विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३४१-३४५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ३३६-३४० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३४१-३४५
वेदव्यासः
अध्यायाः ३४६-३५० →

3.341
।। ऋषय ऊचुः ।। ।।
वर्णानामाश्रमाणां च प्रोक्ता धर्मास्त्वयानघ ।।
रहस्यभूता ये धर्मा ये च स्वल्पा महाफलाः ।। १ ।।
येभ्यश्चाभ्यधिकं नास्ति सर्वेषां तु समाश्रये ।।
तान्धर्मान्कथयस्वाद्य सर्वेषां विनतिर्द्विज ।। २ ।। ।।
।। हंस उवाच ।। ।।
आश्रित्य देवदेवेशं जगद्योनिं जगद्गुरुम् ।।
विष्णुं जिष्णुं हरिं कृष्णं कृता धर्मा महाफलाः ।। ३ ।।
पतनात्त्रायते यस्मात्तस्मात्पात्रेति कीर्त्यते ।।
पततां त्राणदस्त्वेकः स देवो मधुसूदनः ।। ४ ।।
स्मरणात्कीर्तनाद् ध्यानान्नमस्कारात्प्रदक्षिणात् ।।
तथाभिस्तुवनाद्यस्य मुच्यते सर्वकिल्बिषैः ।। ५ ।।
कृत्वा देवगृहं तस्य देवस्य परमेष्ठिनः ।।
राजसूयाश्वमेधानां फलेन स तु युज्यते ।। ६ ।।
सुरवेश्मानि यावन्ति द्विजेन्द्राः परमाणवः ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।७।।
प्रासादे मृन्मये पुण्यं मयैतत्कथितं द्विजाः ।।
तस्माद्दशगुणं पुण्यं कृतं दण्डमये भवेत् ।। ८ ।।
ततो दशगुणं पुण्यं तथा शैलकृते भवेत् ।।
ततो दशगुणं लोहे ताम्रे शतगुणं ततः ।। ९।।
सहस्रगुणितं रौप्ये तस्मात्फलमुपाश्नुते ।।
ततः शतसहस्रं च सौवर्णे द्विजसत्तमाः ।। 3.341.१० ।।
अनन्तफलमाप्नोति रत्नचित्रे मनोहरे ।।
प्रतिमां कारयित्वा तु देवदेवस्य चक्रिणः ।।
न दुर्गतिमवाप्नोति विष्णुलोकं च गच्छति ।। ११ ।।
देवस्य प्रतिमायां तु यावंतः परमाणवः ।।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ।। १२ ।।
प्रासादवत्तथा तस्य फलसंपदुदाहृता ।। १३ ।।
उत्तरोत्तरतो दिव्यैर्विना पक्वेष्टिकी द्विजाः ।।
यथोक्तविधिना देवं प्रतिष्ठाप्य जनार्दनम् ।। १४ ।।
अक्षयं लोकमाप्नोति विष्णोरमिततेजसः ।।
इज्याविधिपुरस्कारकृते तत्र तथा भुवम् ।। १५ ।।
तस्यैवानुचरेल्लोकस्तस्यैवाप्नोति चाक्षयम् ।।
करोति देवप्रासादं यावद्वारं सुधासितम् ।। १६ ।।
जन्मान्तराणि तावंति यशस्वी भुवि जायते ।।
चित्रं लक्षणसंयुक्तं कारयित्वा हरेर्गृहम् ।। १७ ।।
गन्धर्वलोकमाप्नोति बहून्यब्दगणानि तु ।।।
दत्त्वा च गीतं धर्मज्ञा गन्धर्वैः सह मोदते ।। १८ ।।
स्वयं गीतेन संपूज्य तस्य चानुचरो भवेत् ।।
वाद्यं दत्त्वा तथा विप्रा शक्रलोकमवाप्नुयात् ।।। ।। १९ ।।
स्वयं वाद्येन संपूज्य तस्यैवानुचरो भवेत ।।
वाद्यानामपि देवस्य तन्त्रीवाद्यं सदा प्रियम् ।। 3.341.२० ।।
तेन संपूज्य वरदं गाणपत्यमवाप्नुयात् ।।
नृत्यं दत्त्वा तथाप्नोति रुद्रलोकमसंशयम् ।। २१ ।।
स्वयं नृत्येन संपूज्य तस्यैवानुचरो भवेत् ।।
प्रेक्षणीयप्रदानेन शक्रलोकमवाप्नुयात्। ।। २२ ।।
अभ्यर्चनां कारयित्वा ब्रह्मलोकं प्रपद्यते ।।
तोयेनाभ्युक्षणं कृत्वा देवदेवाजिरे नरः ।। २३ ।।
सर्वपापविनिर्मुक्तो वारुणं लोकमश्नुते ।।
यस्तु सम्मार्जनं कुर्याद्देवदेवाजिरे नरः ।। २४ ।।
सपापजं मलं देहादपामार्जति सत्वरः ।।
करोति परमाणूनां यावतामपमार्जनम् ।।। ।। २५ ।।
तावद्वर्षाणि नाकस्थस्त्रिदशैः सह मोदते ।।
कृत्वोपलेपनं विष्णोर्गोमयेनालये नरः ।। २६ ।।
गवां लोकमवाप्नोति यत्रयत्राभिजा यते ।।
कृत्वा च विविधैर्गन्धैर्गन्धर्वैः सह मोदते ।। २७ ।।
बहून्यब्दसहस्राणि भूमिशोभां हरेर्गृहे ।।
गन्धोदकेन यः कुर्याद्विष्णोरभ्युक्षणं गृहे ।। २८ ।।
दशवर्षसहस्राणि गन्धर्वैः सह मोदते ।।
दत्त्वोपकारं कुसुमैर्गन्धर्वत्वमवाप्नुयात् ।। २९ ।।
पुष्पतुल्यानि वर्षाणि दिव्याभरणरूपवान् ।।
कृत्वा शीर्णस्य संस्कारं तथा देवेशवेश्मनि।।3.341.३०।।
द्विगुणं फलमाप्नोति नात्र कार्या विचारणा ।।
