ ८॥
यदा मेषं सहस्रांशुस्तुलां च प्रतिपद्यते ॥
समरात्रिर्दिनः कालो विषुवच्छब्दवाचकः ॥९॥
तत्र दानं स्वल्पमपि महद्भवति भार्गव ॥
श्राद्धं जप्यं हुतं दत्तं यच्चान्यत्सुकृतं भवेत् ॥ 1.73.१० ॥
सूर्यसंक्रमणस्यान्ते सौरो मासस्समाप्यते ॥
सौरमासद्वयं राम ऋतुरित्यभिधीयते ॥ ११ ॥
ऋतुत्रयं चायनं स्यात्तद्द्वयं च समा स्मृता ॥
देवतानामहोरात्रं स च राम प्रकीर्तितः ॥ १२ ॥
मेषादिषट्कगे सूर्ये तेषां दिवस उच्यते ॥।
तुलादिषट्कगे सूर्ये तेषां रात्रिः प्रकीर्तिता ॥ १३॥
पितॄणां चांद्रमासेन अहोरात्रोभिधीयते ॥
कृष्णपक्षाष्टमीमध्ये तेषां रात्र्युदयः स्मृतः ॥ १४ ॥
शुक्लपक्षाष्टमीमध्ये तेषामस्तमयस्तथा।।
अर्धरात्रः पौर्णमास्यां पितॄणां समुदाहृतः।।१५।।
कृष्णपक्षावसाने च तेषां मध्याह्न उच्यते ॥
कृष्णपक्षक्षये तस्मात्तेषां श्राद्धं प्रदीयते ॥
कृष्णपक्षक्षये श्राद्धं यश्च नित्यं करिष्यति ॥
सततं तर्पितास्तेन भवन्ति पितरोऽव्ययाः ॥ १६ ॥
समा शतैर्द्वादशभिर्दिव्यैस्तिष्ययुगं स्मृतम् ॥
द्विगुणं द्वापरं ज्ञेयं त्रेता त्रिगुणमुच्यते ॥ १७ ॥
चतुर्गुणं कृतं प्रोक्तं पिण्डितं चाब्दसंख्यया ॥
चतुर्युगं सहस्राणि राम द्वादश कीर्तितम् ॥१८॥
अतः परं युगावस्थां निबोध गदतो मम ॥
चतुष्पात्सकलो धर्मस्तथा ब्रह्मोत्तरं जगत् ॥ १९॥
श्वेतवर्णो हरिर्देवो ज्ञाननित्याश्च मानवाः ॥
चत्वार्यब्दसहस्राणि तेषामायुः प्रकीर्तितम् ॥ 1.73.२० ॥
समानवीर्य्याश्च नरास्तत्र नास्त्यधरोत्तरम् ॥
त्रिपादविग्रहो धर्मो राम त्रेतायुगे तदा ॥ २१ ॥
केशवे रक्ततां याते नरा दशशतायुषः ॥
यज्ञे शुभे प्रवर्तन्ते नित्यं हिंसात्मकेषु |च ॥ २२ ॥
जगत्क्षत्रोत्तरं चैव तदा भवति भार्गव ॥
द्विपादविग्रहो धर्मः पीततामच्युते गते ॥ २३ ।॥
समाः शतानि चत्वारि तदा जीवन्ति मानवाः॥
युद्धशौण्डा महोत्साहा लोका वैश्योत्तरास्तदा ॥२४ ॥
जायन्ते शास्त्रभेदाश्च मतिभेदास्तथैव च ॥
स्वल्पमायुर्नृणां बुद्ध्वा विष्णुर्मानुषरूपधृक् ॥ २९ ॥
एकमेव यजुर्वेदं चतुर्धा व्यभजत्पुनः ॥
तस्य शिष्यप्रशिष्याश्च वेदमेकं पुनःपुनः ॥ २६ ॥
शाखाभेदसहस्रेण विभजन्ति द्विजोत्तमाः ॥
एकपादस्थिते धर्मे कृष्णतां केशवे गते ॥ २७ ॥
धर्मभेदे समुत्पन्ने देवतानामनिश्चये ॥
न विद्यते तदा राम आयुषस्तु विनिश्चयम् ॥ २८॥
गर्भस्थाश्च म्रियन्तेत्र बाल्ययौवनगास्तथा ॥
शूद्रोत्तरस्तदा लोकस्तिष्ये भवति भ्रार्गव ॥ २९ ॥
सुरप्रतिष्ठा धर्मश्च तदा भवति भूतले ॥
पापिष्ठो वर्धते राम धर्मिष्ठः क्षीयते तदा ॥ 1.73.३० ॥।
राजानः शूद्रभूयिष्ठाश्चौराश्चार्थोपजीविनः ॥
ब्राह्मणास्सर्वभक्ष्याश्च भवन्ति भृगुनन्दन ॥ ३१ ॥
धर्मनिष्ठश्चिरं राजा न तदा राम जीवति ॥
तस्मिन्काले सुकृतिनां भक्तिर्भवति केशवे ॥ ३२ ॥
तेषामल्पेन कालेन तोषमायाति केशवः ॥
धन्याः कलियुगे राम तपस्तप्स्यन्ति मानवाः ॥ ३३॥
तपसाल्पेन ते सिद्धिं प्राप्स्यन्तीति च निश्चयः ॥
चतुर्युगैकसप्तत्या मन्वन्तरमिहोच्यते ॥ ३४॥
कल्पस्तु राम विज्ञेयो मनवस्तु चतुर्दश ॥
आदिमध्यान्तरालेषु मनूनां भृगुसत्तम् ॥ ३९ ॥
कृतमानप्रमाणेन सन्धिर्भवति मानद ॥
चतुर्युगसहस्रं तु कल्पमाहुर्मनीषिणः ॥ ३६ ।॥
कल्पश्च दिवसः प्रोक्तो ब्रह्मणः परमेष्ठिनः ॥
तावती च निशा तस्य यस्यां शेते स भार्गव।।३७।।
एवंविधैरहोरात्रैर्दिनमासादिसंख्यया।।
पूर्णं वर्षशतं सर्वं ब्रह्मा भार्गव जीवति।।३८।।
ब्रह्मायुषा परिच्छिन्नः पौरुषो दिवसः स्मृतः ॥
तावती च निशा तस्य यस्येदं सकलं जगत् ॥ ३९ ॥
एवं विधा ये दिवसा व्यतीता न चागता ये च महानुभाव ।।
अनादिसत्त्वात्परमेश्वरस्य ह्यानन्त्यभावाश्च तथा त्वसंख्या ।। 1.73.४० ।।
इति श्रीविष्णुधर्मोत्तरे प्र० मा० सं० वरुणरामसंभाषणे कालसंख्यावर्णनं नाम त्रिसप्ततितमोऽध्यायः ।। ७३ ।।