विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३९
वेदव्यासः
अध्यायः ०४० →

मार्कण्डेय उवाच ।।
एवमुक्त्वा गते शुक्रे गविष्ठो वाक्यमब्रवीत् ।।
राजञ्छुक्रस्य वचनं क्रियतामविचारयन्।।१।।
स्वप्ना हि सुमहाघोरा दृश्यन्ते भयवर्धनाः ।'
भवतां हि विनाशाय रात्र्यन्ते सततं विभो ।।२।।
भवान्स्वप्ने मया दृष्टो रक्त स्रगनुलेपनः ।।
उष्ट्रेण शिशुमारेण वराहेण तथा व्रजन्।।३।।
तैलाक्ताश्चापरे दैत्याः खरयानमुपाश्रिताः ।।
पतन्तः पर्वता दृष्टा राजँस्ते भयकारणम्।।४।।
केचित्कृष्णांबरधराः केचित्कृसरभोजिनः।।
केचित्पङ्कगता दृष्टाः केचिद्भस्मशया गताः।।५।।
केचिद्विवस्त्रया नार्या कृष्यन्ते दक्षिणां दिशम् ।।
काचिद्रक्ताम्बरा नारी नीयते दक्षिणां दिशम्।।६।।
केचिन्नृत्यन्ति भूपाला हसन्ति च तथाऽपरे ।।
केचिन्मुण्डा मया दृष्टाः केचित्काषायवाससः ।। ७।।
चण्डालस्कन्धगाः केचित्केचित्किंशुकसंस्थिताः ।।
गजाश्वपत्तिसैन्येन सर्वेण च भवान्युतः ।। ८ ।।
वापीं सुकलुषां प्राप्य निमग्नो गोमये ह्रदे ।।
राजश्रीश्च मया दृष्टा शक्रालिङ्गनतत्परा ।। ९ ।।
तस्य मे रोचते सन्धिस्तव शक्रेण पार्थिव ।।
प्राणान्रक्षत भो राजञ्जीवन्भद्राण्युपाश्नुते ।। १० ।।
साल्व उवाच ।।
यदैव भगवान्विष्णुः श्रुतः शत्रुर्मयाऽनघ ।।
तत्रैव देव तच्छ्रुत्वा राज्यं त्यक्तं तथा मया ।। ११ ।।
इष्टं यज्ञैस्तपस्तप्तं राज्यं कृतमकण्टकम् ।।
मूर्ध्नि स्थितममित्राणां सुहृदः परिपालिताः ।। १२ ।।
धृतो भृत्यजनः सर्वः कृतकृत्यास्ततो वयम् ।।
गोविन्दान्मरणं प्राप्य भूयो राज्यं भविष्यति ।। १३ ।।
मार्कण्डेय उवाच ।।
इत्येव वाक्यं तु निशम्य राज्ञो मेने तदायुक्ततमं गविष्ठः ।।
तूष्णीं बभूवाऽथ सुनिश्चितात्मा मेने च दैत्यान्समरे विनष्टान् ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वप्नाध्यायो नामैकोनचत्वारिंशत्तमोऽध्यायः ।। ३९ ।।