विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५४
← अध्यायः ०५३ | विष्णुधर्मोत्तरपुराणम् अध्यायः ०५४ वेदव्यासः |
अध्यायः ०५५ → |
।। शङ्कर उवाच ।।
हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ।।
हिरण्यकशिपुर्नाम चकारोग्रं महत्तपः ।। १ ।।
दशवर्षसहस्राणि दशवर्षशतानि च ।।
जपोपवासनिरतः स्नानमौनाश्रितव्रतः ।। २ ।।
तपःशमदमाभ्यां च ब्रह्मचर्येण चाऽनघ ।।
ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ।। ।। ३ ।।
विमानेनाऽर्कवर्णेन हंसयुक्तेन भास्वता ।।
आदित्यैस्सहितः साध्यैस्सहितो मरुदश्विभिः ।। ४ ।।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ।।
दिग्भिर्विदिग्भिश्च तथा खेचरैश्च महाग्रहैः ।।५ ।।
निम्नगाभिः समुद्रैश्च मासर्त्वयनसंधिभिः ।।
नक्षत्रैश्च मुहूर्त्तैश्च कालस्यावयवैस्तथा ।। ६ ।।
देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा ।।
राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ।। ७ ।।
चराचरगुरुः श्रीमान्वृतः सर्वेर्दिवौकसैः ।।
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ।। ८ ।।
ब्रह्मोवाच ।। प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत ।।
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ।। ९ ।।
हिरण्यकशिपुरुवाच ।। न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।।
न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ।।1.54.१०।।
ऋषयोपि न मां शापं क्रुद्धा लोकपितामह ।।
शपेयुस्तपसा युक्ता वरमेतद्वृणोम्यहम् ।। ११ ।।
न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च ।।
न शुष्केन न चाऽऽर्द्रेण वधं मे स्यात्कथञ्चन ।। १२ ।।
भवेयमहमेवार्कः सोमो वायुर्हुताशनः ।।
सलिलं चाऽन्तरिक्षञ्च नक्षत्राणि दिशो दश ।। १३ ।।
अहं क्रोधश्च कामश्च वरुणो वासवो यमः ।।
धनदश्च तथाध्यक्षो यक्षः किंपुरुषाधिपः ।। १४ ।।
ब्रह्मोवाच ।।
एते दिव्यवरास्तात मया दत्तास्तवाद्भुताः ।।
सर्वान्कामानिमाँस्तस्मात्प्राप्स्यसि त्वं न संशयः ।। १५ ।।
शङ्कर उवाच ।।
एवमुक्त्वा स भगवाञ्जगामाऽऽकाशमेव हि ।।
वैराजं देवसदनं महर्षिगणसेवितम् ।। १६ ।।
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा ।।
वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ।। ।। १७ ।।
देवा ऊचुः ।।
वरेणाऽनेन भगवान्वधिष्यति स नोऽसुरः ।।
तन्नः प्रसीद भगवन्वधोऽप्यस्य विचिन्त्यताम् ।। १८ ।।
भगवान्सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः ।।
स्रष्टा च हव्यकव्यानां चाऽव्यक्तः प्रकृतिर्ध्रुवः ।। १९ ।।
शङ्कर उवाच ।।
सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः ।।
प्रोवाच वरदो वाक्यं सर्वान्देवगणांस्ततः ।। 1.54.२० ।।
ब्रह्मोवाच ।।
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् ।।
ततस्तस्य वधं विष्णुस्तपसोऽन्ते करिष्यति ।। २१ ।।
शङ्कर उवाच ।।
एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ।।
स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ।। २२ ।।
लघुमात्रे वरे तस्मिन्सर्वाः सोऽबाधत प्रजाः ।।
हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ।। २३ ।।
आश्रमेषु महात्मानो मुनीन्द्रान्संशितव्रतान् ।।
सत्यधर्मरतान्दान्तान्दुराधर्षोभवंस्तु सः।।२४।।
देवास्त्रिभुवस्थांश्च पराजित्य महासुरः।। ।
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ।। २५ ।।
यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि ।।
याज्ञियान्कृतवान्दैत्यानयाज्ञेयाश्च देवता ।। २६ ।।
आदित्या वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ ।।
भृगवोऽङ्गिरसः साध्या मरुतश्च सवासवाः ।। २७ ।।
शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ।।
देवं ब्रह्ममयं विष्णुं ब्रह्मभूतं सनातनम् ।। २८ ।।
भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् ।।
नारायणं विभुं देवाः शरण्यं शरणं गताः ।।२९।।
देवा ऊचुः।।
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ।।
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ।। 1.54.३० ।।
प्रोत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयंकर ।।
क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ।। ३१ ।।
श्रीभगवानुवाच ।।
भयं त्यजध्वममरा अभयं वो ददाम्यहम् ।।
तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ।। ३२ ।।
एषोऽमुं सबलं दैत्यं वरदानेन दर्पितम्।।
अवध्यममरेंद्राणां दानवेन्द्रं निहन्म्यहम् ।। ३३ ।।
शङ्कर उवाच ।।
एवमुक्त्वा स भगवान्विसृज्य त्रिदिवेश्वरान् ।।
नारसिंहं वपुश्चक्र सहस्रांशुसमप्रभम् ।। ३४ ।।
प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम् ।।
दैत्यसैन्यमहाम्भोधि वडवानलवर्चसम् ।। ३५ ।।
सन्ध्यानुरक्तमेघाभं नीलवाससमच्युतम् ।।
देवदारुवनच्छन्नं यथा मेरुं महागिरिम् ।। ३६ ।।
संपूर्णवक्त्रदशनैः शशाङ्कशकलोपमैः ।।
पूर्णं मुक्ताफलैः शुभ्रैः समुद्रमिव काञ्चनम् ।। ३७ ।।
नखैर्विद्रुमसंकाशैर्विराजितकरद्वयम् ।।
दैत्यनाथक्षयकरैः क्रोधस्यैव यथाङ्कुरैः ।। ३८ ।।
सटाभारं सकुटिलं वह्निज्वालाग्रपिंगलम् ।।
धारयन्भाति सर्वात्मा दावानलमिवाचलः ।। ३९ ।।
दृश्यादृश्यमुखे तस्य जिह्वाभ्युदितचञ्चला ।।
प्रलयान्ताम्बुदस्येव चञ्चला तु तडिल्लता ।। 1.54.४० ।।
आवर्त्तिभिर्लोमघनैर्व्याप्तं विग्रहमूर्जितम् ।।
महाकटितटस्कन्धमलातप्रतिमेक्षणम् ।। ४१ ।।
कल्पान्तमेघनिर्घोषज्वालानिःश्वासमारुतम् ।।
दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम् ।। ४२ ।।
कृत्वा मूर्तिं नृसिंहस्य दानवेंद्रसभां ययौ ।।
ताम्बभञ्ज तु वेगेन दैत्यानां भयवर्धनः।। ४३ ।।
भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना ।।
हिरण्यकशिपू राजा दानवान्समचोदयत् ।। ४४ ।।
सत्त्वजातमिदं घोरं चापूर्वं पुनरागतम् ।।
घातयध्वं दुराधर्षं येन मे नाशिता सभा ।।४५।।
तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः ।।
आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम् ।। ४६ ।।
नानायुधसहस्राणि तस्य गात्रेषु भार्गव ।।
विशीर्णान्येव दृश्यन्ते मृल्लोष्टानीव पर्वते ।। ४७ ।।
दैत्यायुधानां वैफल्यं कृत्वा हत्वा च दानवान् ।।
करपादप्रहारैश्च शतशोऽथ सहस्रशः ।। ४८ ।।
जग्राह वेगाद्दैतेयं हिरण्यकशिपुं ततः ।।
नृसिंहहेतोर्विक्रान्तमस्त्रवर्षमहाम्बुदम् ।। ४९ ।।
वेगेनोत्संगमारोप्य कदलीदललीलया ।।
दारयामास दैत्येशं वक्षत्स्थलमहागिरिम् ।। 1.54.५० ।।
कृत्वा तमसुभिर्हीनं दैत्येशं केशवः स्वयम् ।।
असुराणां विनाशं च क्रुद्धो नरहरिर्व्यधात् ।। ५१ ।।
हत्वाऽसुरं शोणितबिन्दुचित्रं संपूज्य देवाः सह वासवेन ।।
जग्मुस्स्वधिष्ण्यानि मुदा समेता देवोप्यथान्तर्हितमूर्तिरास ।। ५२ ।।
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ।। ५४ ।।