सायं प्रातस्तथा कृत्वा वासुदेवस्य कीर्त नम्।।३१।।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ।।
शयनादुत्थितो यस्तु कीर्त्तयेन्मधुसूदनम्।।३२।।
कीर्तनात्तस्य पापानि नाशमायान्त्यशेषतः ।।।
अहोरात्रस्य शान्तिश्च तथा तेन कृता भवेत् ।। ३३ ।।
प्रभवश्चाप्यनर्थानां नास्य स्यात्तदहर्निशम् ।।
कीर्तनाद्देवदेवस्य विष्णोरमिततेजसः ।। ।। ३४ ।।
यक्षराक्षसवेतालभूतप्रेतविनायकाः ।।
डाकिन्यो विद्रवन्ति स्म ये तथा ये च हिंसकाः ।। ३५ ।।
सर्वानर्थहरं तस्य नामसङ्कीर्तनं स्मृतम् ।।
देवदेवस्य नामानि बहूनीह विदुर्बुधाः ।। ३६ ।।
तेषामनर्थशमनं यदेवेष्टं महात्मनः ।।
एकं नाम जपेद्यस्तु देवदेवस्य चक्रिणः ।। ३७ ।।।
स च पापविनिर्मुक्तः स्वर्गलोके महीयते ।।
हृदि कृत्वा तथा काममभीष्टं द्विजपुङ्गवाः ।। ३८ ।।
एकं नाम जपेद्यस्तु स तान्कामानवाप्नुयात् ।।

नामसंकीर्तनं कृत्वा क्षुतप्रस्खलनादिषु ।। ३९ ।।
वियोगं शीघ्रमाप्नोति सर्वानर्थैरसंशयम् ।।
कृत्वा नामसहस्रेण स्तुतिं तस्य महात्मनः ।। 3.341.४० ।।
वियोगमाप्नोति नरः सर्वानर्थैरसंशयम् ।।
साम्ना ऋभिर्यजुर्भिश्च तथैवाथर्वणेन तु ।। ४१ ।।
कृत्वाभिष्टवनं तस्य दिव्यैरार्षैस्तथा स्तवैः ।।
सर्वानर्थविनिर्मुक्तः कामानाप्नोति शाश्वतान् ।। ४२ ।।
अभ्रष्टलक्षणैः कृत्वा स्वयं स्वरचिताक्षरैः ।।
स्तवं ब्राह्मणशार्दूलास्तस्मात्कामानवाप्नुयात्। ।।। ४३ ।।
न वित्तदाननिचयैर्बहुभिर्मधुसूदनः ।।
तथा तोषमुपायाति यथा स्तोत्रैर्द्विजोत्तमाः ।। ४४ ।।
स्तुतिः पवित्रा मङ्गल्या सर्वपापप्रणाशिनी ।।
सर्वानर्थप्रशमनी देवदेवस्य कीर्तिता ।। ४५ ।।
तत्कथाश्रवणं कृत्वा सर्वानर्थैर्विमुच्यते ।।
तत्स्तोत्रश्रवणात्पापं जहाति सकलं तथा ।। ४६ ।।
यत्र विष्णुकथा दिव्याः श्रुतयश्च सुसंहिताः ।।
तच्छ्रोतव्यं मनुष्येण परमं पदमिच्छता ।। ४७ ।।
विष्णोरायतने दत्त्वा तत्कथापुस्तकं नरः ।।
ब्रह्मलोकमवाप्नोति बहवो वत्सरान्द्विजाः ।। ४८ ।।
पुस्तकाँश्च तथैवान्यान्यः प्रदद्यान्नरस्त्विह ।।
सारस्वतमवाप्नोति लोकं कालं तथा बहु ।। ४९ ।।
तत्कथां श्रावयेद्यस्तु तद्भक्तान्मानवोत्तमः ।।
गोदानफलमाप्नोति स नरस्तेन कर्मणा।।3.341.५०।।
श्रावके तु कृतं पुण्यं स फलांशेन युज्यते।।
सुकृतं वाचकं कृत्वा देवागारे तथा नरः ।। ५१ ।।
विद्यादानफलं प्राप्य ब्रह्मलोकं प्रपद्यते ।।
विष्णुं शङ्खप्रदानेन निर्वाणं लोकमश्नुते ।। ५२ ।।
मानुष्यमासाद्य तथा ख्यातशब्दश्च जायते ।।
घण्टाप्रदानेन तथा महद्यश उपाश्नुते।। ५३ ।।
सौभाग्यमथवाप्नोति किङ्किणीः प्रददन्हरेः ।।
कूटागारं तथा दत्त्वा नगराधिपतिर्भवेत् ।। ५४।।
कीर्त्या युक्तस्तथा लोके धार्मिकश्चापि जायते ।।
बहून्यब्दसहस्राणि नाकलोके स मोदते ।।५५ ।।।
पताकां ये प्रयच्छन्ति कूटागारे मनोहराम् ।।
सन्त्यज्य सकलं पापं वायुलोके व्रजन्ति ते ।। ५६ ।।
पताकां च शुभां दत्त्वा तथा केशववेश्मनि ।।।
वायुलोकमवाप्नोति बहून्यब्दगणानि तु ।। ५७ ।।
दोधूयते यथा सा च वायुना केशवालये ।।
तथातथा हि सकलं देहात्पापं विधूयते ।। ५८ ।।
यथायथा च सा शोभां करोति त्रिदशालये ।।
तथातथा स यशसा महता भुवि राजते ।। ५९ ।।
वितानकप्रदानेन सर्वपापैः प्रमुच्यते ।।।
परां निर्वृतिमाप्नोति यत्रयत्राभिजायते ।। 3.341.६० ।।
दत्त्वा तु देवकर्मार्थं नवां वेदीं दृढां शुभाम् ।।
पार्थिवत्वमवाप्नोति वेदिर्हि पृथिवी यतः।।६१।।
यः कुम्भं देवकर्मार्थं नरो दद्यान्नवं शुभम् ।।
स लोकमाप्नोति नरो वारुणं गतकल्मषः ।। ६२ ।।
चतुरः कलशान्दद्याद्यस्तु देवगृहे नरः ।।
चतुस्समुद्रवलयां स च भुङ्क्ते वसुन्धराम् ।। ६३ ।।
दत्त्वैकमपि विप्रेन्द्राः कलशं सुसमाहितः ।।
राजा भवति धर्मात्मा भूतले नात्र संशयः ।। ६४ ।।
