विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७२

विकिस्रोतः तः
← अध्यायः ०७१ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७२
वेदव्यासः
अध्यायः ०७३ →

राम उवाच।।
स्निग्धवैडूर्यसंकाश यादोगणजलेश्वर ।।
त्वत्तोहं श्रोतुमिच्छामि कालसंस्था महाभुज ।। १ ।।
वरुण उवाच ।।
अनादिनिधनः कालो रुद्रस्संकर्षणः स्मृतः ।।
सर्वभूतसमत्वाच्च स तु रुद्रः प्रकीर्तितः ।।२ ।।
अनादिनिधनत्वेन स महान्परमेश्वरः ।।
निमेषादपि सूक्ष्मत्वात्सूक्ष्मसूक्ष्मतरो ह्यति ।। ३ ।।
तस्य सूक्ष्मातिसूक्ष्मस्य कालस्य परमेष्ठिनः ।।
दुर्विभाव्या महाभाग योगिनामपि सूक्ष्मता ।। ४ ।।
पद्मपत्रसहस्रं तु सूच्या वै भिद्यते यदा ।।
समकालं तु तद्भिन्नमबुधो मन्यते जनः ।। ५ ।।
कालक्रमेण तद्भिन्नं सा तस्य द्विज सूक्ष्मता ।।
तस्य सूक्ष्मातिसूक्ष्मस्य न चातिसहते द्विज।। ६ ।।
नामसंख्या बुधैर्ज्ञेया ग्रहगत्यनुसारतः ।।
तत्र ताराग्रहाः पञ्च द्वौ च ज्ञेयौ महाग्रहौ ।। ७ ।।
उपग्रहौ च द्वौ ज्ञेयावेवं प्रोक्ता नव ग्रहाः ।।
भौमज्ञजीवभृगुजसौरास्ताराग्रहास्स्मृताः ।। ८ ।।
चन्द्रादित्यौ तथा राम विज्ञेयौ द्वौ महाग्रहौ ।।
उपग्रहौ च द्वौ ज्ञेयौ राहुः केतुश्च भार्गव ।। ९ ।।
चण्डार्कगत्या कालस्य परिच्छेदमुखो यदा ।।
तदा तयोः प्रवक्ष्यामि गतिमाश्रित्य भार्गव ।। 1.72.१० ।।
भगणेन समग्रेण ज्ञेया द्वादश राशयः ।।
त्रिंशांशश्च तथा राशेर्भाग इत्यभिधीयते ।। ११ ।।
आदित्याद्विप्रकृष्टस्तु भागे द्वादशके तथा ।।
चन्द्रमास्स्यात्तदा राम मासार्धेन न संशयः ।। १२ ।।
भागद्वादशकेनैव तिथ्यांतिथ्यां क्रमेण तु ।।
चन्द्रमाः कृष्णपक्षान्ते सूर्येण सह युज्यते ।। १३ ।।
सन्निकर्षादथारभ्यं सन्निकर्षमथा परम् ।।
चण्डार्कयोर्बुधैर्मासश्चान्द्र इत्यभिधीयते ।। १४ ।।
सावने च तथा मासि त्रिंशत्सूर्योदयास्स्मृताः ।।
आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ।। १५ ।।
सर्वर्क्षपरिवर्तैश्च नाक्षत्रो मास उच्यते ।।
तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः ।। १६ ।।
अहोरात्रेण चैकेन सावनो दिवसस्स्मृतः ।।
आदित्यभागभोगेन सौरो दिवस उच्यते ।। १७ ।।
चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसस्स्मृतः ।।
माने मासस्तु नाक्षत्रः सप्तविंशतिभिर्दिनैः ।। १८ ।।
परिशेषेषु मासेषु मासस्त्रिंशद्दिनः स्मृतः ।।
सौरेणाब्दस्तु मासेन यदा भवति भार्गव ।। १९ ।।
सावनेन तु मानेन दिवसं केन पूर्यते।।
ऊनरात्राश्च ते राम प्रोक्तास्संवत्सरेण षट् ।। 1.72.२० ।।
सौरसंवत्सरस्यान्ते मानेन शशिजेन तु ।।
एकादशातिरिच्यन्ते दिनानि भृगुनन्दन ।। २१ ॥
समाद्वये साष्टमासे दिनषोडशकान्विते ।
नाडीचतुष्टयान्ते तु तस्मान्मासोऽतिरिच्यते ॥ २२॥
स चाधिमासकः प्रोक्तः काम्यकर्मसु गर्हितः ॥
यदा चान्द्रेण मानेन पूर्णस्संवत्सरो भवेत् ॥ २३॥
तदा नाक्षत्रमानेन स मासो वार्षिको भवेत्॥
एवं कालस्य सूक्ष्मस्य प्रोक्तं मानचतुष्टयम् ॥ २४॥
येनयेन च मानेन यद्यत्कार्यं निबोध तत् ॥ २९ ॥
अब्दायनं तु ग्रहचारकर्म सौरेण मानेन सदा व्यवस्येत् ॥
सत्राण्युपास्यान्यथ सावनेन लोके च यत्स्याद्व्यवहारकर्म ॥ २६ ॥
स्यात्पूर्वकालक्षयपूरणाभ्यां चान्द्रेण मानेन युगं च राहोः ॥
नक्षत्रसत्राण्ययनानि चेन्दोर्मानेन कुर्याद्भगणात्मकेन ॥२७॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० वरुणं प्रति परशुरामप्रश्नेऽर्कादिमासवर्णनं नाम द्विसप्ततितमोऽध्यायः ॥ ७२॥