विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०४०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०४०
वेदव्यासः
अध्यायः ०४१ →

मार्कण्डेय उवाच ।।
एतस्मिन्नेव काले तु साल्वस्य च महात्मनः ।।
शीर्षमात्रावशिष्टस्तु ददृशे चाग्रजस्य च ।। १ ।।
राहुरित्येव विख्यातः पूजयामास तं नृपः ।।
यथार्हं पूजितो राज्ञा निषण्णो वाक्यमब्रवीत् ।। २ ।।
राहुरुवाच।।
न हि मे रोचते वैरं विष्णुना प्रभविष्णुना।।
यस्य क्रोधादनङ्गोहं जातः परबलार्दनः।।३।।
प्रसादाच्च तथा यस्य ग्रहत्वमुपलब्धवान् ।।
किमन्यैः कीर्तितैस्तस्य कर्मभिस्तेऽसुरात्मज ।। ४ ।।
साल्व उवाच ।।
भगवञ्छ्रोतुमिच्छामि कथं तेन महात्मना ।।
अनंगस्त्वं कृतो वीर ग्रहेशश्च कथं कृतः ।। ५ ।।
राहुरुवाच ।।
अमरत्वमभीप्संतः पुरा देवा सवासवाः
केशवं शरणं गताः ।। ६ ।।
देवा ऊचुः ।।
भगवन् देवदेवेश जगतामार्तिनाशन ।।
निर्विशेषा वयं मर्त्यैस्त्राता तत्रास्तु नो भवान् ।। ७ ।।
श्रीभगवानुवाच ।।
क्षीरोदमथने यत्नं त्रिदशाः कर्तुमर्हथ ।।
दानवैः सहिता भूत्वा ततः श्रेयोऽप्यवाप्स्यथ ।। ८ ।।
राहुरुवाच ।।
एवमुक्ताः सुराः सर्वे देवदेवेन शार्ङ्गिणा ।।
दानवैः सहिता भूत्वा ममन्थुर्वरुणालयम् ।। ९ ।।
साहाय्यमकरोत्तेषां तत्र कर्मणि पार्थिव ।।
विना विष्णुसहायेन न शक्ताः ससुरासुराः ।। 1.40.१० ।।
अनन्तः स ततो भूत्वा चांशः संकर्षणस्य च ।।
उत्पाट्य मंदिरं दोर्भ्यां चिक्षेप पयसां निधौ ।। ११ ।।
अकूपारे ततो भूत्वा कूर्मरूपी जनार्दनः ।।
मन्दरं धारयामास क्षीराब्धिगतमञ्जसा ।। १२ ।।
स्वनैव तेजसा नागं तथा संयोज्य वासुकिम् ।।
चक्रे स नेत्रतां तत्र तत्र कर्मणि दानव ।। १३ ।।
ततो ममन्थुः सहसा समुद्रं देवदानवाः ।।
यतो मुखं ततो दैत्या यतः पुच्छं ततः सुराः ।। १४ ।।
वासुकेरभवद्दैत्या मथ्यमाने महोदधौ ।।
मुखश्च नागराजस्य करेण धृतवान्स्वयम् ।। १५ ।।
आकाशाभिमुखं कृत्वा देवदेवो जनार्दनः ।।
मुखे निःश्वासवातेन सविषेण हि भूपते ।। १६ ।।
अन्यथा दैत्यसंघानां विनाशमभविष्यत ।।
हिमाचलाभाः काल्लोलाः क्षीराब्धेर्गगनस्पृशः ।। १७ ।।
उत्पेतुर्मथ्यमानस्य बलिभिदेवदानवैः ।। १८ ।।
शृङ्गाणि निपतन्ति स्म मन्दरस्य महोदधौ ।।
रत्नचित्राणि रम्याणि शतशोऽथ सहस्रशः ।। १९ ।।
द्रुमाश्च शतशः पेतुर्मृगाः पेतुः सहस्रशः ।।
त्रैलोक्यं पूरयन्नादै ररास पयसां निधिः ।। 1.40.२० ।।
क्षीरकल्लोलवसनः श्वेतमेघकृतांशुकः ।।
राजते मन्दराद्रिस्स नानाधातुविभूषितः ।। २१ ।
चलन्मेघांशुको घूर्णन्नत्यर्थं वायुपूरितैः ।।
गुहामुखैः सप्रणतं गिरिर्मत्तैरिवार्णवः ।।२२ ।।
निर्झराश्रुर्महानादः शृङ्गोच्छ्रितमहाभुजः ।।
अनिशं स गिरिश्रेष्ठः स्थानहान्येव रोदिति ।। २३ ।।
