विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०४१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४० विष्णुधर्मोत्तरपुराणम्
अध्यायः ०४१
वेदव्यासः
अध्यायः ०४२ →

राहुरुवाच ।।
सा कामबाणाभिहता समीक्ष्य मधुसूदनम् ।।
स्वयं वृतवती नाथं भर्तारमपराजितम् ।।१।।
प्रकृतिस्सा विनिर्दिष्टा पुरुषः पुरुषोत्तमः ।।
तया वियुज्यते नाऽसौ कदाचिदपि शत्रुहा ।।२।।
शंकरः पुरुषः प्रोक्तः प्रकृतिः पार्वती स्मृता ।।
पुरुषः पाकहा प्रोक्तः प्रकृतिश्च तथा शची ।।३।
हुताशनश्च पुरुषः स्वाहा च प्रकृतिः स्मृता ।।
यमश्च पुरुषः प्रोक्तो धूमोर्णा प्रकृतिः स्मृता ।। ४ ।।
विरूपाक्षश्च पुरुषः प्रकृतिर्निर्ऋतिः स्मृता ।।
वरुणः पुरुषः प्रोक्तो गोरी च प्रकृतिस्तथा ।। ५ ।।
वायुश्च पुरुषो ज्ञेयः प्रकृतिश्च तथा शिवा ।।
पुरुषश्च धर्मो वृक्षस्तद्विश्वप्रकृतिः स्मृता ।। ६ ।।
चन्द्रमा पुरुषः प्रोक्तो ज्योत्स्ना च प्रकृतिस्तथा।।
धर्मश्च पुरुषः प्रोक्तः प्रकृतिश्च करीषिणी।। ७ ।।
यज्ञश्च पुरुषः प्रोक्तो दक्षिणा प्रकृतिस्तथा ।।
दिवसः पुरुषः प्रोक्तो प्रकृतिश्च तथा निशा ।। ८ ।।
आकाशः पुरुषः प्रोक्तः प्रकृतिश्च तथा मही ।।
ॐकारः पुरुषः प्रोक्तः सावित्री प्रकृतिः स्मृताः ।।९।।
प्रकृतिः सा शुभा लक्ष्मीर्विष्णुः पुरुष उच्यते ।।
सा सदेहा विदेहा सा सगुणा निर्गुणा च सा ।। 1.41.१० ।।
तया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ।।
सा कान्तिः सा धृतिः सा श्रीः सा प्रभा च सनातनी ।। ११ ।।
सा निद्रा सा शुभा वाणी सा च देवी सरस्वती ।।
रतिः प्रीतिः क्षितिर्द्यौश्च सा गंगा सा सरस्वती ।। १२ ।।
तुष्टिः पुष्टिर्वपुः प्रज्ञा स्वधा मेधा सरस्वती ।।
सैव नद्यः शुभा सर्वाः सैव देवी वनस्पती ।। १३ ।।
सा वास्तुदेवता दीक्षा सा भक्तिर्वैष्णवी स्मृता ।।
बुद्धिर्लज्जा धृतिः शान्तिः सुधा शोभा जया त्विरा ।। १४ ।।
सिनीवाली कुहू राका त्वेवं चानुमतिः शुभा ।।
कात्यायनी भद्रकाली सुप्रभा विजया तथा ।। ।। १५ ।।
अदितिर्दितिर्दनुः काला स्नायुः सिंहिका मुनिः ।।
कद्रू क्रोधा त्विरा प्रावा विनता सुरभिः खगा ।। १६ ।।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा क्षमा श्रद्धा क्रिया रतिः ।।
अनसूया सती भूतिर्विभूतिर्वारुणी तथा ।। १७ ।।
अरुन्धती वसुर्जामी लोभा भानुररुन्धती ।।
संकल्पा च मुहूर्ता च साध्या विश्वा तथैव च ।। १८ ।।
मृगा च मृगमन्दा च हरिभद्रा युवा त्विडा ।।
भूता च कपिला दंष्ट्री सरमा सुरमा तथा ।। १९ ।।