वारिधानीं तथा दत्त्वा वारुणं लोकमश्नुते ।।
कमण्डलुप्रदानेन गोदानफलमाप्नुयात् ।।६५।।
उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ।।
दत्त्वा गोपालकान्विप्राः सर्वपापानपोहति ।। ६६ ।।
दत्त्वा चामरजं कूर्चं श्रियमाप्नोत्यनुत्तमाम् ।।
आसनानां प्रदानेन स्थानं सर्वत्र विन्दति ।। ६७ ।।
पादपीठप्रदानेन गतिमाप्नोत्यनुत्तमाम् ।।
गोदानफलमाप्नोति तथा पाद्यप्रदो नरः ।। ६८ ।।
लोकेषु ध्वजभूतः स्याद्विष्णोर्दत्त्वा तथा ध्वजम् ।।
शक्रलोकानवाप्नोति बहूनब्दगणान्नरः ।। ६९ ।।
नरस्त्वाचमनीयस्य दानाद्भवति निर्मलः ।।
मुखलेपप्रदानेन परं रूपमिहाप्नुयात् ।। 3.341.७० ।।
दर्पणस्य प्रदानेन दर्पवान्रूपवान्भवेत् ।।
दर्शयित्वा तथा तं च सुभगस्त्वभिजायते ।। ७१ ।।
मात्रां तु परिचर्यार्थे निवेद्य विधिवत्तथा ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।। ७२ ।।
धान्यानामथ सस्यानां बीजानामथ धार्मिकः ।।
सुवर्णरौप्यलोहानां रूपकाणां तथैव च ।।७३ ।।
सहस्रगुणमाप्नोति फलमन्यत्र कीर्त्तनात् ।।
रूप्यदो रूपमाप्नोति विशेषाद्भुवि दुर्लभम् ।। ७४ ।।
नरः सुवर्णदानेन सर्वान्कामानुपाश्नुते ।।
नड दानेन लोकेषु ग्रामण्यमुपगच्छति ।। ७५ ।।
गवां लोकमवाप्नोति धेनुं दत्त्वा पयस्विनीम् ।।
अनडुहः प्रदानेन दशधेनुफलं लभेत् ।।७६ ।।
अजाविमहिषोष्ट्राणां दानमश्वतरस्य च ।।
सहस्रगुणितं दानं पूर्वं प्रोक्तं प्रकीर्तितम् ।। ७७ ।।
आरण्यमृगजातीनां तथा दानाच्च पक्षिणाम् ।।
अग्निष्टोममवाप्नोति सुभगश्च तथा भवेत् ।। ७८।।
मृद्भोगदानाद्देवस्य भूमिमाप्नोत्यनुत्तमाम् ।।
दन्तकाष्ठप्रदानेन तथा सौभाग्यमर्हति ।। ७९ ।।
जिह्वा निर्लेखनं दत्त्वा विरोगस्त्वभिजायते ।।
युक्तः पीतपताकाभिर्निवेद्य गरुडध्वजम् ।। 3.341.८० ।।
केशवं यो द्विजश्रेष्ठाः शक्रलोके महीयते ।।
युक्तं नीलपताकाभिस्तालं दत्त्वा द्विजोत्तमाः।।८१।।
यस्माल्लोकात्परिभ्रष्टो विरागस्त्वभिजायते ।।
युक्तं श्वेतपताकाभिरगारं यः प्रयच्छति।।८२।।
राजा भवति लोकेस्मिन्भुक्त्वा लोकान्प्रचेतसः ।।
युक्तं रक्तपताकाभिर्दत्वा ऋष्यमनुत्तमम् ।। ८३ ।।
अलकां समवाप्नोति तथा पापक्षयं नरः ।।
तोरणं कारयेद्यस्तु देवदेवालये नरः ।। ८४ ।।
लोकेषु तस्य द्वाराणि भवन्ति विवृतानि तु ।।
शयनासनदानेन स्थितिं विन्दति शाश्वतीम् ।।८९।।
उत्तरच्छददानेन सर्वान्कामानवाप्नुयात् ।।
देववेश्मोपभोगानि शिल्पभाण्डानि यो नरः ।। ८६ ।।
दद्याद्वा वाद्यभाण्डानि गणेशत्वमवाप्नुयात् ।।
देवश्रितेषु यत्किञ्चिद्दद्याद्भक्तिसमन्वितः ।। ८७ ।।
तदेवाक्षयमाप्नोति देवदेवप्रसादतः ।।
दत्त्वा धान्यानि बीजानि सस्यानि विविधानि च ।।८८।।
रूपकाणि च तान्येव प्राप्नोत्ययुतशः पुनः ।।
दत्त्वा शाकानि रस्याणि विशोकस्त्वभिजायते ।। ८९ ।।
दत्त्वा च व्यंजनार्थाय तथोपकरणानि च ।।
पुष्पवृक्षं ततो दत्त्वा ग्रामस्याधिपतिर्भवेत्।।3.341.९०।।
फलवृक्षं तथा दत्त्वा नगराधिपतिर्भवेत्।।
आरामं कारयित्वा तु राजा वै पार्थिवो भवेत।।९१।।
जलाशयं तथा कृत्वा सर्वपापैः प्रमुच्यते ।।
सपुष्पैस्सफलैर्वृक्षैर्युक्तं कृत्वा जलाशयैः ।। ९२ ।।
उद्यानैः पद्मिनीखण्डैरैश्वर्यैश्च मनोहरैः ।।
श्वेतद्वीपमवाप्नोति बहून्यब्दगणानि तु ।। ९३ ।।
प्रीणयेद्देवदेवेशं गवां ग्रामेण यो नरः ।।
तस्य प्रीतः स भगवानभीष्टफलदो भवेत् ।। ९४ ।।
अतीव दयितास्तस्य ब्राह्मणा द्विजसत्तमाः ।।
ब्रह्मणैः पूजतैर्विष्णुः स्वयं भवति पूजितः ।। ९५ ।।
दीनांधकृपणानाथ बहूनामपि दानतः ।।
यः प्रीणाति जगन्नाथं तस्य देवः प्रसीदति ।। ९६।।
उपवासव्रतैः स्नानैस्तीर्थानुसरणेन च।।
आयतस्थानसंस्थानां पशूनां च विवर्जनात् ।। ९७।।
गुरुशुश्रूषया क्षान्त्या तथा वै श्राद्धकर्मणा ।।
