विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१३
वेदव्यासः
अध्यायः ०१४ →

मार्कण्डेय उवाच ।।
कोसलाविषये स्फीते तस्मिन्मनुजपुङ्गव ।।
देवानामप्ययोध्यास्ति त्वयोध्यानामतः पुरी ।। १ ।।
प्राकारपरिखोपेता सरयूतीरशोभिता ।।
शोभिता भवनैर्मुख्यैः सुविभभक्तमहापथा ।। २ ।।
नित्यप्रसन्नैर्मातङ्गैरंजनाचलसन्निभैः ।।
देवनागकुलोत्पन्नैः शतसंख्यैर्विराजिता ।। ३ ।।
निर्मांसवक्रैस्तुरगैः सुकर्णैश्च मनोजवैः ।।
दीर्घग्रीवाक्षकूटैश्च महोरुजघनैर्वृता।।४।।
पद्मगर्भसवर्णाङ्ग्यः पूर्णचन्द्रनिभाननाः ।।
संलापोल्लासकुशला यत्र वेश्याः सहस्रशः ।। ५ ।।
न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा क्रिया ।।
अयोध्यां प्राप्य यस्यार्थी निराशः प्रतिगच्छति ।। ।। ६ ।।
उद्यानशतसंबाधा समाजोत्सवशालिनी ।।
अरोगवीरपुरुषा सर्वतर्कविवर्जिता ।।७।।
वीणावेणुमृदङ्गानां शब्दैः सततनादिता ।।
सदा प्रहृष्टमनुजा बहुरत्नोपशोभिता ।। ८ ।।
ब्रह्मघोषमहाघोषा द्विजवृन्दोपशोभिता ।।
साज्यधूमोद्गमाढ्येन वायुना नष्टकिल्बिषा ।। ९ ।।
सुगन्धिधूपविक्षेप सुरभीकृतमारुता ।।
सुगन्धिमनुजाकीर्णा नित्यमापणवीथिपु ।। 1.13.१० ।।
यत्र दीनो जनो नास्ति मलिनः कृशितोऽपि वा ।।
वेदनिन्दापरः क्षुद्रो भिन्नसेतुर्न नास्तिकः ।। ११ ।।
विस्तीर्णा दश मध्ये च योजनानां महापुरी ।।
सरयूतीरमाश्रित्य योजनत्रयमायता ।।१२।।
मन्वन्तरेऽस्मिन्पुनरेव राज्ञा विनिर्मिता सा मनुना नृवीर! ।।
मन्वन्तरं येन जगत्समग्रं पाल्यं यथावद्यदुवृन्दनाथ! ।। १३ ।।
इति श्रीविष्णुधर्म्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अयोध्यावर्णनं नाम त्रयोदशोऽध्यायः ।। १३ ।।