विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००६

विकिस्रोतः तः
← अध्यायः ००५ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००६
वेदव्यासः
अध्यायः ००७ →
सप्तद्वीपाः

।। वज्र उवाच ।।
भूमण्डलस्य कृत्स्नस्य संस्थानेन च भार्गव ।।
वद प्रमाणं कृत्स्नं तत्तत्र मे संशयो महान् ।।१।।
मार्कण्डेय उवाच ।।
भूमण्डलस्य राजेन्द्र मध्ये मेरुर्महागिरिः ।।
योजनानां सहस्राणि तस्य मध्ये समन्ततः ।।२।।
जम्बूद्वीपस्तु पञ्चाशत्प्रमाणेन प्रकीर्तितः ।।
योजनानां तु नियुतं तस्य पारं महीपते ।। ३ ।।
लवणेन समुद्रेण तेनासौ परिवेष्टितः ।।
लवणद्विगुणेनापि शाकद्वीपेन लावणः ।।४।।
वेष्टितश्च महाराज शाकद्वीपो न संशयः ।।
क्षीरोदेन स्वतुल्येन क्षीरोदोऽपि च वेष्टितः ।। ५ ।।
क्षीरोदद्विगुणेनापि कुशद्वीपेन योजनैः ।।
आज्योदेन कुशद्वीपः स्वतुल्येन च वेष्टितः ।। ६।।
क्रौञ्चद्वीपेन चाज्योदो द्विगुणेन च वेष्टितः ।।
क्रौञ्चद्वीपः स्वतुल्येन दधिमण्डोदकेन च ।। ७ ।।
द्वीपेन शाल्मलेनाथ द्विगुणेन च वेष्टितः ।।
सुरोदो द्विगुणेनाथ गोमेदेन च वेष्टितः ।। ८ ।।
पुष्करद्वीपमध्ये तु द्वीपसंस्थानमण्डपः ।।
पर्वतः सुमहाँल्लोके विख्यातो मानसोत्तरः ।। ९ ।।
नियुतार्धं योजनानां प्रमाणेन प्रकीर्तितः ।।
नानाप्रकारशिखरस्तावदेव समुच्छ्रितः ।। 1.6.१० ।।
मेरोस्तु पूर्वदिग्भागे मानसोत्तरमूर्धनि ।।
पुरी शक्रस्य विख्याता नामतस्त्वमरावती ।। ११ ।।
पूर्वदक्षिणदिग्भागे तथा वह्नेः प्रभावती ।।
यमस्य दक्षिणे भागे नाम्ना संयमनी पुरी ।। १२ ।।
विरूपाक्षस्य विक्रान्ता भागे दक्षिणपश्चिमे ।।
पश्चिमे च तथा भागे वरुणस्य सुखप्रभा ।। १३ ।।
शिवा नाम पुरी वायोर्भागे वै पश्चिमोत्तरे ।।
विभावरी सोमपुरी उत्तरेण प्रकीर्तिता ।। १४ ।।
शर्मदा च पुरी शैवी भागे पूर्वोत्तरे स्मृता ।।
पुष्करश्च स्वतुल्येन वृतः स्वादूदकेन च ।। १५ ।।
स्वादूदकात्परं क्षोणी कार्तस्वरमयी शुभा ।।
योजनानां प्रमाणेन सहस्राणि तु विंशतिः ।। १६ ।।
दश चान्यानि राजेन्द्र पञ्च पञ्च प्रकीर्तिता ।।
समन्ततस्त्वेकशिला देवोद्याने मही शुभा ।। १७ ।।
स्थितस्तां परिवार्योर्वीं लोकालोको महीधरः ।।
अयुतं योजनानां तु विस्तरेणोच्छ्रयेण च ।। १८ ।।
लोकालोके महीपाल लोकपालास्त्वमी स्मृताः ।।
प्राच्यादिषु महावीर्याः कल्पस्थायिन एव ते ।। १९ ।।
सुदामा शेषपादश्च केतुमान्सुमहाबलः ।।
