विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५१ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५२
वेदव्यासः
अध्यायः ०५३ →

।। शंकर उवाच ।।
त्वदुक्तोयमनुप्रश्नो राम राजीवलोचन ।।
त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ।। १ ।।
यत्तत्परमकं धाम मम भार्गवनन्दन ।।
यत्तदक्षरमव्यक्तं परं यस्मान्न विद्यते ।।
ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाश्रितम् ।। २ ।।
त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् ।।
एतद्राम रहस्यं ते यथावत्कथितं वचः ।। ३ ।।
ये भक्तास्तमजं देवं न ते यान्ति पराभवम् ।।
तमीशमजमव्यक्तं सर्वभूतपरायणम् ।। ४ ।।
नारायणमनिर्देश्यं जगत्कारणकारणम् ।।
सर्वतः पाणिपादन्तं सर्वतोऽक्षिशिरोमुखम् ।। ५ ।।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ।।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।। ६।।
असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च ।।
बहिरन्तश्च भूतानामचरश्चर एव च ।। ७ ।।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिकं च यत् ।।
अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ।।८।।
भूतवर्तिं च तज्ज्ञेयं ग्रशिष्णु प्रभविष्णु च ।।
ज्योतिषामपि तज्ज्योतिः तमसां परमुच्यते ।।९।।
अनादिमत्परं ब्रह्म न सत्तन्नाऽसदुच्यते ।।
प्रकृतिर्विकृतिर्योऽसौ जगतां भूतभावनः।।1.52.१० ।।
यस्मात्परतरं नास्ति तं देवं चिन्तयाम्यहम् ।।
इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ।। ११ ।।
यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ।।
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।। १२ ।।
यश्च सर्वमयो नित्यस्तं देवं चिन्तयाम्यहम् ।।
योगीश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ।। १३ ।।
जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरुम् ।।
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ।। १४ ।।
युक्ता सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ।।
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ।। १५ ।।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ।।
यस्मिन्नित्ये तते तन्तौ दृष्टे खगिव तिष्ठति ।। १६ ।।
सदसद्ग्रथितं विश्वं विश्वांगे विश्वकर्मणि ।।
हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ।। १७ ।।
प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ।।
अणीयसामणीयांसं स्थविष्ठञ्च स्थवीयसाम् ।। १८ ।।
गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ।।
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ।। १९ ।।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु ।।
चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्त्वतां पतिम् ।।1.52.२०।।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः ।।
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ।। २१ ।।
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ।।
पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ।। २२ ।।
क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ।।
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम् ।। २३ ।।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ।।
यमाहुर्जगतां कोशं यस्मिन्सन्निहिताः प्रजाः ।।२४।।
यस्मिंल्लोकाः स्फुरन्तीमे जाले शकुनयो यथा ।।
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।। २५ ।।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ।।
यं सुरासुरगन्धर्वास्संसिद्धर्षिमहोरगाः।।२६।।
प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् ।।
अनादिनिधनं देवमात्मयोनिं सनातनम् ।। २७ ।।
अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ।।
अतिवाय्विन्द्रकर्माणं चाऽतिसूर्याग्नितेजसम् ।। २८ ।।
अतिबुद्धीन्द्रियग्रामं तं प्रपद्ये प्रजापतिम् ।।
यं वै विश्वस्य कर्त्तारं जगतस्तस्थुषां पतिम् ।। २९ ।।
वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ।।
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।। 1.52.३० ।।
चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ।।
यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ।।३१।।
यस्य श्वासश्च पवनस्तं देवं चिन्तयाम्यहम् ।।
विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ।। ३२ ।।
प्राहुर्विषयगोप्तारं तं देवं चिन्तयाम्यहम् ।।
परः कालात्परो यज्ञात्परस्सदसतश्च यः ।। ३३ ।।
अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ।।
पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्याञ्च तथा दिशः ।।३४।।
पूर्वभागे दिवं यस्य तं देवं चिन्तयाम्यहम्।।
नाभ्यां यस्यान्तरिक्षस्य नासाभ्यां पवनस्य च ।। ३५ ।।
प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ।।३६।।
वराहशीर्षं नरसिंहरूपं देवेश्वरं वामनरूपरूपम्।।
त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि।।३७।।
वाक्त्राद्यस्य ब्राह्मणास्संप्रसूता यद्वक्षसः क्षत्रियाः संप्रसूताः ।।
यस्योरुयुग्माच्च तथैव वैश्याः पद्भ्यां तथा यस्य शूद्राः प्रसूताः ।।३८।।
व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन ।।
देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि।।३९।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभार्गवरामप्रश्ने शङ्करगीतासु ध्येयनिर्देशोनाम द्विपञ्चाशत्तमोऽध्यायः५२।