विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०३८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०३८
वेदव्यासः
अध्यायः ०३९ →

।। मार्कण्डेय उवाच ।। ।।
रत्नचित्रां सुविपुलां समासाद्य सभां तदा ।।
सिंहिकातनयः साल्वः शुक्रं वचनमब्रवीत् ।। १ ।।
साल्व उवाच ।।
दृश्यन्त एते भगवन्नुत्पाता घोरदर्शनाः ।।
आचक्षाणा महायुद्धं विनाशमपि दारुणम् ।। २ ।।
रिपुं न चैव पश्यामो येन युद्धं भविष्यति ।।
सर्वज्ञत्वाद्भवान्वेत्ति तन्नः प्रब्रूहि पृच्छताम् ।। ३ ।।
शुक्र उवाच ।।
आराध्य देवं ब्रह्माणं तपसा सिंहिका पुरा ।।
त्रिदशेभ्यो ह्यवध्यत्वं स्वसुतानामलब्ध सा ।। ४ ।।
वरदानकृतोत्साहैर्भवद्भिर्विद्यया मम ।।
निर्जितास्त्रिदशाः सर्वे शंकरं शरणं गताः ।। ५ ।।
तेन युष्मद्वधार्थाय विष्णुर्मानुषरूपधृक् ।।
जमदग्निसुतो रामः प्रेषितो रणकर्कशः ।। ६ ।।
सदा देवो महातेजा मानुषं स तु साम्प्रतम् ।।
मनुष्याच्च भयं घोरं युद्ध्यस्वाऽसुरसत्तम ।। ७ ।।
साल्व उवाच ।।
भगवन्सर्वदेवानामीश्वरो मधुसूदनः ।।
तस्मात्परतरं देवं नाऽन्यं कञ्चन शुश्रुम ।। ८ ।।
किमर्थं स महातेजाः शंकरस्य महात्मनः ।।
आज्ञाकारी भृगुश्रेष्ठ सैंहिकेयं जिघांसति ।।९।।
शुक्र उवाच ।।
यदा यदा हि धर्मस्य ग्लानिर्भवति दानव ।।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ ।।१०।।
कदाचिद्दैत्यदेवेषु कदाचिन्मनुजेषु च ।।
कदाचिदथ तिर्यक्षु ज्ञात्वा कार्यबलाबलम् ।। ११ ।।
यदा भवति देवेषु देववच्चेष्टते तदा ।।
तिर्यक्षु च यदा देवस्तिर्यग्वच्चेष्टते तदा ।।
यदा भवति मानुष्ये तदा भवति मर्त्यवत्।।
मानुष्यं रूपमासाद्य तपसा त्रिपुरान्तकम्।।१३।।
आराधयामास हरं स्वदेहे परमं नृप ।।
स तु देववरस्याज्ञां पुरस्कृत्य महातपाः ।। १४ ।।
युष्मद्वधार्थमायाति रामेण कृतलक्षणः ।।
तस्माच्छक्रेण संधानं भवतो मम रोचते ।। १५ ।।
त्रिविष्टपञ्च देवानां भवत्वसुरसत्तम ।।
पातालनिलया यूयं निवसध्वं गतज्वराः ।। १६ ।।
अहं निवारयिष्यामि शंकरेण च भार्गवम् ।।
अन्यथा निविशध्वं च मनुष्येण निराकृताः ।। १७ ।।
मार्कण्डेय उवाच ।।
एवमुक्तास्तु शुक्रेण बुद्ध्वा दैतेयदानवाः ।।
ऊचुर्वाक्यं सुसंरब्धाः शुक्रं भृगुकुलोद्वहम् ।।१८ ।।
दैत्या ऊचुः ।। एकत्राऽधिष्ठितं सर्वं जगत्स्थावरजंगमम् ।।
यद्यस्मात्प्रतियुध्येत न भीस्तत्राऽपि विद्यते ।।१९।।
ते कथं मानुषाद्भीता नाकं त्यक्ष्याम शत्रवे ।।
शंकरं तं विजेष्यामो येनाऽसौ प्रेषितो द्विजः ।। २० ।।
