विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१९
← अध्यायः ०१८ | विष्णुधर्मोत्तरपुराणम् अध्यायः ०१९ वेदव्यासः |
अध्यायः ०२० → |
।। मार्कण्डेय उवाच ।।
राज्यं प्राप्य महातेजा दिलीपतनयो नृपः ।।
नरकस्थान् पितॄञ्श्रुत्वा राज्यं न्यस्याशु वृद्धये ।।१।।
गङ्गामाराधयामास तपसा महता तदा ।।
यमैश्च नियमै राजन्नपर्णाशनकैस्तथा ।। २।।
दशवर्षसहस्राणि तपस्तेपे भृशं नृपः ।।
अथ गंगा महादेवी प्रसन्नाभूद्गतक्लमा ।। ३ ।।
भगीरथोऽपि धर्मात्मा वरं लेभे कुतूहली ।।
ततो लेखनदी देवी प्रावोचत्तं भगीरथम् ।। ४ ।।
पतन्त्या गगनात्सोढुं मम वेगं वसुन्धरा ।। ५ ।।
न समर्था यदा तस्मात्तोषयस्वाशु शंकरम् ।।
स हि शक्तः पतंत्या मे वेगं सोढुं नरेश्वर।।६।।
एवमुक्त्वा ययौ देवी तदान्तर्धानमीश्वरी।।
भगीरथोऽपि धर्मात्मा तपस्तेपे सुदारुणम्।।७।।
आराधनार्थं देवस्य शङ्करस्य महात्मनः।।
तपसोऽन्ते महातेजा दृष्टवाञ्जगदीश्वरम्।।८।।
देवदेव उवाच।।
तपसोग्रेण ते राजन् प्रसन्नोऽस्मि यथेप्सितम्।।
ददामि ते यतो भक्तिं पितॄणां चाक्षयं यशः ।।९।।
मार्कण्डेय उवाच।।
एवमुक्तस्तु देवेन पूजयित्वा महेश्वरम् ।।
जगाम गङ्गां मनसा राजा पूर्णमनोरथः ।।1.19.१०।।
शङ्कराधिष्ठितं ज्ञात्वा नृपतेश्च चिकीर्षितम् ।।
पपात गननाद्गंगा तदा राजीवलोचन! ।।११।।
गंगायाः पतनं ज्ञात्वा ब्रह्मा तं देशमागतः ।।
यमेन्द्रवरुणान्देवान्पुरस्कृत्यामितौजसः ।। १२ ।।
ऋषयो नागगन्धर्वविद्याधरमहोरगाः ।।
सुपर्णकिन्नरगणास्तथैवाप्सरसां गणाः ।। १३ ।।
विमानशतसंबाधं तद्बभूव नभस्तलम् ।।
प्रकीर्यमाणं कुसुमैर्देवनागविराजितम् ।।
सुरप्रभादुर्निरीक्ष्यं तदाभरणभासुरम् ।।१४।।
सुगन्धि चारु पवनं सुरतूर्यनिनादितम् ।।
नभसस्तस्य मध्येन पपात गगनान्नदी ।।१५।।
विशामि भित्त्वा पातालं स्रोतसा गृह्य शङ्करम् ।।
इत्येवं दुष्टभावा सा पपात हरमूर्धनि ।।१६।।
ज्ञात्वा क्रूरमभिप्रायं देव्या देवः पिनाकभृत्।।
जटाकलापे तां देवीं तिरश्चक्रे चतुर्मुखः ।।१७।।
बभ्राम सा तिरो भूत्वा तत्रैव त्वचिरं नदी ।।
तस्याः पतंत्या ये केचिद्बिंदवः क्षितिमागताः।।१६।।
तैः कृतं पृथिवीपाल तदा विन्दुसरः शुभम्।।
देवोपि दृष्ट्वा राजानं क्षुधया व्याकुलेन्द्रियम् ।। १९ ।।
तत्याज तां तदा शीघ्रं जटाग्रेण महेश्वरः ।।1.19.२०।।
धृतगंगो जगामाथ ततोऽन्तर्धानमीश्वरः ।।
महेश्वरशिरोभ्रष्टा प्रविष्टा च सरः शुभम् ।। २१ ।।
तस्माद्विनिःसृता भूयः सप्तधा देवनिम्नगा ।।
ह्लादिनी ह्रादिनी चैव प्लाविनी चेति प्राच्यगाः ।।२२।।
सीतावक्त्रश्च सिन्धुश्च प्रतीच्यभिमुखा गताः ।।
दक्षिणेन तथा गंगा भगीरथपथानुगा ।।
क्वचिद्वेगेन महता क्वचिन्मन्दविसर्पिणी ।। २३ ।।
क्वचित्फेनाकुलजला क्वचिदावर्तमालिनी ।।
क्वचिद्गम्भीरशब्दौघा निःशब्दा च तथा क्वचित् ।। २४ ।।
क्वचिद्धंसरवोद्दामा चक्रवाकयुगा क्वचित ।।
ऊर्मिमालाकुलजला कुसुमोत्करमण्डिता।।२५।।
जलसत्त्वशताकीर्णा सुरसिद्धसुखप्रदा ।।
अमृतस्वादुसलिला हरसंसर्गनिर्मला ।। २६ ।।
विष्णुपादप्रहारोत्था सर्वपात कनाशिनी ।।
एवं संप्राप्य सा विंध्यं प्रविष्टा पूर्वसागरम् ।। २७ ।।
सागरेण समासाद्य पातालं भीमदर्शनम् ।।
प्लावयामास तद्भस्म सागराणां महात्मनाम्।।२८।।
भस्मनि प्लाविते सर्वे गतास्ते सागरा दिवम् ।।२९।।
एवं धरां देवनदी प्रयाता सुपुण्यतोया ऋषिवर्यजुष्टा ।।
महानुभावा नृप जह्नुकन्या निश्रेणिभूता त्रिदिवप्रयाणे ।।1.19.३०।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गङ्गावतरणनामैकोनविंशोऽध्यायः।।१९।।