विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०११ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१२
वेदव्यासः
अध्यायः ०१३ →

।।वज्र उवाच ।।
भारतस्यास्य वर्षस्य भेदेऽस्मिन्नवमे प्रभो ।।
किमर्थं सागरः खातः स कृतः सगरैस्तथा।।१।।
मार्कण्डेय उवाच ।।
भारतस्यास्य वर्षस्य भेदेऽस्मिन्नवमे नृप! ।।
नवमे च दिशां भागे पूर्वस्यां दिशि यादव ।।२ ।।
कोशलो नाम विषयः प्रभूतधनधान्यवान् ।।
स्फीतग्रामगुणाढ्योऽस्ति नित्यं मुदित मानवः ।। ३ ।।
पयस्विन्यः पयस्विन्यो यत्र सस्यधरा धरा ।।
मनोऽभिरामा रामाश्च पुरुषाः पौरुषाग्रगाः ।। ४ ।।
विदग्धजनभूयिष्ठा सर्वपुण्य समाकुला ।।
नगरैर्न विशिष्यन्ते यत्र ग्रामा मनोहराः ।। ५ ।।
गवां प्रवेशे सायाह्ने यत्र ग्रामेषु भास्करः ।।
धूलिपुञ्जपरिक्षिप्तः वनसानुविराजितः ।। ६ ।।
पश्चिमे प्रथमे चैव यत्र यामे विराजितः ।।
रात्रौ ब्रह्मध्वनिस्तत्र तिष्ठतीव नभस्तलम् ।। ७ ।।
फलावनतशाखाढ्याश्छायाद्रुमसमा कुलाः ।।
प्रपाकूपतडागाढ्या पन्थानो यत्र यादव ।। ८ ।।
व्याधितस्करदुर्भिक्षपरराष्ट्रभयानि च ।।
जना यत्र न जानन्ति नाकालमरणं तथा ।। ९ ।।
यूपचिह्ना मही यत्र देववेश्मावतंसिका ।।
यत्रोत्पलसमाकीर्णवरवापीविभूषिता ।। 1.12.१० ।।
उद्यानेषु सदा यत्र वेणुगान्धर्वनिःस्वनम् ।।
शिलीमुखरवैर्मिश्रं यात्यसंबाधतां गुणैः ।। ११ ।।
यस्मिन्न कश्चिच्च्यवते स्वधर्माद्दीनो जनो यत्र न चास्ति कश्चित् ।।
न नेत्रहीनो विकलेन्द्रियो वा वसुन्धरा यत्र यथार्थनामा ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कोसलवर्णनो नाम द्वादशोऽध्यायः ।। १२ ।।