विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००७

विकिस्रोतः तः
← अध्यायः ००६ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००७
वेदव्यासः
अध्यायः ००८ →

वज्र उवाच ।।
जम्बूद्वीपस्य संस्थानं विस्तरेण महामुने । ।।
त्वत्तोहं श्रोतुमिच्छामि यत्र जातोऽसि भार्गव ४१ ।।
।। मार्कण्डेय उवाच ।।
अवगाढावुभयतस्समुद्रौ पूर्वपश्चिमौ ।।
जम्बूद्वीपे महाराज षडिमे कुलपर्वताः ।। २ ।।
हिमवान्हेमकूटश्च निषधो नील एव च ।।
मेरुश्च शृंगवांश्चैव सर्वे रत्नाकराः शुभाः ।। ३ ।।
मध्ये तु मण्डलः शैलो नीलस्य निषधस्य च ।।
सौवर्णः कथ्यते मेरुः प्रमाणं तस्य मे शृणु ।। ४ ।।
चतुराशीतिसाहस्राः कथिताश्चोच्छ्रयेण च ।।
अधस्तात्षोडशैवोक्तः षोडशैव तु विस्तृतः ।। ५ ।।
विस्तारो द्विगुणश्चास्य भूलग्नो मण्डलः स्मृतः ।।
वृन्दपुष्पनिभश्चोर्द्ध्वं द्वात्रिंशच्चैव विस्तृतः ।। ६ ।।
विस्तारो द्विगुणश्चास्य तत्राधिकविधिः स्मृतः ।।
मेरुस्तु नवतिः प्रोक्तः सहस्रः पूर्वतो गिरिः ।। ७ ।।
योजनानां सहस्रं तु माल्यवान् नाम नामतः ।।
आनीलं निषधं यावत्पश्चिमेन तु तावता ।। ८ ।।
तावत्प्रमाणो निर्दिष्टः पूर्वतो गन्धमादनः ।।
मेरोस्तूत्तरतः श्वेतः पूर्वतोऽनन्त उच्यते ।। ९ ।।
दक्षिणे च तथा पीतः कृष्णः पश्चिमतः स्मृतः ।।
अन्तरेण स्मृतो विप्रः पूर्वतः क्षत्रियः स्मृतः ।। 1.7.१० ।।
दक्षिणेन तथा वैश्यः शूद्रः पश्चिमतः स्मृतः ।।
तस्मादुदीची विप्राणां प्राची स्यात्क्षत्त्रजन्मनाम् ।। ११ ।।
दक्षिणा वैश्यजातीनां शूद्राणां पश्चिमा स्मृता ।।
प्राच्यां महेन्द्रस्य पुरी मेरुपृष्ठेऽमरावती ।। १२ ।।
वह्नेः प्रदक्षिणेनोक्ता पुरी नाम्ना सभावती ।।
यमस्य दक्षिणेनोक्ता नाम्ना संयमनी पुरी ।। १३ ।।
प्रोक्ता वै नैर्ऋती भागे पुरी पश्चिमदक्षिणे ।।
पश्चिमेन तथा रम्या सुमुखा वरुणस्य च ।। १४ ।।।
अनन्तरं शिवा नाम पुरी वायोः प्रकीर्तिता ।।
उत्तरेण पुरी रम्या सोमस्योक्ता विभावरी ।। १५ ।।
अनन्तरं शिवस्योक्ता नगरी शङ्करी शिवा ।।।
मेरुपृष्ठे यथा देवाः संश्रितास्तु यथादिशम् ।। १६ ।।
विज्ञेयास्ते तु दिक्पालास्तस्यांतस्यां तथा दिशि ।।
देवः स्वां नगरी नित्यं मानसोत्तरमूर्धनि ।। १७ ।।
मेरुन्तु पश्यति विभुस्तत्स्थो मेरुगतां पुरीम् ।।
उदक्शृङ्गवतोऽर्धे तु याम्येन कुरुसंज्ञितम् ।। १८ ।।
वर्षन्तु कथितं दिव्यं सर्वोपद्रववर्जितम् ।।
शृङ्गवच्छ्वेतयोर्मध्ये वर्षं ज्ञेयं हिरण्यभम् ।। १९ ।।
रम्यन्तु वर्षं विज्ञेयं मध्यतः श्वेतनीलयोः ।।
