विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५४ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५५
वेदव्यासः
अध्यायः ०५६ →

शङ्कर उवाच ।।
हते हिरण्यकशिपौ दानवे देवकण्टके ।।
हतशेषास्तु दैतेयाः पातालतलमाश्रिताः ।। १ ।।
पातालतलसंस्थेषु दानवेषु महायशाः ।।
प्रह्रादपौत्रो धर्मात्मा विरोचनसुतो बलिः ।। २ ।।
आराध्य तपसोग्रेण वरं लेभे पितामहात् ।।
अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ।। ।। ३ ।।
वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्दितेः सुताः ।।
प्रहृष्टा दैत्यराजानं प्रह्रादानुमतेर्बलिम् ।। ४ ।।
संप्राप्य दैत्यराज्यं तु बलेन चतुरंगिणा ।।
जित्वा देवेश्वरं शक्रमाजहाराऽमरावतीम् ।। ५ ।।
स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः ।।
कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ।। ६ ।।
ब्रह्मणाऽभिहितो देवं जगाम शरणं हरिम् ।।
अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ।। ७ ।।
देवोऽप्यभयदानेन संयोज्य बलसूदनम् ।।
उवाच वचनं काले मेघगम्भीरया गिरा।।८।।
श्रीभगवानुवाच।।
गच्छ शक्र भविष्यामि त्राता ते बलसूदन ।।
देवरूपधरो भूत्वा वञ्चयिष्यामि तं बलिम् ।।९ ।।
शङ्कर उवाच ।।
एवमुक्तस्तदा शक्रः प्रययौ कश्यपाश्रमम्।।
आदिदेशाऽदित्तेर्गर्भं चांशेनाऽथ च सर्वदा ।।1.55.१ ०।।
गर्भस्थ एव तेजांसि दानवेभ्यः स आददे ।।
ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ।। ११ ।।
यस्मिञ्जाते सुरगणाः प्रहर्षमतुलं गताः ।।
ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ।। १२ ।।
एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ।।
बलिर्दैत्यपतिः श्रीमान्स्पालिग्राममुपाश्रितः ।। १३ ।।
वामस्कन्धे तमादाय तस्य यज्ञे बृहस्पतिः ।।
अनयद्भृगुशार्दूल नूनं तस्यैव मायया ।। १४ ।।
यज्ञवाटं स संप्राप्य यज्ञं तुष्टाव वामनः ।।
आत्मानमात्मना ब्रह्मन्भस्मच्छन्न इवाऽनलः ।। १५ ।।
प्रवेशयामास च तं बलिर्धर्मभृतां वरः ।।
ददर्श च महाभागं वामनं सुमनोहरम् ।। १६ ।।
संयुक्तसर्वावयवैः पीनैः संक्षिप्तपर्वभिः ।।
कृष्णाजिनजटादण्डकमण्डलुविराजितम् ।।।१७।।
विक्रमिष्यन्यथा व्याघ्रो लीयति स्म स्वविग्रहे ।।
विक्रमिष्यँस्तथैवोर्वीं लीनगात्रः स्वविग्रहे ।। १८ ।।
एतन्मिन्नेव काले तु हयमेधाय दीक्षितः ।।
तस्मात्तु प्रार्थयद्राजन्देहि मह्यं क्रमत्रयम् ।। १९ ।।
एवमुक्तस्तु देवेन बलिर्दैत्यगणाधिपः ।।
प्रददावुदकं तस्य पावयस्वेति चाब्रवीत् ।। 1.55.२० ।।
अन्यच्च यदभीष्टं ते तद्गृहाण द्विजोत्तम ।।
प्रतिजग्राह च जलं प्रवात्येव तदा हरिः ।। २१ ।।
उदङ्मुखेर्दैत्यवरैर्वीक्ष्यमाण इवाम्बुदः ।।
आक्रमत्तु हरिर्लोकान्दानवाः शस्त्रपाणयः ।। २२ ।।
अभिद्रवन्ति वेगेन नानवक्त्रशिरोधराः ।।
गरुडाननाः खड्गमुखा मयूरवदनास्तथा ।। २३ ।।
घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवा. ।।
आखुदर्दुरवक्त्राश्च घोर वृकमुखास्तथा ।। २४ ।।
मार्जारशशवक्त्राश्च हंसकाकाननास्तथा ।।
गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ।। २६ ।।
सिंहव्याघ्रशृगालानां द्वीपिवानरपक्षिणाम् ।।
हस्त्यश्वगोखरोष्ट्राणां भुजगानां समाननाः ।। २६।।
प्रतिग्रहजलं प्राप्य व्यवर्धत तदा हरिः ।।
उदङ्मुखैर्देवगणैरीक्ष्यमाण इवाम्बुदः ।। २७ ।।
विक्रमन्तं हरिं लोकान्दानवाः शस्त्रपाणयः ।।
मत्स्यकच्छपवक्त्राणां दर्दुराणां समाननाः ।। २८ ।।