राजश्रीर्भूमिपालानां ब्रह्मश्रीस्तद्विदां शुभा ।।
पुष्पश्रीः काननानां सा जयश्रीर्जयिनां रणे ।। 1.41.२० ।।
स्वर्गश्रीः स्वर्गतानां सा दीक्षा सा यज्ञयाजिनाम् ।।
बुद्धिर्बुद्धिमतां देवी क्षमा देवी क्षमावताम् ।। २१ ।।
शिखा वह्नौ प्रभा सूर्ये ज्योत्स्ना चन्द्रे प्रकीर्तिता ।।
कान्तिस्तारागणस्योक्ता सा सिद्धिः सर्वकर्मणाम् ।। २२ ।।
सहस्रनेत्रजा दृष्टिः सहस्रनयनस्य सा ।।
उपत्यका पर्वतानां फलश्रीः सा च शाखिनाम् ।। २३ ।।
महोदधेश्च सा वेला नक्षत्राणाञ्च कृत्तिका ।।
धनुर्लता च मन्त्राणां हेतीनां चाप्यसेर्लता ।। २४ ।।
गान्धारी सर्वविद्यानां वृष्टिः सा जगतीतले ।।
कार्षकाणां तथा सीता सस्य शोभा महीतले ।। २५ ।।
मदलेखा च नागानां भोगिनाञ्च फणावली ।।
रत्नावली च शेषस्य धृतिर्भूमण्डलस्य सा ।। २६ ।।
सा स्थिता सततं चन्द्रे बिल्वे नीलोत्पले वृषे ।।
कुञ्जरे तुरगे सिंहे खङ्गे च विमले शुभे ।। २७ ।।
चामरे व्यजने छत्रे भृंगारे गोमये वने ।।
सहस्रकिरणे सूर्ये शक्रे वैश्रवणे यमे ।। २८ ।।
कमले रजते हेम्नि शंखे भद्रासने शुभे ।।
गोमूत्रे सर्पिषि क्षीरे दधि क्षीरफलेषु च ।। २९ ।।
वरुणे च जलाध्यक्षे समुद्रेषु जलेषु च ।।
कुसुमेषु च शुक्लेषु प्रासादेषु सितेषु च ।। 1.41.३० ।।
हुताशने प्रज्वलिते पार्थिवे चारुशोभिते ।।
रत्नेषु च विचित्रेषु तथैवामलकेषु च ।। ३१ ।।
यथा व्याप्तं जगत्सर्वं देवदेवेन शार्ङ्गिणा ।।
तथा व्याप्तं जगत्सर्वं राजन् क्षीराब्धिकन्यया ।। ३२ ।।
स्वायंभुवेऽन्तरे देवी भृगोः सा दुहिता स्मृता ।।
स्वारोचिषे तथा जाता सैव देवी हुताशनात् ।। ३३ ।।
औत्तमस्यान्तरे जाता सलिलाद्विमलाच्छुभा ।।
तामसस्यान्तरे राजन् भूतलात्सा समुत्थिता ।। ३४ ।।
बिल्वात्समुत्थिता देवी रैवतस्यान्तरे तथा ।।
उत्फुल्लकमलोद्भूता चाक्षुषेऽपि तथान्तरे ।। ३५ ।।
वैवस्वतेऽन्तरे जाता तथैवाऽमृतमन्थनात् ।।
क्षीराब्धिजातां तां प्राप्य हृदयेन जनार्दनः ।। ३६ ।।
दधार दुर्धरां देवीं त्रैलोक्ये तमृते प्रभुम् ।।
आदाय साऽमृतं शुद्धं शुभमर्ककमण्डलुम् ।। ३७ ।।
एतस्मिन्नन्तरे जातो वैद्यो धन्वन्तरिस्तथा ।।
अमृते जातमात्रे तु दैत्यसंघाः समाकुलाः ।। ।। ३८ ।।
धन्वन्तरिमथोन्मथ्य परिभूय च देवताः ।।
अमृतं च समादाय जग्मुर्दैत्या निवेशनम् ।। ३९ ।।
हृतामृतान्देवगणान्विपानानाश्वास्य देवो भुवनस्य गोप्ता ।।
स्थाने च विन्यस्य गिरीन्द्रमुख्यं जगाम देवोऽसुरनाथवेश्म ।। 1.41.४० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽमृतमन्थनं नामैकचत्त्वारिंशतत्तमोऽध्यायः ।। ४१ ।।