आहारनियमैस्तैस्तैः परापीडैर्विशेषतः ।। ९८ ।।
पूजयित्वा जगन्नाथं श्वेतद्वीपमवाप्नुयात् ।।
परं पदमवाप्नोति प्रसन्ने मधुसूदने ।। ९९ ।।
अभिवाद्य जगन्नाथं कृतार्थश्च तथा भवेत् ।।
नमस्कारक्रिया तस्य सर्वपापप्रणाशिनी ।। 3.341.१०० ।।
प्रणामं पापशमनं तथैव परिकीर्तितम् ।।
जानुभ्यां चैव पाणिभ्यां शिरसा च विचक्षणः ।।१०१।।
कृत्वा प्रणामं देवेभ्यः सर्वान्कामानवाप्नुयात् ।।
परमाणूनि वर्तन्ते ललाटे पुरुषस्य च ।। १०२ ।।
पार्थिवानि भवंतीह नमतो मधुसूदनम् ।।
तावन्त्यब्दानि विप्रेन्द्राः स्वर्गलोके महीयते।।१०३।।
देवार्चादर्शनादेव प्रणमेन्मधुसूदनम् ।।
स्थानापेक्षा न कर्तव्या दृष्ट्वार्चां द्विजसत्तमाः ।। १०४ ।।
देवार्चादृष्टिपूतं हि शुचिः सर्वं प्रकीर्तितम् ।।
देवार्चादृष्टिपूतेन स्नानं कृत्वा जलाशये ।। १०५।।
सर्वपापविनिर्मुक्तः क्षणाद्भवति निर्मलः ।।
तीर्थानां तत्र सर्वेषां सन्निधानं प्रकीर्तितम्।।१०६।।
पादोदकेन वाभ्युक्ष्य तथा मूर्द्धानमात्मनः ।।
स्नातो भवति धर्मात्मा नात्र कार्या विचारणा ।।१०७।।
पादोदकं शान्तिकरममङ्गल्यविनाशनम् ।।
दुष्टदुःस्वप्नशमनं सर्वपापविनाशनम् ।।१०८।।
धन्यं पवित्रं मङ्गल्यं सर्वपापहरं शिवम् ।।
शिरसा मानवश्रेष्ठाः काल्यपुण्याय धारयेत्।।१०९।।
सर्वा ङ्गप्रणिपातेन सर्वकामयुतां नरः ।।
सर्वानर्थविनिर्मुक्तो गोदानफलमाप्नुयात् ।। 3.341.११० ।।
रुक्ममाषकदानस्य फलं विप्राः पदेपदे ।।
पुरुषस्तु समाप्नोति यः करोति प्रदक्षिणाम् ।। १११ ।।
ध्यानं तु देवदेवस्य सर्वबाधाविनाशनम् ।।
यावत्कालं करोतीह ध्यानं वै निश्चलं नरः ।। ११२ ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
निराशीर्निर्ममो यस्तु विष्णोर्ध्यानरतो भवेत् ।। ११३ ।।
तत्पदं समवाप्नोति यत्र गत्वा न शोचति ।।
यज्ञानां तपसां चैव ध्यानमेव परं स्मृतम् ।।११४।।
देवाग्रे कारयेद्यस्तु रम्यामापणवीथिकाम्।।
राजा भवति लोकेषु विजितारिर्महायशाः।।११५।।
नगरं च तथा कृत्वा साम्राज्यमधिगच्छति ।।
यानवाहनदानेन सर्वकालं सुखी भवेत् ।।११६।।
शिबिकां ये प्रयच्छंति ते प्रयान्त्यमरावतीम् ।।
अश्वस्थाः सूर्यलोकस्था राजन्ते दिवि सूर्यवत् ।।११७।।
करीन्द्रदानाच्छक्रस्य चिराल्लोकाच्च्युतो नरः ।।
राजा भवति धर्मात्मा पृथिव्यां पृथिवी पतिः ।। ११८ ।।
दासं दत्त्वा सुखी लोके स्वर्गभ्रष्टोभिजायते ।।
दासीं दत्त्वा तथा विप्रा नात्र कार्या विचारणा ।। ११९ ।।
गणिकां ये प्रयच्छंति नृत्यगीतविशारदाम् ।।
सर्वदुःखविनिर्मुक्तास्ते प्रयान्त्यमरावतीम् ।। 3.341.१२० ।।
दुन्दुभिं ये प्रयच्छन्ति कीर्तिमन्तो भवन्ति ते ।।
राजा भवति लोकेस्मिञ्छत्रं दत्त्वा द्विजोत्तमाः ।। १२१ ।।
नाप्नोति रिपुजं दुःखं संग्रामे रिपुजिद्भवेत् ।।
तालवृन्तप्रदानेन निर्वृतिं प्राप्नुयात्पराम् ।। १२२ ।।
तथाचमनदानेन श्रीमान्भवति भूतले ।।
मुच्यते च तथा पापैः स्वर्गलोकं च गच्छति ।। १२३ ।।
उपानत्संप्रदानेन विमानमधिगच्छति ।।
यथेष्टं तेन लोकेषु विचरत्यमरप्रभः ।। १२४ ।।
यथादेशं यथाकालं राजलिङ्गं सुरालये ।।
दत्त्वा भवति राजैव नात्र कार्या विचारणा ।। ।। १२५ ।।
धारणीयोपयोग्यानि दत्त्वात्यन्तं सुखी भवेत् ।।
माल्याधारं तथा दत्त्वा धूपाधारं तथैव च ।। १२६ ।।
गन्धाधारं तथा पात्रं कामानां पात्रतां व्रजेत् ।।
समुद्रजानि पात्राणि दत्त्वा वै तैजसानि वा ।। १२७ ।।
पात्रं भवति कामानां विद्यानां च धनस्य च ।।
यत्किञ्चिद्देवदेवाय दद्याद्भक्तिसमन्वितः ।। १२८ ।।
तदेवाक्षय्यमाप्नोति स्वर्लोकं च गच्छति ।।
विस्मापनीयं यत्किञ्चित्कृत्वात्यन्तं सुखी भवेत् ।। १२९ ।।
स्नानशाटकदानेन वह्निष्टोमफलं लभेत् ।।
तैलेन स्नपनं कृत्वा सौभाग्यमधिगच्छति ।। 3.341.१३० ।।
गंधतैलानि दिव्यानि सुगन्धीनि शुचीनि च ।।
केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते ।। १३१ ।।
घृतेन स्नपनं कृत्वा सर्वपापान्व्यपोहति ।।
घृतप्रस्थेन देवेशं पौषपुष्यमितेतरः ।। १३२ ।।
स्नापयित्वाश्वमेधस्य फलं प्राप्नोत्यसंशयम् ।।
एतदेव फलं प्रोक्तमुत्तरायणवासरे ।। १३३ ।।
घृतं पवित्रमतुलं घृतमन्नमनुत्तमम् ।।
तेन गव्येन संस्नाप्य प्रतिमां वैष्णवीं नरः ।। १३४ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
गवां लोकमवाप्नोति क्षीरोदमथ वा पुनः ।। १३५ ।।
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।।
भयान्मुच्येत भीतश्च घृतेन स्नपयेद्धरिम् ।। १३६ ।।
सर्वान्कामानवाप्नोति सर्वानर्थविवर्जितः ।।
मधुना स्नापनं कृत्वा सौभाग्यमधिगच्छति ।। १३७ ।।
लोके मित्राण्यवाप्नोति नरश्चेक्षुरसेन च ।।
दुग्धेन स्नपनं ज्ञेयममंगल्यविनाशनम् ।। १३८ ।।
क्षीरेण स्नपनं विप्राः क्षीराम्भोधिप्रदं तथा ।।
देयानि देवे वाद्यानि दधिक्षीरघृतान्यथ ।।१३९।।
गोधूमयवचूर्णैस्तु ततोत्सार्य जनार्दनम् ।।
रोधवर्णकसंकीर्णैर्वरं रूपं तथाप्नुयात् ।। 3.341.१४० ।।
स्नपनं माषचूर्णेन वह्निष्टोमफलप्रदम् ।।
मसूरचूर्ण दानं च तथा सौभाग्यवर्धनम् ।। १४१ ।।
मसूरमाषचूर्णं तु कुंकुमक्षोदसंयुतम् ।।
निवेद्य देवदेवाय गन्धर्वैः सह मोदते ।। १४२ ।।
तदा कलशदानेन प्रियामाप्नोत्यनुत्तमाम् ।।
रोध्रस्नानप्रदानेन वर्णं शुभमवाप्नुयात ।। १४३ ।।
कालीयकप्रदानेन परां निर्वृतिमाप्नुयात् ।।
दोपूरकप्रदानेन सर्वान्रोगान्व्यपोहति ।। १४४ ।।
तथा वर्णकदानेन सर्वमेव शुभं वदेत ।।
तगरस्नानदानेन सौभाग्यमधिगच्छति ।। १४५ ।।
प्रियत्वमाप्नुयाल्लोके प्रियङ्गुस्नानदो नरः ।।
सदा भवति सिद्धार्थः सिद्धार्थस्नानदस्तथा ।। १४६ ।।
सर्वौषधिप्रदानेन वाजिमेधफलं लभेत् ।।
स्नानार्थं देवदेवस्य यस्तु गन्धान्प्रयच्छति ।। १४७ ।।
भवन्ति वशगास्तस्य नार्यः सर्वत्र सर्वदा ।।
दत्त्वा जातीफलं मुख्यं सकलं विन्दते श्रियम् ।। १४८ ।।
शमीपत्रप्रदानेन सौभाग्यमधिगच्छति ।।
त्वक्प्रदानात्तथा लोके भवतीह बलान्वितः ।। १४९ ।।
दत्त्वा मृगमदस्नानं सर्वान्कामानवाप्नुयात् ।।
रत्नोदकप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।। 3.341.१५० ।।
बीजोदकप्रदानेन क्रियासाफल्यमाप्नुयात ।।
पुष्पतोयप्रदानेन श्रीमान्भवति मानवः ।। ।। १५१ ।।
फलतोयप्रदानेन सफलां विन्दते क्रियाम् ।।
पुन्नामवारिभिर्युक्तं कलशं पूजितं नरैः ।। १५२ ।।
सोपवासो हरेर्दत्त्वा पुत्रमाप्नोत्यसंशयम् ।।
क्षीरपल्लवसंयुक्तान्कलशान्सुविभूषितान् ।। १५३ ।।
दत्त्वैव देवदेवाय वाजपेयमवाप्नुयात् ।।
जयकारं नरो यस्तु करोति द्विजपुङ्गवाः ।। ।।५४ ।।
बन्दिनां स भवत्येव सदा स्तव्यो नरोत्तमाः ।।
तीर्थोदकानि पुण्यानि स्वयमानीय मानवः ।। १५५ ।।
देवस्य स्नपनं दत्त्वा सर्वपापैः प्रमुच्यते ।।
अर्चितान्कलशान्कृत्वा परिभ्राम्य तथैव च ।। १५६ ।।
यस्त्यजेत्सलिलं तत्र तस्य पुष्टिः सदा भवेत् ।।
तीर्थतोयं तथा दत्त्वा देवस्याचमनं पुनः ।। १५७ ।।
स्वर्गलोकमवाप्नोति सर्वपापविवर्जितः ।।
उत्सादनमथाभ्यङ्गं स्नानं कृत्वा स्वयं हरेः ।। १५८ ।।
गाणपत्यमवाप्नोति तथा लोके सुखी भवेत् ।।
निष्पुंसनार्थे देवस्य यस्तु वस्त्रं प्रयच्छति ।। १५९ ।।
चन्द्रलोकमवाप्नोति सुखं प्राप्नोति चोत्तमम् ।।
चन्दनेनानुलिप्यैनं चन्द्रलोकमवाप्नुयात् ।। 3.341.१६० ।।
शारीरमानसैर्दुःखैस्तथा चैव विमुच्यते ।।
कुंकुमेनानुलिप्यैनं सूर्यलोके महीयते ।। १६१ ।।
सौभाग्यमुत्तमं लोके तथा प्राप्नोति मानवः ।।
कर्पूरेणानुलिप्यैनं वारुणं लोकमाप्नुयात् ।। ।। १६२ ।।
शारीरैर्मानसैर्दुखैस्तथैव च विमुच्यते ।।
भवन्ति वशगास्तस्य तथैव सततं स्त्रियः ।। १६३ ।।
दत्त्वा मृगमदं मुख्यं यशसा भुवि राजते ।।