हिरण्यरोमा च तथा विज्ञेयाश्च दिगीश्वराः ।। 1.6.२० ।।
अर्वाक्तस्य महीध्रस्य चन्द्रार्क ग्रहतारकाः ।।
प्रपतन्ति महाराज न तु पारे कदाचन ।। २१ ।।
दर्भोदकसमुद्रस्तु लोकालोकं समन्ततः ।।
परिवार्य स्थितो राजन्नन्धकारे महार्णव ।। २२ ।।
एकषष्टिप्रमाणेन नियुतानि समन्ततः ।।
तस्य पारे ततो राजन्ब्रह्माण्डस्तु समन्ततः ।। २३ ।।
ऊर्द्ध्वेनाधश्च विष्कम्भो यावानण्डस्य कीर्तितः ।।
तावदेव प्रमाणेन तिर्यक्षु परिवारितः ।। २४ ।।
मेरुमध्यात्समुद्रस्य पारं गर्भोदकस्य तु ।।
कोटित्रयं योजनानां नियुतानि तथा दश ।। २५ ।।
पञ्चान्यानि च राजेन्द्र प्रमाणं परिकीर्तितम् ।।
तस्य राज... ब्रह्माण्डस्तु समन्ततः ।। २६ ।।
....तदद्यर्धं द्वितीयस्य महीपते । ।।
एतदेव तु निर्दिष्टं प्रमाणं तत्त्वचिन्तकैः ।। २७ ।।
मेरोस्तु पूर्वदिग्भागे मध्ये तु लवणोदधेः ।।
विष्णुलोको महान्प्रोक्तः सलिलान्तर संस्थितम्।।२८।।
स्वभासयात्र देवस्य सततं नृप राजितम् ।।
तत्र स्वपिति घर्मान्ते देवदेवो जनार्दनः ।। २९ ।।
लक्ष्यीसहायः सततं शेषपर्यङ्कमाश्रितः ।।
एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम् ।। 1.6.३० ।।
देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः ।।
अभिष्टुवन्ति ते गत्वा सततं दिनपञ्चकम् ।। ३१।।
उत्सवं चैव कुर्वन्ति गीतनृत्यसमाकुलम्।।
ततस्तु चतुरो मासान्योगनिद्रामुपासते ।।३२।।
सुप्तं च तमुपासंते ऋषयो ब्रह्मसम्मताः ।।
सशरीराणि शास्त्राणि भक्तास्तं देवमानवाः ।।३३।।
कार्तिकस्य सिते पक्षे तदेव दिनपञ्चकम् ।।
विबोधयन्ति देवेशं गत्वा सेन्द्रा दिवौकसः ।।३४।।
देवास्तथैव कुर्वन्ति तदापि च महोत्सवम्।।
मेरोस्तु पूर्वदिग्भागे मध्ये क्षीरार्णवस्य तु ।।३५।।
क्षीराम्बुमध्यगा शुभ्रा देवस्यान्या तथा पुरी ।।
लक्ष्मी सहायस्तत्रास्ते शेषासनगतः प्रभुः ।।३६।।
तत्रापि चतुरो मासान् सुप्तस्तिष्ठति वार्षिकान् ।।
अस्त्रैः स केवलैस्तत्र दृश्यते शाश्वतः प्रभुः ।। ३७ ।।
तस्मिंस्तथैव दिग्भागे मध्ये क्षीरार्णवस्य तु ।।
योजनानां सहस्राणि मण्डलः पञ्चविंशतिः ।। ३८।।
श्वेतदीपस्तु विख्यातो द्वीपः परमशोभनः ।।
नराः सूर्यप्रभास्तत्र शीतांशुसमदर्शनाः ।।३९।।
तेजसा दुर्निरीक्ष्याश्च देवानामपि यादव ।।
पञ्चकालविधानज्ञाः पूजयन्ति जनार्दनम् ।। 1.6.४० ।।
पूजां तु तेषां शिरसा स तु देवः प्रयच्छति ।।
इहस्थैश्च कृतां पूजां पादतश्च प्रयच्छति।।४१।।
