विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५७
वेदव्यासः
अध्यायः ०५८ →

।। राम उवाच ।। ।।
आराध्यते स भगवान्कर्मणा येन शङ्कर ।।
तत्समाचक्ष्व भगवन्सर्वसत्त्वसुखप्रदम् ।। १ ।।
।। शङ्कर उवाच ।।
साधु राम महाभाग साधु दानवनाशन ।।
यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ।। २ ।।
दिवसं दिवसार्धं वा मुहूर्त्तमेकमेव वा ।।
नाशश्चाऽशेषपापस्य भक्तिर्भवति केशवे ।। ३ ।।
अनेकजन्मसाहस्रैर्नानायोन्यन्तरेषु च ।।
जन्तोः कल्मषहीनस्य भक्तिर्भवति केशवे ।। ।। ४ ।।
नाऽधन्यः केशवं स्तौति नाऽधन्योर्चयति प्रभुम् ।।
नमत्यधन्यश्च हरिं नाऽधन्यो वेत्ति माधवम् ।। ५ ।।
मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्तते ।।
सा बुद्धिस्तद्व्रतायैव सततं प्रतितिष्ठति ।। ६ ।।
सा वाणी केशवं देवं या स्तौति भृगुनन्दन ।।
श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ।। ७ ।।
अवेहि धर्मज्ञ तथा तत्पूजाकरणात्करौ ।।
तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ।। ८ ।।
यतो मुख्यफलावाप्तौ करणं सप्रयोजनम् ।।
मनसा तेन किं कार्य्यं यन्न तिष्ठति केशवे ।। ९ ।।
बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् ।।
रोगः सा रसना वाऽपि यया न स्तूयते हरिः ।। 1.57.१० ।।
गर्तौ ब्रह्मव्रतौ कर्णौ याभ्यां तत्कर्म न श्रुतम् ।।
भारभूतैः करैः कार्यं कि तस्य नृपशोर्द्विज ।। ११ ।।
यैर्न संपूजितो देवः शङ्खचक्रगदाधरः ।।
पादौ तौ सफलौ राम केशवालयगामिनौ ।। १२ ।।
ते च नेत्रे महाभाग याभ्यां संदृश्यते हरिः ।।
किं तस्य चरणैः कार्यं कृतस्य निपुणैर्द्विज ।। १३ ।।
याभ्यां न व्रजते जन्तुः केशवालयदर्शने ।।
जात्यन्धतुल्यं तं मन्ये पुरुषं पुरुषोत्तम ।। १४ ।।
यो न पश्यति धर्मज्ञ केशवार्चां पुनःपुनः ।।
क्लेशसंजननं कर्म वृथा तद्भृगुनन्दन ।। १५ ।।
केशवं प्रति यद्राम क्रियतेऽहनि सर्वदा ।।
पश्य केशवमाराध्य मोदमानं शचीपतिम् ।। १६ ।।
यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् ।।
देवेन्द्रत्वमतिस्फीतं सर्वभूतिस्मितं पदम् ।। १७ ऽ।
हरिभक्तिद्रुमात्पुष्पं राजसात्सात्त्विकं फलम् ।।
अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ।। १८ ।।
ईथित्वञ्च वशित्वञ्च यत्र कामावसायिता ।।
आराध्य केशवं देवं प्राप्यन्ते नाऽत्र संशयः ।। १९ ।।
हतप्रत्यङ्गमातङ्गो रुधिरारुणभूतले ।।
संग्रामे विजयं राम प्राप्यते तत्प्रसादतः ।। ।। 1.57.२० ।।
महाकटितटश्रोण्यः पीनोन्नतपयोधराः ।।
अकलङ्कशशाङ्काभवदना नीलमूर्धजाः ।। २१ ।।
रमयन्ति नरं स्वप्ने देवरामा मनोहराः ।।
सकृद्येनार्चितो देवो हेलया वा नमस्कृतः ।। २२ ।।
वेदवेदाङ्गवपुषां मुनीनां भावितात्मनाम् ।।
ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम् ।। २३ ।।
रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ।।
अन्यभावतया नाम्नः कीर्तनादपि भार्गव ।। २४ ।।
रत्नपर्यङ्कशयिता महाभोगाश्च भोगिनः ।।
वीज्यन्ते सह रामाभिः केशवस्मरणादपि ।। २५ ।।
सौगन्धिके वने रम्ये कैलासपर्वते द्विज ।।
यद्यक्षा विहरन्ति स्म तत्प्राहुः कुसुमं नतेः ।। २६ ।।
रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु ।।
क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ।। २७ ।।
चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् ।।
धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ।। २८ ।।
तस्मात्तवाऽहं वक्ष्यामि यद्यदाचरतः सदा ।।
पुरुषस्येह भगवान्सुतोषस्तुष्यते हरिः ।। २९ ।।
पूज्यः स नित्यं वरदो महात्मा स्तव्यः स नित्यं जगदेकवन्द्यः ।।
ध्येयः स नित्यं सकलाघहर्ता चैतावदुक्तं तव राम गुह्यम् ।। 1.57.३० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्कर गीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।