शुक्र उवाच ।।
एकत्र पिंडितं सर्वं जगत्स्थावरजंगमम् ।।
एकत्र भगवान्विष्णुर्जगतः सोऽतिरिच्यते ।। २१ ।।
स न शक्यो युधा जेतुं नैव देवो महेश्वरः ।।
ते यूयं प्राकृतीं बुद्धिं त्यक्त्वा सर्वे महासुराः ।।
संधिं कुरुत देवेन शक्रेणाऽमित्रघातिना ।। २२ ।।
शक्रकार्ये सदोद्युक्तो देवदेवो जनार्दनः ।।
येन दैत्या विनिहताः पूर्वे पूर्वतराश्च ये ।। २३ ।।
शंबरो नमुचिः शम्बुः कार्तवीर्यः कृतागमः ।।
हिरण्यकशिपुः केशी हिरण्याक्षो मदोत्कटः ।। २४ ।।
मधुश्च कैटभश्चैव विटो धूमोऽतिऽकोपनः ।।
हयग्रीवो निसुन्दश्च सुन्दश्चन्द्रार्कलोचनः ।। २५ ।।'
चन्द्रार्कमर्दनश्चैव चन्द्रहर्ता रणप्रियः ।।
सूर्यशत्रुर्जितामित्रो यज्ञहा यज्ञतापनः ।। २६ ।।
मेघनादो महारोमा मेघवादो भयानकः ।।
दशग्रीवः शतग्रीवो महाग्रीवश्च दानवः ।।२७।।
कालकः कालकेयश्च कालनेमि सुलोचनः ।।
कालश्च कालकल्पश्च मकराक्षो जनान्तकः ।। २८ ।।
अन्तः केशमनो भीमो देवान्तकनरान्तकौ ।।
क्रोधहा बहुनेत्रश्च महाकालो जलान्तकः ।।२९।।
एकलव्यः स चाधारो दुर्मुखो दुर्धरो वडिः ।।
इन्दुतापनरम्भो च रणचण्डहरप्रियौ ।। ३० ।।
किरीटी गजवक्त्रश्च महासालो विलोहितः ।।
ह्रादानुह्रादप्रह्रादवृक्षरक्षरदारुणाः ।। ३१ ।।
शतभः शलभश्चैव कूपनश्च महासुरः ।।
विप्रचित्तिः शिवः शङ्करयः शङ्कुस्तथैव च ।। ३२ ।।
अयःशिरा अश्वशिरा भीमदक्षो गुहाशयः ।।
वेगवान्केतुमानुग्रः सोग्रविग्रो महासुरः ।। ३३ ।।
पुष्करः पुष्कलश्चैव साल्वोश्वपतिरेव च ।।
कुम्भो निकुम्भः शतदा संग्रहो गगनप्रियः ।। ३४ ।।
एते चाऽन्ये च विख्याता दैतेया समरोद्धताः ।।
सर्वे लब्धवराः शूराः सर्वे च गतमन्यवः ।। ३५ ।।
सर्वैस्त्रिदशराज्यानि कारितानि बलोद्धतैः ।।
ते हतास्तेन देवेन वासवप्रियकाम्यया ।। ३६ ।।
केचिन्मनुष्यरूपेण तिर्यग्रूपेण चाऽपरे ।।
केचिच्च देवरूपेण निहता भूरितेजसा ।। ३७ ।।
साल्व उवाच ।।
जानामि तस्य माहात्म्यं देवदेवस्य शार्ङ्गिणः ।।
अहं स्वमरणं मत्वा तेन योत्स्यामि भार्गव ।। ३८ ।।
विशिष्टान्मरणं श्रेष्ठं न हीनाद्विजयो रणे ।।
विष्णोः करविनष्टानां भूयो राज्यं भविष्यति ।। ३९ ।।
मार्कण्डेय उवाच ।।
इत्येवमुक्तस्त्वसुराधिपेन भृगुप्रधानो भगवान् स शुक्रः ।।
ज्ञात्वा स दैत्यान्सकलान्विनष्टाञ्जगाम काष्ठामपरामभीष्टाम् ।। ४० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्र संवादे शुक्रसाल्वसंवादो नामाऽष्टात्रिंशत्तमोऽध्यायः ।।३८।।