विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०७४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ७४
वेदव्यासः
अध्यायः ०७५ →

वज्र उवाच ।।
यदेतदुक्तं रामस्य वरुणेन महात्मना ।।
एतच्छ्रुत्वा तु मे जातस्संशयो भृगुनन्दन ।। १ ।।
अस्मिंस्तु भारते वर्षे परिक्षीणे युगे तथा ।।
अवस्था या भवेद्ब्रह्मस्तन्मे व्याख्यातु मर्हसि ।। २ ।।
।।मार्कण्डेय उवाच ।।
युगेयुगे परिक्षीणे वर्षे यादव भारते ।।
संग्रामेण विनश्यंति प्रायो वर्णोत्तमा जनाः ।। ३ ।।
वज्र उवाच ।।
अस्माच्चतुर्युगाद्ब्रह्मन्यदतीतं युगत्रयम् ।।
तेष्वहं श्रोतुमिच्छामि संग्रामं भृगुनन्दन ।। ४ ।।
मार्कण्डेय उवाच ।।
आसीत्कृतयुगस्यान्ते विप्राणां क्षत्त्रियैस्सह ।।
वैश्यानां च सशूद्राणां युद्धं परमदारुणम् ।। ५ ।।
वर्णत्रयं तत्र रणे क्षत्रियैर्विनिपातितम् ।।
( ततश्च ब्राह्मणाः केचित्क्षत्त्रियानेवमब्रुवन् ।। ६ ।।
अल्पैर्भवद्भिः कार्येण वयं केन विनिर्जिताः ।।)
तानब्रुवन्महाभागाः क्षत्रियास्सत्यसंगराः ।। ७।।
एकोऽस्माकं द्विजश्रेष्ठस्सेनानीरिति विश्रुतः ।।
सर्वशस्त्रास्त्रकुशलो वयं तस्य मते स्थिता ।। ८ ।।
भवतां बहुचित्तत्वाद्वयं तस्मात्पदेपदे ।।
जयामो विपुलं सैन्यं नात्र कार्या विचारणा ।। ९ ।।
क्षत्रियैरेवमुक्तास्ते ब्राह्मणान्संशितव्रताः ।।
शशाङ्कं शरणं जग्मुर्द्विजेशं सोममञ्जसा ।। 1.74.१० ।।
स तानुवाच धर्मात्मा सोमो राजा द्विजोत्तमान् ।।
प्रयागे भार्गवो विद्वान्ब्राह्मणस्संशितव्रतः ।। ११ ।।
शूर इत्येव विख्यातो नित्यं वसति धार्मिकः ।।
प्रमतिर्नाम तस्यास्ति पुत्रो धर्मभृतां वरः ।। १२।।
सर्वशास्त्रार्थकुशलो धनुर्वेदपरायणः ।।
विष्णुर्मानुष्यमापन्नो युष्मत्कार्यार्थसिद्धये ।। १३ ।।
कृत्वा सेनाप्रणेतारं तं तु कृष्णाजिनध्वजम् ।।
निर्मर्यादान्रणे सर्वान्क्षत्त्रियांस्तान्विजेष्यथ ।। १४ ।।
सोमस्य वचनं सर्वैरेवमुक्तैर्द्विजैः कृतम् ।।
प्रायः क्षत्त्रियहीनेयं लघ्वी वसुमती कृता ।। १५ ।।
आदौ कृता क्षत्त्रबलैर्विट्छूद्रद्विजवर्जिता ।।
एवं कृतयुगस्यान्ते युद्धमासीत्सुदारुणम् ।। १६ ।।
तथा त्रेतायुगस्यान्ते राक्षसैर्युद्धकर्कशैः ।।
राष्ट्रं राष्टमथासाद्य पार्थिवास्सगणा हताः ।। १७ ।।
राजा भीमरथो नाम विष्णुर्मानुष्यरूपधृक् ।।
दिवोदासान्वयं जातो निजघानाथ राक्षसान् ।। १८ ।।
पूर्वं त्रेतायुगस्यान्ते महाविजयकाङ्क्षिभिः ।।
राक्षसैः क्षत्रिया युद्धे केशवेन च ते हताः ।। १९ ।।
तथैव द्वापरस्यान्ते वासुदेवार्जुनौ रणे ।।
चक्रतुर्वसुधां लघ्वीं नरनारायणौ नृप ।। 1.74.२० ।।
द्वापरेद्वापरे राजंस्तथैव मधुसूदनः ।।
एकमेव यजुर्वेदं चतुर्धा व्यभजत्पुनः ।। २१ ।।