एकान्तभावोपगतास्तत्र यान्ति हरिं नराः ।।
तत्र गत्वा न शोचन्ति निवर्त्तन्ते न चाप्यथ।।४२।।
पूजयित्वा चिरं कालं देवदेवं जनार्दनम्।।
आदित्यमण्डलं भित्त्वा ब्रह्माणं प्रविशन्ति ते।।४३।।
ततोऽनिरुद्धं देवेशं प्रद्युम्नं चाप्यनन्तरम् ।।
ततः संकर्षणं देवं वासुदेवं ततः परम् ।। ४४ ।।
वासुदेवं च संप्राप्य मुच्यन्ते सर्ववर्त्तनैः ।।
श्वेतद्वीपगतास्तस्मान्न निवर्तन्ति कर्हिचित् ।।४५ ।।
पूर्वोत्तरे तु दिग्भागे मध्ये क्षीरार्णवस्य तु ।।
वैजयन्त इति ख्यातः पर्वतः सर्वकाञ्चनः ।। ४६ ।।
योजनानां सहस्राणि प्रमाणेन दश स्मृतः ।।
आयामविस्तरोच्छ्रायैः प्रमाणं तस्य कीर्तितम् ।।४७।।
योजनानां सहस्राणि पञ्च तस्य गुहा स्मृता।।
उच्छ्रिता योजनशतं तावदेव च विस्तृता ।। ४८ ।।
तिमिरेणावृता द्वारि योजनानां तथा शतम् ।।
स्वप्रभाभरणा दिव्या ततः परतरं हि सा ।। ४९ ।।
नाम्ना च लोके विख्याता ऋषिभिस्तिमिरावती ।।
तस्यां देववरो विष्णुः स्वपन्नास्ते जनार्दनः ।।1.6.५०।।
तत्रैनमुपतिष्ठन्ति देव्यस्तिस्रो महीपते । ।।
निद्रा च कालरात्रिश्च लक्ष्मीश्च वरवर्णिनी ।।५१।।
उपासते च तं देवं भृग्वाद्या परमर्षयः ।।
शरीरधारिभिश्चास्त्रैस्तथा तत्र च सेव्यते ।।५२।।
तस्य सुप्तस्य वदनान्निश्वासोच्छ्वासतः क्रमात् ।।
प्रजानां पङ्क्तयो ह्युच्चैर्निपतन्ति पतन्ति च ।। ५३ ।।
तस्योच्छ्वासश्च जन्तूनां सम्भवः कथितो नृप ।।
निःश्वासकाले च तथा जन्तूनां मरणं स्मृतम् ।। ५४ ।।
मध्ये धृतसमुद्रस्य मेरोः पश्चिमतस्तथा ।।
योजनानां तु नियुतं द्वीपस्तु परिमण्डलः।।५५।।
तत्र गोवर्धनस्योक्ता वसतिः सुमहात्मनः ।।
दिव्यानां तत्र धेनूनां वसतिश्च तथा स्मृता ।। ५६ ।।
सततं कामरूपेण भाभिः स रमते हरिः ।।
मध्ये दधिसमुद्रस्य द्वीपस्तावत्प्रमाणतः ।। ५७ ।।
हेमरूपधरो यत्र नित्यं वसति केशवः ।।
तत्रस्थमेनं पश्यन्ति ऋषयो भूरितेजसः ।। ५८ ।।
सुरासमुद्रमध्ये तु द्वीपः परमविस्तृतः ।।
तत्र संकर्षणो देवो विभुरास्ते सुराऽसुराः ।। ५९ ।।
उपतिष्ठन्ति तत्रैनं दिव्यस्तिस्रो मनोरमाः ।।
कान्तिश्च मदिरा चैव तथा देवी करीषिणी ।।1.6.६०।।
तत्रस्थमेनं पश्यन्ति प्रजानां पतयः सदा।।
क्ष्मामण्डलं कृत्स्नमिदं तवोक्तं क्ष्मापालवृन्दाम्बरपूर्णचन्द्र ।।
समासतो व्यासगिरामशक्यं वक्तुं महेन्द्रोपि न वर्षपूगैः ।। ६१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे द्वीपविभागवर्णनो नाम षष्ठोऽध्यायः ।। ६ ।।