मध्ये निषधनीलाभ्यां पश्चार्धे गन्धमादनः ।। 1.7.२० ।।
केतुमालः स्मृतो वर्षस्त्वतीव सुमनोहरः ।।
मध्ये निषधनीलाभ्यां पूर्वे माल्यवतो गिरेः ।। २१।।
वर्षो रुद्रमुखो नाम नित्यं मुदित मानवः ।।
मेरोश्चतुर्दिशं नाम्ना वर्षो राजन्निलावृतः ।। २२ ।।
तस्यापि भेदाश्चत्वारो नामतस्तान्निबोध मे ।।
भद्राश्वो जम्बुमालश्च केतुमान्कुरवस्तथा ।। २३ ।।
जम्बूवृक्षस्तु विख्यातो जम्बुमाले तु यादव! ।।
योजनानां सहस्रं तु तत्पूर्वं तस्य कीर्तितम् ।। २४ ।।
तत्फलेभ्यः प्रभवति रम्या जांबूनदी शुभा ।।
मेरोः प्रदक्षिणं कृत्वा स्वमूले सा च नश्यति ।। २५ ।।
वृक्षराजेन तेनेदं जम्बूद्वीपं प्रचक्षते ।।
इलावृतस्तु प्रभया मेरो नित्यं प्रकाशते ।। २६ ।।
न तत्र भ्राजते सूर्यो न चन्द्रो न च तारकाः ।।
मेरोः शरावसंस्थत्वान्नित्यमेव तिरोहितः ।। २७ ।।
हेमकूटादुत्तरतो हरिवर्षं प्रचक्षते ।।
हेमकूटाद्दक्षिणतस्तथा किंपुरुषं स्मृतम् ।। २८ ।।
हिमाचलाद्दक्षिणतो वर्षं यादव भारतम् ।।
कर्मभूमिर्महीपाल यत्र वर्तामहे वयम् ।। २९ ।।
भारतेऽस्मिन्युगावस्था केशवेन विनिर्मिता ।।
वर्षे द्वे चाथ संस्थाने विज्ञेये दक्षिणोत्तरे ।। 1.7.३० ।।
वर्षत्रयं तु विज्ञेयं चतुरस्रं तु मध्यमम् ।।
दीर्घं तथैव विज्ञेयं वर्षाणां च चतुष्टयम् ।। ३१ ।।
वर्षाणां नवसाहस्रो विष्कम्भः कथितो नृप ।।
योजनानां प्रमाणेन कथितस्तत्त्वदर्शिभिः ।। ३२ ।।
विष्कम्भः पर्वतानां तु सहस्रद्वितयं स्मृतम् ।।
मेरोर्योजनसाहस्रो विष्कम्भः कथितस्तथा ।। ३३ ।।
योजनानां तु नियुतं जम्बूद्वीपः प्रकीर्तितः ।।
याम्योत्तरेण तस्येदं प्रमाणं ते मयेरितम् ।। ३४ ।।
पूर्वापरेण तस्यापि प्रमाणं शृणु पार्थिव ।।
योजनानां सहस्राणि द्वात्रिंशच्च शतानि च ।। ३५ ।।
भद्राश्वकेतुमालौ द्वौ प्रत्येकं पार्थिवोत्तम ।।
योजनानां सहस्रेण शतसाहस्रकानि च ।। ३६ ।।
नवमेरुस्तथा प्रोक्तो गन्धमादनमानतः ।।
मेरोर्नवसहस्राणि माल्यवांश्च निगद्यते ।। ३७ ।।
मेरोर्योजनसाहस्रो विष्कम्भः कथितस्तथा ।।
एवमप्येष नियुतं जम्बूद्वीपः प्रकीर्तितः ।। ३८ ।।
हिमाचले यक्षवरा निविष्टा दैत्यप्रधानाः खलु हेमकूटे ।।
गन्धर्वमुख्या निषधे च शैले नागा निविष्टाश्च तथैव नीले ।। ३९ ।।
श्वेते पितॄणां च गतिर्निविष्टा सिद्धास्तथा शृङ्गवतश्च पृष्ठे ।।
सेन्द्रास्तथा देवगणाश्च मेरौ क्रीडाविहारेण सदा वसन्ति ।। 1.7.४० ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जम्बूद्वीपवर्णनो नाम सप्तमोध्यायः ।। ७ ।। ।।