विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१९ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०२०
वेदव्यासः
अध्यायः ०२१ →

वज्र उवाच ।।
भागीरथीत्वं गङ्गात्वं देवनद्या मया श्रुतम् ।।
किर्मर्थं जाह्नवी लोके कथ्यते सागरङ्गमा ।। १ ।।
मार्कण्डेय उवाच ।।
पञ्चालाख्योऽस्ति विषयो मध्यदेशे महीपते ।
स्वधर्मकर्मनिरतैर्युतो वर्णाश्रमैः सदा ।। २ ।।
महोदयं पुरं तत्र कुशस्तम्भेन निर्मितम् ।।
सर्वरत्नसमाकीर्णं कान्यकुब्जेति विश्रुतम् ।। ३ ।।
तस्मिन्बभूव भूपालो जह्नुः परमधार्मिकः ।।
यस्य कीर्तिमतः कीर्तिर्ब्रह्माण्डं व्याप्य तिष्ठति ।। ४ ।।
स कदाचिन्महीपालो हयमेधमुपाहरत् ।।
दीक्षितस्य नरेन्द्रस्य यज्ञवाटं तु निम्रगा ।। ५ ।।
प्लावयामास वेगेन जलौघैर्यदुसत्तम् ।। १।।
प्लाविते यज्ञवाटे तु राजा गङ्गां तदाब्रवीत् ।। ६।।
अस्य गङ्गैऽवलेपस्य सद्यः फलमवाप्नुहि ।।
पिबामि सकलं तोयं तव सागरवल्लभे ।। ७ ।।
एवमुक्त्वा पपौ राजा सर्वं भागीरथीजलम् ।।
तपसा महता राजंस्तथा योगबलेन च ।। ८ ।।
दृष्ट्वैव गङ्गां निस्तोयां दीनैर्मुनिजनैस्ततः ।।
प्रसादितस्तु गङ्गार्थे तत्याज श्रवणेन ताम् ।। ९ ।।
दुहितृत्वे च जग्राह राजा भागीरथीं तदा ।।
तेन सा कथिता लोके जाह्नवी यदुनन्दन ।। 1.20.१० ।।
अतीव दर्पितो राजा गङ्गायाः स यदा नृप ।।
यशोऽर्थं प्लावयामास यज्ञवाटं तदानघ ।।११।।
एवं त्रिलोके नृप जह्नुकन्या प्रोक्ता बुधैर्विष्णुपदी पवित्रा ।।
हिमाचलस्याद्रिपतेस्तनूजा समुद्रपत्नी वरदा विशोका ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जह्नुकन्योपाख्यानं नाम विंशतितमोऽध्यायः ।। २० ।।