द्वापरेस्मिन्नृपातीते वसिष्ठकुलवर्धनः ।।
पाराशरसुतश्श्रीमान्विष्णुर्द्वैपायनः स्मृतः ।। २२ ।।
प्रकाशो जनितो येन लोके भारतचन्द्रमाः ॥
परीक्षित्पुत्रं राज्यस्थं राजानं जनमेजयम् ॥ २३ ॥
वैशम्पायन इत्येव शिष्यो व्यासस्य विश्रुतः ॥
आख्यास्यति महाऽऽख्यानं सर्वपापभयापहम् ॥ २४ ॥
धर्मे चाथें च कामे च मोक्षे च यदुनन्दन ॥
प्रदीपभूतं सर्वत्र बुधबुद्धिविवर्धनम् ॥ २९ ॥।
यत्र विष्णुकथा देव्याः श्रुतयश्च सनातनाः ॥
तच्छ्रोतव्यं मनुष्येण परं पदमभीप्सता ॥ २६ ॥।
भारतात्पारणं प्राप्य नरकं तु न गच्छति ॥
न चेत्स्याद्यदि भूपाल महापातकसंयुतः ॥ २७ ॥।
दशभिः पारणैः स्थानं प्राप्नोति जगतः पतेः ॥
केशवस्य महाभाग निर्मितं येन भारतम् ॥ २८ ॥
व्यस्य वेदं चतुर्धा तु विष्णुर्द्वैपायनो मुनिः ।
शिष्यानध्यापयामास नामतस्तान्निबोध मे ॥ २९ ॥
ऋग्वेदमथ पैलं तु सामवेदं तु जैमिनिम् ॥
अथर्वणं सुमन्तुं तु यजुर्वेदं महामुनिम् ॥ 1.74.३० ॥।
अध्यापयामास तदा वैशंपायनसंज्ञकम् ॥
वाकोवाक्यं पुराणं च सूतं भारतमेव च ॥ ३१ ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ •
धर्मशास्त्रं पुराणं च विद्यास्त्वेताश्चतुर्दश ॥ ॥ ३२ ।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गतिम् ॥
छन्दोविशेषः षष्ठश्च षडङ्गो वेद उच्यते ॥ ३३ ॥।
सांख्यं योगं पञ्चरात्रं शैवं पाशुपतं तथा ॥
कृतान्तपञ्चकं विद्धि ब्रह्मणः परिमार्गणे ॥ ३४ ॥
संसारक्षयहेत्वर्थे भावोपकरणेषु च ॥
सोत्तरा वैष्णवा धर्मास्सारमेतत्प्रकीर्तितम् ॥ ३९ ॥।
एतावानेव सकलो विद्याग्रामस्तवेरितः ॥
विद्याः प्रशस्ताश्चैताभ्यः शतशोथ सहस्रशः ॥ ३६ ॥
योसौ व्यासस्य शिष्योभूदारणेयः सुतः शुकः ॥
तेनैव देवदेवेन विष्णुना प्रभविष्णुना ॥ ३७ ॥
त्रेतायुगे चतुर्विंशे भृगुवंशोद्भवेन तु ॥
वाल्मीकिना तु रचितं स्वमेव चरितं शुभम् ॥ ३८ ॥
रामाख्यानं महापुण्यं श्रोतॄणां विष्णुलोकदम् ॥
वर्तमाने कलियुगे क्षीणे नृपतिसत्तम् ॥ ३९ ॥
कल्की विष्णुयशो नाम भविष्यति जगत्पतिः।।
घातयिष्यति सर्वान्स म्लेच्छान्परबलार्दनः।।1.74.४०।।
म्लेच्छाक्रान्तां वसुमतीं कृत्वा म्लेच्छाविवर्जिताम् ॥
धर्मसंस्थापनं कृत्वा स्वस्थानमुपयास्यति ॥ ४१ ॥।
प्रजासु धर्मयुक्तासु ततस्संपत्स्यते कृतम् ॥
इत्येवं भगवान्विष्णुर्युगे क्षीणेऽभि जायते ॥ ४२ ॥।
धर्मसंस्थापनार्थाय नित्यमेव यदूद्वह ॥
प्रादुर्भावसहस्राणि समतीतान्यनेकशः ॥ ४३ ॥
भविष्यति तथा तस्य येषां संख्या न विद्यते ॥४४॥।
एतत्तवोक्तं हि नरेन्द्रचन्द्र क्षीणे युगे यद्भवतीह लोके ॥
अतः परं धर्मभृतां वरिष्ठ प्रब्रूहि किं ते कथयामि राजन्॥४९॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० युगान्तवर्णनो नाम चतुस्सप्ततितमोऽध्यायः ॥ ७४ ॥