विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२६

विकिस्रोतः तः
← अध्यायः ०२५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०२६
वेदव्यासः
अध्यायः ०२७ →

मार्कण्डेय उवाच ।।
नाकपृष्ठगता भूमिर्ददर्श मधुसूदनम् ।।
रत्नासनगतं वीरं श्रिया परमया युतम् ।। १ ।।
उपास्यमानं त्रिदशैर्भासयन्तं सभां शुभाम् ।।
आदित्यैर्वसुभिः साध्यैर्विश्वेदेवैर्मरुद्गणैः ।।२ ।।
रुद्रैर्भृग्वङ्गिरोभिश्च नासत्यैश्च महात्मभिः ।।
ऋषिभिः सूर्यसंकाशैस्तपसा द्योतितप्रभैः ।। ३ ।।
गन्धर्वैरप्सरोभिश्च स्तूयमानं सहस्रशः ।।
किरीटोत्तमसंच्छन्नं हारकेयूरभूषितम् ।। ४ ।।
रत्नाङ्गदकृतोद्द्योतं रत्नगर्भसमप्रभम् ।।
हरिचन्दन दिग्धांगं नीलाम्बरधरं हरिम् ।। ५ ।।
तिर्यग्ललाटकेनाऽक्ष्णा तृतीयेन विराजितम् ।।
पश्यन्तं सर्वलोकस्य सततं धर्मकर्मणी ।। ६ ।।
विष्णोरचिन्त्यमङ्गं तत्त्रैलोक्यस्यैव कारणम् ।।
गोब्राह्मणहितासक्तं ददर्श वसुधा तदा ।। ७ ।।
सन्ध्यासह समासीनं श्रिया चैव जनार्दनम् ।।
तं ववन्दे वसुमती दैत्यभारभरार्दिता ।। ८ ।।
पाद्यार्घ्याचमनीयाद्यैः शक्रोऽपि वसुधां तदा ।।
पूजयित्वा सुखासीनां पप्रच्छागमनक्रियाम् ।। ९ ।।
पृष्टा शक्रेण सा देवी वक्तुं समुपचक्रमे ।। 1.26.१० ।।
पृथिव्युवाच ।।
अन्तरिक्षं दिवं यच्च तथैवाऽहं जगत्पते ।।
तवायत्ता महाभाग त्वं हि देवेश्वरो विभुः ।। ११ ।।
त्वयि भारं समासज्य वेदाभ्यसनतत्परः ।।
सुखमास्ते प्रशान्तात्मा ब्रह्मा शुभचतुर्मुखः ।। १२ ।।
त्वयि भारं समासज्य देवदेवोऽपि शङ्करः ।।
आस्ते तपस्यभिरतः कैलासे पर्वतोत्तमे ।। १३ ।।
त्वयि भारं समासज्य सुखं स्वपिति केशवः ।।
क्षीरोदशयने नित्यं शेषपर्यङ्कमा स्थितः ।। १४ ।।
पितामहस्य यत्तेजः केशवस्य शिवस्य च ।।
स्थितं तत्सकलं तुभ्यं त्वं हि सर्वमयोऽरिहा ।। १५ ।।
त्वया विनिहतो वृत्रो बलश्चापि निषूदितः ।।
त्वया च नाशितः पाकस्त्वया दैत्या निषूदिताः ।। १६ ।।
ब्रह्मण्यस्त्वं शरण्यस्त्वं प्रणतार्तिविनाशनः ।।
सहस्रनयनः श्रीमान्वज्रपाणिर्जगत्प्रियः ।। १७ ।।
तेजसा तपसा यज्ञैः श्रुतेन च दमेन च ।।
त्वत्तो विशिष्टं लोकेऽस्मिन्न पश्यामि शचीपते ।। १८ ।।
वेदेषु सरहस्येषु गीयसे त्वं पुनःपुनः ।।
वेदाः प्रवृत्ता यज्ञार्थं तदर्थं क्रतवस्तथा ।। १९ ।।
ये हता दानवा युद्धे त्वया शक्र पुनःपुनः ।।
त इमे नृषु सम्भूताः कार्तवीर्यं समाश्रिताः ।। 1.26.२० ।।
तेऽद्य जाता मम विभो पीडयन्ति च मां भृशम् ।।
साऽहं भारसमाक्रान्ता त्वामद्य शरणं गता ।। २१ ।।
।। शक्र उवाच ।।
जानामि भारखिन्नां त्वां दैत्येभ्यो वरवर्णिनि ।।
तेषां गत्वा वधोपायमहं प्रष्टास्मि वेधसम् ।। २२ ।।
मार्कण्डेय उवाच ।।
इत्येवमुक्त्वा त्रिदशप्रधानः पृध्वीसमेतो गुरुणा च राजन् ।।
ययौ सभां देववरस्य तस्य पितामहस्याप्रतिमस्य वीरः ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वीशक्रलोकगमनं नाम षड्विंशतितमोऽध्यायः ।। २६ ।।