विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००७ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००८
वेदव्यासः
अध्यायः ००९ →

।। वज्र उवाच ।।
भगवन्भारतं वर्षं श्रोतुमिच्छामि तत्त्वतः ।।
कर्मभूमिषु मर्त्यानां वर्षं भार्गव भारतम् ।। १ ।।
मार्कण्डेय उवाच ।।
भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः ।।
अष्टभिर्गिरिभिश्छन्ना येत्वगम्याः परस्परम् ।। २ ।।
हिमाचलादासमुद्रं गिरयस्ते व्यवस्थिताः ।।
याम्योत्तरेण राजेन्द्र नामतस्तान्निबोध मे ।। ३ ।।
स्वमाली हेममाली च शम्भुः कार्तस्वराकरः ।।
वैडूर्यपर्वतश्चैव राजतो मणिमान्भवः ।। ४ ।।
इन्द्रद्युम्नः कदेतश्च ताम्रवर्णो गभस्तिमान् ।।
रागद्वेषस्तथैवान्यो गान्धर्वस्त्वथ वारुणः ।। ५ ।।
तेषां तु नवमो मध्ये द्वीपो नाम्ना तु मध्यमः ।।
अस्मिन्मन्वन्तरे क्षिप्तः सागरैश्च चतुर्दिशम् ।। ६ ।।
वैडूर्यपर्वतः पूर्वमुत्तरेण हिमाचलात् ।।
पश्चार्धे काञ्चनगिरेरुदगेव च लावणात् ।। ९ ।।
वेष्टितः सागरः सर्वो नानासत्त्वाश्रयो नृप । ।।
हिमालयः सागरैस्तु कृतो देशद्वयस्तथा ।। ८ ।।
लवणस्योत्तरे पार्श्वे सागरस्य च दक्षिणे ।।
पुरी लंका सन्निविष्टा यस्यां वै रावणो हतः ।। ९ ।।
लवणेन च संपृक्तः समुद्रो लवणो यतः ।।
हिमाचलस्य यो भागो वर्षेऽस्मिन्नृप भारते ।।1.8.१ ०।।
तत्रास्ति शैलप्रवरो द्वितीयो गन्धमादनः ।।
श्वेतश्च पर्वतश्रेष्ठो मन्दरश्च महागिरिः ।। ११ ।।
एते शैलवरा दृष्टा पाण्डवैश्च महात्मभिः ।।
हिमाचलस्य मध्ये तु कैलासो नाम पर्वतः।।१२।।
हिमवत्येव विख्यातो नरनारायणाश्रमः।।
यत्र सा बदरी रम्या नानाशकुनिसेविता ।।१३।।
उष्णतोयवहा गङ्गा श्वेततोयवहा परा ।।
सुवर्णसिकता राजंस्तापसैरुपशोभिता ।। १४ ।।
इत्येते कथिता द्वीपाः प्राधान्येन तवानघ ।।
एतेषामंतरे द्वीपाः शतशोथ सहस्रशः ।।१५।।
न ते वर्णयितुं शक्या वर्षाणां तु शतैरपि ।।
विवर्जयित्वा भरतस्य वर्षं वर्षेषु सर्वेषु नरेंद्रसिंह ।।
निरामया वीतभया मनुष्या वर्षेषु सर्वेषु तथैव चोक्ताः ।। १६ ।।
आयुःप्रमाणं लभते हि राजन्द्वीपेषु सर्वेषु नरो मयोक्तम् ।।
कृत्वा शुभं कर्म तु भारतेऽस्मिन्द्वीपेषु सर्वेषु नराः प्रयान्ति ।। ।।। १७ ।।
वृक्षेषु तेषां प्रभवन्ति कामाः स्त्रियश्च तेषामपि रूपवत्यः ।।
दण्डश्च तेषां च न दाण्डिकोऽस्ति सन्मार्गगास्तेऽपि तथा च राजन् ।।१८।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भारतवर्षवर्णनं नामाऽष्टमोऽध्यायः ।। ८ ।।