विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५३

विकिस्रोतः तः
← अध्यायः ०५२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५३
वेदव्यासः
अध्यायः ०५४ →

राम उवाच ।।
वराहं नरसिंहं च वामनं च महेश्वर।।
त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ।।१।।
शङ्कर उवाच।।
अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च ।।
अदितिर्जनयामास देवानिन्द्रपुरोगमान् ।।२।।
दितिश्च जनयामास द्वौ पुत्रौ भीमविक्रमौ ।।
हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा ।। ३ ।।
ततोऽभिषिक्तवाञ्छक्रं देवराज्ये प्रजापतिः ।।
दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ।। ४ ।।
अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव च।।
पातालं शासति तथा हिरण्याक्षे महासुरे ।।५।।
धराधारा धरां त्यक्त्वा खमुत्पेतू रयात्पुरा।।
पक्षवन्तो महाभाग नूनं भाव्यर्थचोदिताः ।। ।।६।।
धराधरपरित्यक्ता धरा चलनिबन्धना ।।
यदा तदा दैत्यपुरं सकलं व्याप्तमम्भसा ।। ७ ।।
दृष्ट्वैव स्वपुरं व्याप्तमम्भसा दितिजोत्तमः ।।
सैन्यमुद्योजयामास जातशङ्कः सुरान्प्रति ।। ८ ।।
उद्युक्तेन स सैन्येन दैत्यानां चतुरंगिणा ।।
विजित्य त्रिदशाञ्जन्ये आजहार त्रिविष्टपम् ।। ।। ९ ।।
हृताधिकारास्त्रिदशा जग्मुः शरणमञ्जसा ।।
देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ।। 1.53.१० ।।
त्रिदशाञ्छरणं प्राप्ता न्हिरण्याक्षविवासितान्।।
संयोज्याऽभयदानेन विससर्ज जनार्दनः ।। ११ ।।
विसृज्य त्रिदशान्सर्वाञ्चिन्तयामास केशवः ।।
किन्नु रूपमहं कृत्वा घातयिष्ये सुरार्दनम् ।।१२।।
तिर्यङ्मनुष्यदेवानामवध्यः स सुरान्तकः ।।
ब्रह्मणो वरदानेन तस्मात्तस्य वधेप्सया ।।१३।।
नृवराहो भविष्यामि न देवो न च मानुषः ।।
तिर्यग्रूपेण चैवाहं घातयिष्यामि तं ततः ।। १४ ।।
एतावदुक्त्वा संगेन नृवराहोऽभवत्प्रभुः ।।
चूर्णिताञ्जनशैलाभस्तप्त जाम्बूनदाम्बरः ।। १५ ।।
यमुनावर्त्तकृष्णाङ्गः तदावर्ततनूरुहः ।।
तदोघ इव दुर्वार्य्यस्तत्पित्रा तेजसा समः ।। १६ ।।
तत्प्रवाह इवाक्षोभ्यस्त त्प्रवाह इवौघवान् ।।
तत्प्रवाहामलतनुस्तत्प्रवाहमनोहरः ।। १७ ।।
सजलाञ्जनकृष्णाङ्गः सजलाम्बुदसच्छविः ।।
पीतवासास्तदा भाति सवि द्युदिव तोयदः ।। १८ ।।
उरसा धारयन्हारं शशाङ्कसदृशच्छविः ।।
शुशुभे सर्वभूतात्मा सबलाक इवाम्बुदः ।। १९ ।।
शशाङ्कलेखाविमले दंष्ट्रे तस्य विरेजतुः ।।
मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ।। 1.53.२० ।।
कराभ्यां धारयन्भाति शङ्खचक्रे जनार्दनः ।
चन्द्रार्कसदृशे राम पादचारीव पर्वतः ।। २१ ।।
महाजीमूतसंकाशो महाजीमूतसन्निभः ।।
महजीमूतवद्वेगी महाबलपराक्रमः ।। २२ ।।
दानवेन्द्रवधाकाङ्क्षी हिरण्याक्षसभां ययौ ।।
हिरण्याक्षोऽपि तं दृष्ट्वा नृवराहं जनार्दनम् ।। २३ ।।
दानवाँश्चोदयामास तिर्यग्जातमपूर्वकम् ।।
गृह्यतां वध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ।। २४ ।।
इत्येवमुक्तः संरब्धः पाशहस्ताँस्तु दानवान् ।।
जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ।। २५ ।।
हन्यमानेषु दैत्येषु हिरण्याक्षोऽथ दानवान् ।।
चोदयामास संरब्धान्वराहाधिककारणात् ।। २६ ।।
चोदिता दानवेन्द्रेण दान वा शस्त्रपाणयः ।।
प्रववर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ।। २७ ।।
दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ।।
नैव शेकुर्वृथा कर्तुं यत्नवन्तोऽपि निर्भयाः ।। २८ ।।
हन्यमानोऽपि दैत्येन्द्रैर्दानवान्मधुसूदनः।।
जघान चक्रेण तदा शतशोऽथ सहस्रशः ।।२९।।
हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः ।।
उत्थाय धनुषा देवं प्रववर्ष सुरोत्तमम् ।। 1.53.३० ।।
हिरण्याक्षस्तु तान्दृष्ट्वा विफलाँश्च शिली मुखान् ।।
शिलीमुखाभान्संपश्यन्समपश्यन्महद्भयम् ।। ३१ ।।
ततोऽस्त्रैर्युयुधे तेन देवदेवेन चक्रिणा ।।
तान्यस्य फलहीनानि चकार भगवान् स्वयम् ।। ३२ ।।
ततो गदां काञ्चनपट्टनद्धां विभूषितां किंकिणिजालसंघैः ।।
चिक्षेप दैत्याधिपतिः स घोरां तां चाऽपि देवो विफलीचकार ।। ३३ ।।
शक्तिं ततः पट्टविनद्धमध्यामुल्कानलाभां तपनीयचित्राम् ।।
चिक्षेप दैत्यस्स वराहकाये हुङ्कारदग्धा निपपात सा च।। ।। ३४ ।।
ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य संख्ये ।।
दैत्याधिपस्तस्य सजर्ज वेगादवेक्षितः सोऽपि जगाम भूमिम् ।। ३५ ।।
शङ्खस्वनेनाऽपि जनार्दनश्च विद्राव्य दैत्यान्सकलान्महात्मा ।।
सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ।। ३६ ।।
निपातिते दैत्यपतौ स देवः संपूजितः शक्रपितामहाभ्याम् ।।
मया च सर्वैस्त्रिदशैः समेतैजर्गाम काष्ठां मनसा त्वभीष्टाम् ।। ३७ ।।
शक्रोपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पक्षान्धरणीधराणाम् ।।
ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ।। ३८ ।। ।।
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे शङ्करगीतासु नृवराहप्रादुर्भावे हिरण्याक्षवधो नाम त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।