दत्त्वा जातीफलक्षोदं क्रियासाफल्यमश्नुते ।। १६४ ।।
रम्येणागुरुसारेण त्वनुलिप्य जनार्दनम् ।।
सौभाग्यमुत्तमं लोके बलं प्राप्नोति चोत्तमम् ।। १६५ ।।
तथा बकुलनिर्यासैर्वह्निष्टोमफलं लभेत् ।।
बकुलागुरुमिश्रेण चन्दनेन सुगन्धिना ।। १६६ ।।
समालभ्य जगन्नाथं पौण्डरीकफलं लभेत् ।।
एकीकृत्य तु सर्वाणि समालभ्य जनार्दनम् ।। १६७ ।।
अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्यसंशयम् ।।
कामगः सर्वलोकेषु विचरत्यमरप्रभः ।। १६८ ।।
योऽनुलिप्येत देवेशं कीर्तितैरनुलेपनैः ।।
पार्थिवानि च यानि स्युः परमाणूनि तत्र ।। १६९ ।।
तावत्यब्दानि लोकेषु कामचारी भवत्यसौ ।।
न दातव्यं द्विजश्रेष्ठाः अतोन्यदुपलेपनम् ।। 3.341.१७० ।।
अनुलेपनमुख्यं च चन्दनं परिकीर्तितम् ।।
अनुलिप्य जगन्नाथं तालवृन्तेन वीजयेत् ।। १७१ ।।
वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा ।।
केशसौगन्ध्यजननं दत्त्वा मृगमदं नरः ।। १७२ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
यच्छते यस्तु गन्धानि गन्धयुक्तिकृतानि तु ।। १७३ ।।
गन्धर्वत्वं स्मृतं तस्य सौभाग्यं च तथोत्तमम् ।।
चामरैर्वीजयेद्यस्तु देवदेवं जनार्दनम् ।। १७४ ।।
तिलप्रस्थप्रदानस्य फलं प्राप्नोत्यसंशयम् ।।
एकवस्त्रप्रदानेन सर्वान्कामानवाप्नुयात्।।१७५।।
कार्पासिकं वस्त्रयुग्मं यः प्रदद्याजनार्दने ।।
यावन्ति तस्य तन्तूनि हस्तमात्रमितानि तु ।।१७६ ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
महार्घता तथा तस्य साधुवेशोद्भवो यथा ।।१७७।।
सूक्ष्मता च तथा विप्रास्तथा प्रोक्तं फलं महत् ।।
स्वर्गभ्रष्टस्य वक्ष्यामि वस्त्रदस्य फलान्यतः ।। १७८ ।।
शुक्लक्स्त्रप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।।
महारजतदत्तेन सौभाग्यं महदश्नुते ।। १७९ ।।
नीलरक्तं विना रक्तं शेषै रक्तैर्द्विजोत्तमाः ।।
दत्त्वा भवति धर्मात्मा सर्वव्याधिविवर्जितः ।। 3.341.१८० ।।
नीलरक्तं तथा जीर्णं वस्त्रमन्यधृतं तथा ।।
देवदेवाय यो दद्यात्सर्वपापैर्विमुच्यते ।।१८१।।
दुकूलकप्रदानेन वह्निष्टोमफलं लभेत् ।।
कौशेयानि च वस्त्राणि सुमृदूनि लघूनि च ।।१८२ ।।
यः प्रयच्छति देवाय सोऽश्वमेधफलं लभेत् ।।
सलोमानि च वस्त्राणि यः प्रयच्छति धर्मवित् ।। १८३ ।।
कृतानि वारवाणानि सोऽश्वमेधफलं लभेत् ।।
राङ्क वा मृगलोमाश्च कदल्यश्च तथा शुभाः ।। १८४ ।।
यो दद्याद्देवदेवाय सोश्वमेधफलं लभेत् ।।
नानाभक्तिविचित्राणि चीनजानि नवानि च ।। ।। १८५ ।।
दत्त्वा वासांसि शुभ्राणि राजसूयफलं लभेत् ।।
दत्त्वा निस्त्रिंशकं मुख्यं शत्रुभिर्नाभिभूयते ।। १८६ ।।
दत्त्वा तद्वद्धनुर्मुख्यमग्निमेधफलं लभेत् ।।
यज्ञोपवीतदानेन ब्रह्मदानफलं लभेत् ।। १८७ ।।
कर्णपूरप्रदानेन श्रुतिं विन्दति सर्वतः ।।
दत्त्वा प्रतिसरं मुख्यं न भूतैरभिभूयते ।। १८८ ।।
कूर्चप्रसाधनं दत्त्वा सुखमत्यंतमश्नुते ।।
कङ्कतस्य प्रदानेन विरोगस्त्वभिजायते ।। १८९ ।।
रूपवांश्च सुवेशश्च सुभगस्सर्वभागपि ।।
वस्त्रप्रदानाद्भवति सर्वकामसमन्वितः ।। 3.341.१९० ।।
विभूषणप्रदानेन राजा भवति भूतले ।।
रम्याणि रत्नचित्राणि सौवर्णानि द्विजोत्तमाः ।। १९१ ।।
दत्त्वाभरणजातानि राजसूयमवाप्नुयात ।।
प्रतिरूपकरत्नानि न देयानि कदाचन ।। १९२ ।।
पादाङ्गुलीयदानेन गुह्यकाधिपतिर्भवेत् ।।
पादाभरणदानेन स्थानं सर्वत्र विन्दति ।। १९३ ।।
श्रोणीसूत्रप्रदानेन महीं सागरमेखलाम् ।।
प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ।। १९४ ।।
हस्ताङ्गुलीयदानेन परं सौभाग्यमाप्नुयात् ।।
तथैवाङ्गद दानेन राजा भवति भूतले ।। १९५ ।।
केयूरदानाद्भवति शत्रुपक्षक्षयङ्करः ।।
ग्रैवेयकानि दत्त्वा च सर्वशास्त्रार्थविद्भवेत् ।। १९६ ।।
