विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५८

विकिस्रोतः तः
← अध्यायः ०५७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५८
वेदव्यासः
अध्यायः ०५९ →

।। शङ्कर उवाच ।।
अहिंसा सत्यवचनं दया भूतेष्वनुग्रहम् ।।
यस्यैतानि सदा राम तस्य तुष्यति केशवः ।। १ ।।
मातापितृगुरूणाञ्च यः सम्यगिह वर्त्तते ।।
वर्जको मधुमांसस्य तस्य तुष्यति केशवः ।। २ ।।
वराहमत्स्यमांसानि यो नात्ति भृगुनन्दन ।।
विरतो मद्यपानाच्च तस्य तुष्यति केशवः ।। ३ ।।
न धारयति निर्माल्यमन्यदेवोद्धृतं तु यः ।।
भुंक्ते न चान्यनैवेद्यं तस्य तुष्यति केशवः ।। ४ ।।
अवैष्णवे देवधृतं निर्माल्यं यः प्रयच्छति ।।
नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ।। ५ ।।
बिभर्ति मूर्ध्नि निर्माल्यं केशवार्चाधृतं तु यः।।
अनिवेद्य न चाश्नाति तस्य तुष्यति केशवः ।। ६।।
परपीडाकरं कर्म यस्य नाऽस्ति महात्मनः।।
संविभागी च भूतानां तस्य तुष्यति केशवः ।। ७ ।।
शृणुते सर्वधर्मांश्च सर्वान्देवान्नमस्यति ।।
अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः ।। ८ ।।
तीर्थोपवाससेवी च द्विजातिगणसेवकः ।।
पूजको विष्णुभक्तानां तस्य तुष्यति केशवः ।। ९ ।।
पञ्चरात्रविदो मुख्यान्यस्तु संपूजयेत्सदा ।।
देववद्भृगुशार्दूल तस्य तुष्यति केशवः ।। 1.58.१० ।।
पितृदेवार्चनरतः स्वदारनिरतः सदा ।।
ऋतुकालाभिगामी च तस्य तुष्यति केशवः ।।११।।
नाम्नां सहस्रेण तथा यश्च गायति तन्मनाः ।।
सततं कल्यमुत्थाय तस्य तुष्यति केशवः ।।१२।।
पौरुषेण च सूक्तेन जप्यहोमादिकं सदा।।
यः करोत्यमितप्रज्ञस्तस्य तुष्यति केशवः ।। १३ ।।
मित्रस्वामिगुरुद्रोहो यस्य नाऽस्ति महात्मनः ।।
परदारधनेच्छा न तस्य तुष्यति केशवः ।। १४ ।।
राजा शास्त्रोपदेशेन राज्यं यश्च प्रशासति ।।
राजधर्मरतिर्नित्यं तस्य तुष्यति केशवः।।१५।।
या तु नारी पतिप्राणा पतिभक्ता पतिव्रता ।।
तस्याः सुतोषो भगवाँस्तोषमायाति केशवः।।१६।।
अग्निहोत्रपरो विद्वान्यज्ञैर्नित्यमतन्द्रितः ।।
यस्तु तर्पयते देवांस्तस्य तुष्यति केशवः।।१७।।
स्ववर्णाश्रमधर्मस्थः पूजयन्मधुसूदनम् ।।
कालं नयति यो ब्रह्मँस्तस्य तुष्यति केशवः ।।१८।।
सोपवासस्तु पक्षान्ते द्वादश्यां वा भृगूत्तम ।।
बौधेऽह्नि श्रवणर्क्षे वा तृतीयायान्तु वा पुनः ।।
सोपवासोऽर्चयति यस्तस्य तुष्यति केशवः ।। १९ ।।
पुष्पं विना हरिं प्राप्य फली रत्नं क्षुमापि वा ।।
निवेदयति यः कृष्णे तस्य तुष्यति केशवः।।1.58.२०।।
कृष्णे पश्यति यत्सर्वं कृष्णं सर्वत्र पश्यति ।।
महात्मा बुद्धिसम्पन्नस्तस्य तुष्यति केशवः ।। २१ ।।
तत्कथायाञ्च रमते तत्कथां यः करोति च ।।
तन्मनास्तद्गतप्राणस्तस्य तुष्यति केशवः ।।२२।।
सर्वभूतहिते युक्तः सर्वभूतहिते रतः ।।
सर्वभूतानुकम्पी च तस्य तुष्यति केशवः ।। २३ ।।
अप्रणम्य क्रियां कांचिद्यस्तु नाऽऽरभते हरिम् ।।
असंभिन्नार्थमर्यादस्तस्य तुष्यति केशवः ।। २४ ।।
नामसंकीर्तनं नित्यं क्षुत प्रस्खलनादिषु ।।
यः करोति महाभागस्तस्य तुष्यति केशवः ।। २५ ।।
नवं पत्रं फलं पुष्पं निवेद्य मधुसूदने ।।
पश्चाद्भुङ्क्ते स्वयं यश्च तस्य तुष्यति केशवः ।। २६
आपद्यपि च कष्टायां देवेशशपथं नरः ।।
न करोति हि यो ब्रह्मंस्तस्य तुष्यति केशवः ।। २७ ।।
देवादुद्धृत्य निर्माल्यं छायां नाक्रमते च यः ।।
धूपाग्निभस्म च तथा तस्य तुष्यति केशवः ।।२८।।
दृष्ट्वा संपूजितामर्चा यश्च भक्त्याभिनन्दति ।।
स्वयं संपूजयेद्यस्तु तस्य तुष्यति केशवः ।। २९ ।।
नित्यं संपूजयेद्यस्तु देवदेवस्य भक्तितः ।।
यथाशक्त्या महाभाग तस्य तुष्यति केशवः ।। 1.58.३० ।।
न राम विविधैर्दानैर्न रत्नधनसंचयैः ।।
तोषमायाति देवेशो भक्त्या तुष्यति केशवः ।। ३१ ।।
दानैर्भृगुश्रेष्ठ बहुप्रकारैस्तीर्थोपवासव्रतदर्शनैश्च ।।
तथा न तोषं भगवान्प्रयाति भक्त्या यथा तद्गतमानसानाम् ।। ३२ ।।
एतावदुक्तं तव राम गुह्यं न देयमेतद्भुवि मत्सराणाम् ।।
न तर्कशास्त्राकुलमानसानां नाऽवैष्णवानां न च नास्तिकानाम् ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भक्तिलक्षणो नामाष्टपञ्चाशत्तमोऽध्यायः।।५८।।