विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०२७
वेदव्यासः
अध्यायः ०२८ →

।। मार्कण्डेय उवाच ।। ।।
ते समेताः समासाद्य पितामहसभां शुभाम् ।।
पद्मासनगतं तत्र ददृशुः पद्मसम्भवम् ।। १ ।।
पद्मपत्रसवर्णांगं पद्मबोधसमप्रभम् ।।
चतुर्वक्त्रं चतुर्वेदं चतुराश्रमपूजितम् ।। २ ।।
चातुर्वर्ण्यधरं देवं चातुर्होत्रप्रवर्तकम् ।।
कृष्णाजिनधरं शान्तं प्रभुं प्रभवतामपि ।। ३ ।।
स्वयंभुवमचिन्त्यं च सर्गसंहारकारकम् ।।
तं समासाद्य जगती शक्रश्च गुरुणा सह ।। ४ ।।
ववन्दुस्ते महाभागं तुष्टुवुश्च जगत्प्रभुम् ।।
शक्रादय ऊचुः ।।
नमस्ते देवदेवेश सृष्टिसंहारकारण! ।।
वेदमूर्ते तदाधार यज्ञ यज्ञांग यज्ञप ।। ५ ।।
यज्ञयोने जगद्योने सर्वसत्त्वाभयप्रद ।।
प्रजापतिपते देव जगद्बीज नमोऽस्तु ते ।। ६ ।।
स्वयम्भुवे स्वयं कर्त्रे सर्वभूतान्तरात्मने ।।
सर्वभूतवरेण्याय सर्वभूतेश्वराय च ।। ७ ।।
अचिन्त्यायाऽप्रमेयाय प्रकाशाय महात्मने ।।
त्वमस्य जगतो नाथस्त्वयि सर्वं प्रतिष्ठितम् ।। ८ ।।
त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ।।
इन्द्रियाणीन्द्रियार्थाश्च तेभ्यः परतरश्च यत् ।। ९ ।।
व्यक्ताव्यक्तो जगन्नाथ त्वमेवैकः प्रकीर्तितः ।।
त्वं तपांसि वरिष्ठानि कृच्छ्राणि नियमानि च ।। 1.27.१० ।।
कलाः काष्ठा मुहूर्ताश्च कालस्यावयवाश्च ये ।।
कालचक्रं जगच्चक्रं त्वमेकः पुरुषोत्तमः।।। ११।।
त्वमेव वरदो दाता देवः शुभचतुर्मुखः ।।
त्वत्तः प्रसूतौ लोकेऽस्मिन्धर्मरुद्रौ जगत्पते ।। १२ ।।
भृग्वंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ।।
अत्रिश्चैव वशिष्ठश्च त्वया सृष्टा जगत्पते ।। १३ ।।
सनत्कुमारो भगवान्सनकश्च सनन्दनः ।।
आकृतिश्च रुचिः श्रद्धा त्वया देव विनिर्मिता ।। १४ ।।
पूर्वात्ते वदनाज्जातमृग्वेदममृतप्रभम् ।।
दक्षिणाद्वदनाज्जातं यजुर्वेदं तथैव च ।। १५ ।।
पश्चिमाद्वदनाज्जातं सामवेदं तथा तव ।।
उत्तराद्वदनाज्जातमथर्वागिरसं शुभम् ।। १६ ।।
ब्राह्मणास्ते मुखाज्जाता बाहुभ्यां क्षत्त्रियास्तथा ।।
ऊरुद्वयात्तथा वैश्याः पद्भ्यां शूद्रास्तथैव च ।। १७ ।।
विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च ।।
त्वत्तः प्रभो प्रसूतानि प्रविशन्ति तथा त्वयि ।। १८ ।।
स्वयम्भूर्भगवान्विष्णुर्देवदेवः सनातनः ।।
नाममात्रविभेदेन मोहयस्यखिलं जगत् ।। १९ ।।
त्वत्तेजसा मया दैत्या ये युद्धे विनिपातिताः ।।
ते क्षितौ क्षत्त्रिया जाताः पीडयन्ति तथा क्षमाम् ।। 1.27.२० ।।
तेषां भारेण खिन्नेयं त्वत्सकाशमुपागता ।।
वसुधा वसुधापाल तां त्रायस्व नमोऽस्तु ते ।। २१ ।।
मार्कण्डेय उवाच ।।
एवं पितामहो देवः स्तुतः शक्रेण धीमता ।।
गुरुणा च समेतेन पूजयामास तावुभौ ।। २२ ।।
पूजयित्वा च वसुधां शक्रं वचनमब्रवीत् ।।
व्रजध्वं देवदेवस्य शङ्करस्य महात्मनः ।। २३ ।।
भुवश्चिकीर्षितं सर्वं निवेदयत मा चिरम् ।।
उपायं क्षत्रियवधे युष्माकं कथयिष्यति ।। २४ ।।
इत्येवमुक्तास्तु पितामहेन जग्मुस्तदा रुद्रसदः प्रतीताः ।।
शक्रोऽथ देवी च वसुन्धरा च गुरुः सुराणाञ्च स धर्मशीलः ।। २५ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मलोकगमनं नाम सप्तविंशतितमोऽध्यायः ।। २७ ।।