विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ००९

विकिस्रोतः तः
← अध्यायः ००८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ००९
वेदव्यासः
अध्यायः ०१० →

।। वज्र उवाच ।।
श्रोतुं जनानिहेच्छामि सागरद्वीपवासिनः ।।
प्राधान्येन भृगुश्रेष्ठ विस्तराद्विस्तरो यतः ।। १ ।।
मार्कण्डेय उवाच ।।
पाञ्चालाः कुरवो मत्स्या यौधेयाः सवटश्चराः ।।
कुन्तयः शूरसेनाश्च मध्यदेशजनाः स्मृताः ।। २ ।।
वृषध्वजांजनाः पन्नाः सुह्मा मागधचेदयः ।।
काशयश्च विदेहाश्च पूर्वस्यां कोशलास्तथा ।। ३ ।।
कलिङ्गवङ्गपुण्ड्राङ्गवैदर्भा मूलकास्तथा।।
विन्ध्यान्तनिलयाः प्रोक्ताः पूर्वदक्षिणतः स्मृताः ।। ४ ।।
पुलिन्दाश्मकजीमूतनरराष्ट्र निवासिनः ।।
कर्णाटका भोजकटा दक्षिणापथवासिनः ।। ५ ।।
अम्बष्ठा द्रविडा नागाः काम्बोजाः स्त्रीमुखाः शकाः ।।
आनन्तवासिनश्चैव ज्ञेया दक्षिणपश्चिमे ।। ६ ।।
स्त्रीराज्यं सैन्धवा म्लेच्छा नास्तिक्या यवनास्तथा ।।
पश्चिमेन च विज्ञेयाः पटुमानौषधैः सह ।। ७।।
माण्डव्याश्च तुषाराश्च मूलिकाश्च मुखाः खशाः ।।
महाकेशा महानासा देशास्तूरत्तरपश्चिमे ।। ८ ।।
लम्पगास्तालनागाश्च मरुगान्धारजाहुताः ।।
हिमवन्निलया म्लेच्छा ह्युदीचीं दिशमाश्रिताः ।। ९ ।।
त्रिगर्तमीनकौलूता ब्रह्मपुत्रास्सतीगणाः ।।
अभिसाराश्च काश्मीराश्चोदक्पूर्वेण कीर्तिताः ।। 1.9.१० ।।
राजेन्द्रसागरद्वीपा प्रधाना वसुधाधिपाः ।।
भवतेऽहं प्रवक्ष्यामि दिग्देशेन निबोध तत्।। ११।।
पञ्चालनाथो मगधाधिपश्च कलिङ्गराड् भोजकटेश्वरश्च ।।
अनन्तकः सैन्धवकस्तुषारो मद्रेश्वरश्चाथ कुलूतनाथः ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जनपदवर्णनो नाम नवमोऽध्यायः ।। ९ ।।