विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१८
वेदव्यासः
अध्यायः ०१९ →

।। मार्कण्डेय उवाच ।।
सगरस्य तु ते पुत्रास्संहता वीर्यसंयुताः ।।
संजाता दैवयोगेन देवब्राह्मणकंटकाः ।। १ ।।
तेषां तु कर्मणोद्विग्ना देवाः सर्वे पितामहम् ।।
अब्रुवन्सागरैः सर्वैर्देव बाध्याम संहतैः ।।२।।
एवमुक्तस्तदा ब्रह्मा सर्वलोकपितामहः ।।
उवाच देवान्सकलान्सागरैः प्रत्यमर्षितान् ।। ३ ।।
यस्त्वस्य जगतो नाथः परमात्मा सनातनः ।।
वासुदेवः स कपिलः सुरास्तान् घातयिष्यति ।। ४ ।।
एवमुक्ताः सुरा स्तेन ययुः सर्वे त्रिविष्टपम् ।।
एतस्मिन्नेव काले तु सगरः स महीपतिः ।। ५ ।।
दीक्षितो वाजिमेधाय विधिवद्वेदपारगैः ।।
तुरङ्गं चारयामासुर्यज्ञियं तनया महीम् ।। ६ ।।
तेषां चारयतां सोऽश्वः कपिलेन तथा हृतः ।।
कपिलेन हृतं नाश्वं ते जानन्ति विमोहिताः ।। ७ ।।
अन्वेषन्तोऽपि यत्नेन नापुस्ते तुरगं यतः ।।
पित्रे निवेद्य ते सर्वे निचख्नुः पृथिवीतलम् ।। ८ ।।
भारतस्यास्य वर्षस्य भेदेऽस्मिन्नवमे नृप! ।।
समन्ततस्ततश्चक्रुः खातकर्मबलान्विताः ।। ९ ।।
विस्तराद्योजनशतं पातालतलगामिनम् ।।
वैडूर्यपवर्तात्पूर्वमुत्तरेण हिमाचलात् ।। 1.18.१० ।।
पश्चार्धे काञ्चनगिरेरुदगेव च लावणात् ।।
हिमाचलश्च तैर्वीरः राजन्देशद्वये क्षतः ।। ११ ।।
हिमाचलस्य खण्डश्च खातस्यान्तः प्रवेशितः ।।
उत्तरः सागरस्तस्माद्धिम शैलेन दुर्गमः ।। १२ ।।
एवंविधेन खातेन ते प्रविश्य पृथक्पृथक् ।।
एकीकृता दैवयोगात्कपिलो यत्र वै स्थितः ।। १३ ।।
कपिलस्य समीपस्थं ददृशुस्ते तुरङ्गमम् ।।
तुरङ्गसहितं दृष्ट्वा कपिलं ते त्वमर्षिताः ।। १४ ।।
कुद्दाललेपिकाहस्तास्तस्य जग्मुर्वधेप्सया ।।
तान्बाधमानान्दुर्बुद्धीन्स ददर्श तदा ऋषिः ।। १५ ।।
चक्षुषा दृष्टमात्रास्ते भस्मीभूतास्तु सागराः ।।
नरकं च गताः सर्वे देवब्राह्मणकण्टकाः ।। १६ ।।
विज्ञाय तनयान्नष्टान्नारदात्सगरो नृपः ।।
प्रेषयामास सततमंशुमन्तं स धार्मिकम् ।।१७ ।।
अंशुमानपि संप्राप्य कपिलं मुनिसत्तमम्।।
अभिवाद्य महातेजास्तुष्टाव यदुनन्दनः ।। १८ ।।
तस्य तुष्टोऽथ तुरगं दत्तवान्कपिलो मुनिः ।।
अंशुमन्तं तदोवाच पितॄणां सलिलार्थिनाम् ।। १९ ।।
पौत्रस्ते भविता राजंस्तपसा तस्य तोषिता ।।
आगमिष्यति सा देवी गङ्गा गगनमेखला ।। 1.18.२० ।।
तया क्लिन्नमिदं भस्म सागराणां दुरात्मनाम् ।। २१ ।।
यदा भविष्यति तदा सागराः स्वर्गगामिनः ।।
अन्यस्यापि यदा त्वस्थि गङ्गातोये पतिष्यति ।। २२ ।।
तस्यापि स्वर्लोकगतिर्भविष्यति न संशयः ।।
एवमुक्तोंशुमाञ्शीघ्रं चाभिवाद्य जगद्गुरुम् ।। २३ ।।
आगम्य योजयामास तुरगेण पितामहम् ।।
यज्ञं समापयामास सगरोऽपि महीपतिः ।। २४ ।।
एवं हि सागरैर्मत्तैः खातको नृपसत्तम ।।
येन क्लृप्तमिदं द्वीपं सागरं नृप कथ्यते।। ।। २५ ।।
लवणोदात्समुद्राच्च तोयेन नृप सागरः।।
यदा पूर्णस्तदा जातो लवणोदो नराधिप! ।। २६ ।।
कृत्स्नं य एवं जयति स सम्राडिति कीर्त्यते ।।
ततो गतः स धर्मात्मा कालेन महता दिवम् ।। २७ ।।
दिलीपे भारमासज्य जगाम तनये स्वके ।।
दिलीपोऽपि समादाय राज्यं पुत्रं भगीरथम् ।। २८ ।।
जगाम त्रिदिवं राजा वने तप्त्वा महत्तपः ।।
आसाद्य राज्यं स भगीरथोऽपि आनीय गङ्गां तपसा च भूमिम् ।। २९ ।।
संप्लावयामास जलेन भस्म तत्सागराणां यदुवृन्दनाथ! ।। 1.18.३० ।।
संप्लाविते भस्मनि राजपुत्रा गङ्गाजलौघेन दिवं प्रयाताः ।।
स्वर्लोकमासाद्य तथाऽक्षयं ते वसन्ति हृष्टास्त्रिदशैः समेताः ।।३१।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे सगरोपाख्यानं नामाष्टादशोऽध्यायः ।। १८ ।।