नार्यः सुवशगास्तस्य भवन्ति द्विजपुङ्गवाः ।।
श्रियमाप्नोति परमां राजसूयं च विन्दति ।। १९७ ।।
कर्णाभरणदानेन भवेच्छ्रुतिधरो नरः ।।
अश्वमेधमवाप्नोति सौभाग्यं चैव विन्दति ।। १९८ ।।
मूर्धाभरणदानेन राजसूयफलं लभेत् ।।
मुकुटस्य प्रदानेन मूर्धन्यो भूतले भवेत् ।।१९९।।
चतुःसमुद्रवलयां प्रशास्ति च वसुन्धराम् ।।
अनुक्तान्यपि विप्रेन्द्रा वासांस्याभरणानि च ।। 3.341.२०० ।।
दत्त्वैव देवदेवाय वह्निष्टोमफलं लभेत् ।।
दानं सुमनसां श्रेष्ठं तथैव परिकीर्तितम् ।। २०१ ।।
अलक्ष्म्या शमनं मुख्यं परं लक्ष्मीविवर्द्धनम् ।।
धन्यं यशस्यमायुष्यं मङ्गल्यं बुद्धिवर्द्धनम् ।। २०२ ।।
स्वर्गदं च तथा प्रोक्तं वह्निष्टोमफलप्रदम् ।।
पुष्पालाभेपि यो दद्यादपि दूर्वांकुराणि च ।। २०३ ।।
सोपि पुण्यमवाप्नोति हेमदानस्य वै द्विजाः ।।
पुष्पालाभेऽपि देयानि पत्राण्यपि जनार्दने ।।२०४।।
पत्रालाभे जलं दद्यात्तेन पुण्यमुपाश्नुते ।।
पत्रं पुष्पं फलं तोयं भक्त्या देयं जनार्दने ।। २०५ ।।
तेन लोकानवाप्नोति भक्तिरेवात्र कारणम् ।।
भृङ्गराजस्य बिल्वस्य चक्रपुष्पस्य च द्विजाः ।। २०६ ।।
तथैव बीजपूराणि पत्राणि तु निवेदयेत् ।।
एतेषामपि चैकस्य पत्रदानं महाफलम् ।।२०७।।
पत्राणि तु सुगन्धीनि पल्लवानि मृदूनि च ।।
तेन पुण्यमवाप्नोति पुष्पदानसमुद्भवम् ।। २०८ ।।
उग्रगन्धीन्यगन्धीनि कुसुमानि न दापयेत् ।।
अन्यायतनजातानि कण्टकीनि तथैव च ।। २०९ ।।
उक्तानि यानि धर्मज्ञाश्चैत्यवृक्षोद्भवोनि च ।।
तथा श्मशानजातानि यानि चाकालजानि च ।।3.341.२ १० ।।
दानं विवर्जयेद्यत्नात्पुष्पाणामसुगन्धिनाम् ।।
सुगन्धीनि मनोज्ञानि कुसुमानि द्विजोत्तमाः ।। २११ ।।
कृत्रिमेनोपपाद्यानि गन्धितानि सुगन्धिना ।।
धूपेन एव वासेन चंदनाद्यैश्च लेपनैः ।। २१२ ।।
कण्टकीन्यपि देयानि शुक्लानि सुरभीणि च ।।
तथा रक्तानि देयानि जलजानि विशेषतः ।। २१३ ।।
कुङ्कुमस्य च पुष्पाणि बन्धुजीवस्य चाप्यथ ।।
चम्पकस्य च देयानि तथा भूचम्पकस्य च ।। २१४ ।।
पीतयूथिकजान्येव माषबन्माल्यजान्यपि ।।
मञ्जर्यः सहकारस्य तथा देया जनार्दने ।। २१५ ।।
मल्लिकाकुन्दकुसुममतिमुक्तकमेव च ।।
सर्वाश्च यूथिकाजात्यो मल्लिकाजात्य एव च ।। २१६ ।।
याश्च कुप्यकजाताश्च कदम्बकुसुमानि च ।।
केतकीपाटलं पुष्पं बाणपुष्पं तथैव च ।। २१७ ।।
एवमादीनि देयानि गन्धवन्ति शुभानि च।।
करवीरस्य पुष्पाणि तथा धत्तूरकस्य च ।। २१८ ।।
कृष्णकुञ्चटकं नार्कं नैव देयं जनार्दने ।।
सर्वासां पुष्पजातीनां जातिः श्रेष्ठा तथा स्मृता ।। २१९ ।।
जातीनामपि सर्वासां शुक्लाजातिः प्रशस्यते ।।
केचिद्वर्णगुणा देयाः केचिद्गन्धगुणास्तथा ।। 3.341.२२० ।।
अनुक्तान्यपि नामानि तथा देयानि कानिचित् ।।
देशे देशे यथा काले यानि पुष्पाण्यनेकशः ।।२२१।।
गन्धवर्णोपपन्नानि तथा देयानि नित्यशः ।।
सुगन्धिपुष्पैर्यः कुर्यात्पूजां मधुरिपोर्नरः ।।२२२।।
तस्य प्रसादमायाति देवश्चक्रगदाधरः ।।
धन्याश्चोरन्ध्रिमंजर्यो दयितास्तस्य नित्यशः ।। २२३ ।।
पुरन्ध्रिपुष्पं यो दद्यादेकमप्यथ पण्डितः ।।।
तिलप्रस्थप्रदानस्य फलं प्राप्नोत्यसंशयम् ।। २२४ ।।
पुरन्ध्रिमञ्जरीपुष्पसहस्रेणार्चयेद्धरिम् ।।
अग्निष्टोममवाप्नोति कुलमुद्धरते तथा ।। २२५ ।।
कर्पूरपटवासेन पुरन्ध्रिमथ वासिताम् ।।
महारजतरक्तेन तथा सूत्रे निवेशिता।।२२६।।
मालापुष्पसहस्रेण यः प्रयच्छति भक्तितः ।।
अश्वमेधफलं तस्य नात्र कार्या विचारणा ।। १२७ ।।
शतेन वाजपेयस्य फलमाप्नोत्यसंशयम् ।।
लक्षपूजां तथा कृत्वा सर्वान्यज्ञानवाप्नुयात् ।। २२८ ।।
नन्दनाद्येषु मुख्येषु देवोद्यानेषु चाप्यथ ।।
क्रीडते देवरामाभिर्देवदुन्दुभितश्चिरम् ।। २२९ ।।
दत्त्वा नीलोत्पलयुतं कुसुमं कुङ्कुमस्य च ।।
तुल्यं फलमवाप्नोति बंधुजीवस्य च द्विजाः ।। 3.341.२३० ।।