स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा ।।
पिङ्गलाक्षो विवृत्तास्या नानाबाहुशिरोधराः ।। २९ ।।
स्थूलाग्रनासाश्चिपिटा महाहनुकपालिनः ।।
चीनांशुकोत्तरासंगाः केचित्कृष्णाजिनाम्बराः ।। 1.55.३० ।।
भुजङ्गाभरणाश्चान्ये केचिन्मुकुटभूषिताः ।।
सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ।। ३१ ।।
धनुर्बाणधराश्चाऽन्ये तथा तोमरपाणयः ।।
खड्गचर्मधराश्चाऽन्ये तथा परिघपाणयः ।। ३२ ।।
शतघ्नीचक्रहस्ताश्च गदामुशलपाणयः ।।
अश्मयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ।। ३३ ।।
शूलोलूखलहस्ताश्च परश्वधधरास्तथा ।।
महावृक्षप्रवहणा महापर्वतयोधिनः ।। ३४ ।।
क्रममाणं हृषीकेशमुपावर्त्तन्त सर्वशः ।।
स तान्ममर्द सर्वात्मा तन्मुखान्दैत्यदानवान् ।। ३५ ।।
सरसीव महापद्मान्महाहस्तीव दानवान् ।।
प्रमथ्य सर्वान्दैतेयान्हस्तपादतलैस्ततः ।।३६ ।।
रूपं कृत्वा महाभीममाजहाराऽऽशु मेदिनीम्।।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।। ३७ ।।
परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ ।।
ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ।। ३८ ।।
ततोपि क्रममाणस्य पद्भ्यां देवौ व्यवस्थितौ ।।
जित्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुंगवान् ।। ३९ ।।
ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ।।
स्वं रूपञ्च तथाऽऽसाद्य दानवेन्द्रमभाषत ।। 1.55.४० ।।
श्रीभगवानुवाच ।।
यज्ञवाटं त्वदीयेऽस्मिन्सालिग्रामे महासुर ।।
मया निविष्टपादेन मापितेयं वसुन्धरा ।। ४१ ।।
प्रथमं तु पदं जातं नौर्बन्धशिखरे मम ।।
द्वितीयं मेरुशिखरे तृतीयं नाऽभवत्क्वचित् ।। ४२ ।।
तन्मे वरय दैत्येन्द्र यन्मयाप्तं प्रतिग्रहम्।।
बलिरुवाच ।।
यावती वसुधा देव त्वयैव परिनिर्मिता ।। ४३ ।।
तावती ते न संपूर्णा देवदेव क्रमत्रयम् ।।
न कृतं यत्त्वया देव कुतस्तन्मे महेश्वर ।। ४४ ।।
न च तद्विद्यते देव तथैवाऽन्यस्य कस्यचित् ।।
श्रीभगवानुवाच ।।
न मे त्वयापूर्यते मे दानवेन्द्र यथाश्रुतम् ।। ४५ ।।
सुतलं नाम पातालं वस तत्र सुसंयतः ।।
मयैव निर्मिता तत्र मनसा शोभना पुरी ।।४६।।
ज्ञातिभिः सहधर्मिष्ठैर्वस तत्र यथासुखम्।।
तत्र त्वं भोक्ष्यसे भोगान्विशिष्टान्बलसूदनात् ।।४७।।
अवाप्स्यसि तथा भोगाँलोकाद्विधिविवर्जितान्।।
प्राकाम्ययुक्तश्च तथा लोकेषु विहरिष्यसि ।।४८।।
मन्वन्तरे द्वितीये च महेन्द्रत्वं करिष्यसि ।।
तेजसा च मदीयेन शक्रत्वे योक्ष्यसे बले ।। ४९ ।।
तव शत्रुगणान्सर्वान्घातयिष्याम्यहं तदा ।।
ब्रह्मण्यस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ।। 1.55.५० ।।
तपस्वी दानशीलश्च वेदवेदांगपारगः ।।
तस्माद्यशोभिवृद्ध्यर्थं मया त्वमभिसन्धितः ।। ५१ ।।
देवराजाधिकान्भोगान्पातालस्थोऽपि भोक्ष्यसे ।।
सन्निधानश्च तत्राहं करिष्याम्यसुराधिप ।।५२।।
मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि।।
शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिकेऽन्तरे ।। ५३ ।।
सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे ।।५४।।
शङ्कर उवाच ।।
इत्येवमुक्त्वा सजलाम्बुदाभः प्रतप्तचामीकरधौतवस्त्रः ।।
अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ।। ५५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शंकरगीतासु वामन प्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।