विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०१४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१३ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०१४
वेदव्यासः
अध्यायः ०१५ →

।। मार्कण्डेय उवाच ।।
वैवस्वतेन मनुना येन सा निर्मिता पुरी ।।
स तु कृत्वा चिरं राज्यमिक्ष्वाकुमभिषिच्य च ।। १ ।।
पुत्त्रे भारं समावेश्य सशरीरो दिवं गतः ।।
तत्रस्थः पालयन्नास्ते त्रैलोक्यं सचराचरम् ।। २ ।।
तेन मन्वन्तरं सर्वं पालनीयमिदं जगत् ।।
इक्ष्वाकुस्तस्य तनयः पालयामास मेदिनीम् ।।३।।
धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेन्द्रियः ।।
सुदर्शः सर्वभूतानां नयापनयकोविदः ।। ४ ।।
ब्रह्मण्यश्च शरण्यश्च दीनानाथानुकम्पकः ।।
दैवमन्त्रप्रभूत्साह शक्तिभिश्च समन्वितः ।।५ ।।
षाड्गुण्यविन्महोत्साहः स्मितपूर्वाभिभाषणः ।।
युक्तदंडो न निर्दंडो न च दण्डरतिस्तथा ।।६।।
वेदवेदाङ्गतत्त्वज्ञो यज्ञयाजी तपोरतिः ।।
अक्षुद्रलीलोऽभिमतः सर्वसत्त्वो न हिंसकः ।। ७ ।।
मान्यो मानयतां शक्यः सुखः पूज्यप्रपूजकः ।।
कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च ।। ८ ।।
नित्यं शरीरप्रभवा रिपवस्तेन षड् जिताः ।।
सर्वत्र विधिना दृश्यः सुभगः प्रियदर्शनः ।। ९ ।।
बहुधान्यो बहुधनो बहुनागाश्वपूरुषः ।।
अयोध्यानिलयो नित्यं देवा रिगणदर्पहा ।।1.14.१ ०।।
स तदा पालयामास पुत्रवत्सकलाः प्रजाः ।।
नाधर्मः कश्चिदप्यासीत्तस्मिन्राजनि मानवः ।। ११ ।।
दीनो वा व्याधितो वापि स्वल्पायुर्वा च दुःखितः ।।
मूर्खो वा मन्दरूपो वा दुर्भगो वा निराकृतिः ।।१२।।
एकत्र देहे सकलं गुणौघं द्रष्टाहमित्येव विशिष्टबुद्धिः ।।
ससर्ज यं राजवरं महात्मा प्रजापतिः सर्वजगत्प्रधानः ।।१३।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे इक्ष्वाकुकुलवर्णनंनाम चतुर्दशोऽध्यायः।। ।।।१४।।