देवोपभोग्यान्सकलान्महान्त इति चिन्तयन् ।।
वाद्यत्सु देववाद्येषु नृत्यतीव स मन्दरः ।। २४ ।।
एवं हि मथ्यमानस्य क्षीराब्धेः सुमहात्मनः ।।
प्रादुर्भूतं विषं घोरं कालानलसमप्रभम् ।। २५ ।।
येन प्रोद्भूतमात्रेण विषण्णा देवदानवाः ।।
तत्पपौ भगवाञ्छंभुस्त्रैलोक्यहितकाम्यया ।।२६।।
विषे कण्ठमनुप्राप्ते नीलकण्ठत्वमागतः ।।
धारयामास तत्कण्ठे शोभार्थं सुरवारितः ।। २७ ।।
ततश्चन्द्रकला जाता त्रैलोक्यस्यैव सुन्दरी ।।
जटाजूटेन तां चक्रे देवदेवो महेश्वरः ।। २८ ।।
रश्मिज्वालावलीपुञ्जविभासितजगत्त्रयम् ।।
वैडूर्यकौस्तुभं जातं यं बभार हृदा हरिः ।। २९ ।।
वातरंहो महाकायः शशाङ्कसदृशच्छविः ।।
उच्चैश्रवाहयो जातस्स च देवानुपाश्रितः ।। 1.40.३० ।।
ततः सुरा समुत्पन्ना सा च पीता महासुरैः ।।
ततस्त्वप्सरसो जाता देवरामा मनोरमाः ।। ३१ ।।
देवी लक्ष्मीस्ततो जाता रूपेणाऽप्रतिमा शुभा।।३२।।
यस्याः शुभौ तामरसप्रकाशौ पादाम्बुजौ स्पृष्टतलाङ्गुलीकौ ।।
जङ्घे शुभे रोमविवर्जिते च गूढास्थिकं जानुयुगं सुरम्यम् ।। ३३ ।।
सुवर्णदण्डप्रतिमौ तथोरू चाभोग्यरम्यं जघनं घनं च ।।
मध्यं सुवृत्तं कुलिशोदराभं वलित्रयं चारु शुभं दधानम् ।।३४ ।।
उत्तुङ्गमाभोगि समं विशालं स्तनद्वयं चारुसुवर्णवर्णम् ।।
बाहू सुवृत्तावतिकोमलौ च करद्वयं पद्मदलाग्रकान्ति ।। ३५ ।।
कण्ठञ्च शङ्खाग्रनिभं सुरम्यं पृष्ठं समं चारु सिराविहीनम् ।।
कर्णौ शुभौ चारुशुभप्रमाणौ सम्पूर्णचन्द्रप्रतिमञ्च वक्त्रम् ।। ३६ ।।
कुन्देन्दुतुल्या दशनास्तथोष्ठौ प्रवालकानां प्रतिपक्षभूतौ ।।
स्पष्टा च नासा चिबुकं च रम्यं कपोलयुग्मं शशितुल्यकान्ति ।। ३७ ।।
उन्निद्रनीलोत्पलसन्निकाशं त्रिवर्णमाकर्णिकमक्षियुग्मम् ।।
शिरोरुहाः कुञ्चितनीलदीर्घा वीणेव वाणी मधुरा शुभा च ।। ३८ ।।
वस्त्रे सुसूक्ष्मे विमले दधाना चन्द्रांशुतुल्येऽतिमनोभिरामे ।।
श्रोत्रद्वयेनाप्यथ कुण्डले च संतानकानां शिरसा च मालाम् ।। ३९ ।।
गङ्गाप्रवाहप्रतिमञ्च हारं कण्ठेन शुभ्रं दधती सुवृत्तम् ।। ४० ।।
तथाङ्गदौ रत्नसहस्रचित्रौ हंसस्वनौ चाऽप्यथ नूपूरौ च ।।1.40.४०।।
करेण पद्मं भ्रमरोपगीतं वैडूर्यनालञ्च शुभं गृहीत्वा ।।
स्वरूपमूढेषु सुरासुरेषु दृष्टिं ददौ चारुमनोभिरामा ।।४१।।
सा देवसंघानसुरांश्च दृष्ट्वा ददर्श देवं जगतां प्रधानम् ।।
देवासुरेभ्यस्त्वतिरिक्तरूपं सूर्यायुताभं भुवनेष्वजेयम् ।।४२ ।।
उन्निद्रनीलनलिनद्युतिचारुवर्णं संतप्तहाटकनिभे वसने वसानम् ।।
दृष्ट्वैव जातपुलकोद्गममात्रकम्पा क्षीराब्धिजा मदनबाणवशं जगाम ।। ४३।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे समुद्रमथने लक्ष्मीसमुद्भवो नाम चत्वारिंशत्तमोऽध्यायः ।।४० ।।