सुवर्णयवदानस्य फलं प्राप्नोति मानवः ।।
दत्त्वा नीलोत्पलं विष्णोर्नात्र कार्या विचारणा ।। ।। २३१ ।।
नोलोत्पलशतं दत्त्वा वह्निष्टोमफलं लभेत् ।।
नीलोत्पलसहस्रेण पुण्डरीकमवाप्नुयात् ।। २३२ ।।
लक्षपूजां तथा कृत्वा राजसूयफलं लभेत् ।।
रूप्यमाषप्रदानेन फलं कुंकुमदो लभेत् ।।२३३।।
कुमुदानां शतं दत्त्वा चंद्रलोके महीयते ।।
सहस्रं च तथा दत्त्वा यथेष्टां गतिमाप्नुयात् ।। २३४ ।।
अश्वमेधमवाप्नोति लक्षपूजाविधायकः ।।
स्वयं चैनं तथा लक्ष्मीर्भजते नात्र संशयः ।।२३५ ।।
रक्तपद्मप्रदानेन रुक्ममाषप्रदो भवेत् ।।
लतां दत्त्वा च धर्मात्मा वह्निष्टोमफलं लभेत् ।। २३६ ।।
सहस्रं च तथा दत्त्वा सूर्यलोके महीयते ।।
विष्णुलोकमवाप्नोति लक्षपूजाविधायकः ।। ।। २३७ ।।
स्वयमेनं तथा लक्ष्मीर्भजते नात्र संशयः।।
रक्तपद्मप्रदो विष्णोस्तस्य स्याद्द्विगुणं फलम् ।। २३८ ।।
नीलोत्पलसमं दानं चम्पकस्य प्रकीर्तितम् ।।
मल्लिकापुष्पजातीनां यूथिकायास्तथैव च ।। २३९ ।।
तथा कुप्यकजातीनां फलस्यार्धं प्रकीर्तितम् ।।
जातीपुष्पप्रदानेन गन्धर्वैः सह मोदते ।।3.341.२४० ।।
जातीपुष्पाष्टकं दत्त्वा वह्निष्टोमफलं लभेत।।
जातीपुष्पसहस्रेण यथेष्टाङ्गतिमाप्नुयात् ।। २४१ ।।
श्वेतद्वीपमवाप्नोति लक्षपूजाविधायकः ।।
जातीपुष्पयुतां मालां कर्पूरपटवासिताम् ।।२४२।।
निवेद्य देवदेवाय यत्फलं प्राप्नुयान्नरः ।।
श्वेतैः पुष्पैः समभ्यर्च्य सर्वान्कामानवाप्नुयात् ।। २४३ ।।
आश्चर्यमाप्नुयाल्लोके पीतैर्देवं समर्चयन् ।।
शत्रूणामभिचारेषु तथा कृष्ण समर्चयेत् ।। २४४ ।।
सुवर्णपुष्पैरभ्यर्च्य राजसूयफलं लभेत् ।।
रत्नैर्देवमथाभ्यर्च्य राजा भवति भूतले ।। २४५ ।।
कृत्वा पुष्पगृहं विष्णोः पुष्पैर्वाथ वितानकम् ।।
फलेन योगमाप्नोति राजसूयाश्वमेधयोः ।। २४६ ।।
किङ्किणीजालसंयुक्तं देवरामागणोज्वलम् ।।
वीणामुरजगीताढ्यं विमानमधिरोहति ।। २४७ ।।
पुष्पप्रदानं मङ्गल्यमलक्ष्मीविप्रणाशनम् ।।
लक्ष्मीवृद्धिकरं ज्ञेयं सौमनस्यविवर्द्धनम् ।। २४८ ।।
सौभाग्यजननं चैव तेजोबलविवृद्धिदम् ।।
न रत्नैर्न सुवर्णेन न च वित्तेन भूरिणा ।। २४९ ।।
तथा प्रसादमायाति यथा पुष्पैर्जनार्दनः ।।
वासन्तीमल्लिकापुष्पं तथा च वार्षिके च वा ।। 3.341.२५० ।।
कुप्यकं यूथिका चैव तथा चैवातिमुक्तकम् ।।
केतकीं चम्पकं चैव माषवृणकमेव च ।। २५१ ।।
पुरन्ध्रमञ्जरीपुष्पं चूतपुष्पं तथैव च ।।
बन्धुजीवकपुष्पं च कुसुमं कुङ्कुमस्य च ।। २५२ ।।
जातीपुष्पाणि सर्वाणि कुन्दपुष्पं तथैव च ।।
पाटली च तथा वृत्तान्नीलमिन्दीवरं तथा ।। २५३ ।।
कुमुदं श्वेतरक्तं च श्वेतरक्तौ तथा शुभौ ।।
एवमादीनि पुष्पाणि दातव्यानि सदा हरेः ।। २५४ ।।
स्वयमाहृत्य यो दद्यादारण्यकुसुमानि च ।।
स राज्यं स्फीतमाप्नोति लोके निहतकण्टकम् ।। २५५।।
पत्रं रम्यं फलं रम्यं पल्लवं वा द्विजोत्तमाः ।।
भक्त्या निवेद्य देवाय फलस्यानन्त्यमश्नुते ।। ३५६ ।।
कर्पूरबोधितानीव पट्टवासांसि यो नरः ।।
ददाति देवदेवाय सोश्वमेधफलं लभेत् ।। २५७ ।।
पट्टवासांसि मुख्यानि दत्त्वा स्वर्गमुपाश्नुते ।।
यशश्चाप्नोति विपुलं नाकपृष्ठे महीयते ।। २५८ ।।
तथा सौभाग्यमाप्नोति पट्टवासप्रदो नरः ।।
यूपेनाभ्यर्च्य देवेशं स्वर्गलोके महीयते।।२५९।।
धूपानामुत्तमं धूपं गुग्गुलं क्षौद्रसर्पिमत्।।
दत्त्वा गुग्गुलुजं धूपं नाकपृष्ठे महीयते ।।3.341.२६०।।
मधुसर्पिःसमायुक्तं द्वादशाहात्फलं लभेत् ।।
दत्त्वा चन्दनसारेण सौभाग्यं परमाप्नुयात् ।।२६१।।
तथैवागुरुसारेण परां सिद्धिमवाप्नुयात् ।।
धूपानामुत्तमं तद्वत्सर्वकामफलप्रदम् ।। ।।२६२।।
धूपं तुरुष्ककं दत्त्वा वह्निष्टोमफलं लभेत् ।।
दत्त्वा च कृत्रिमं मुख्यं सर्वान्कामानवाप्नुयात् ।।२६३।।
गन्धयुक्तिकृतं दत्त्वा यज्ञं गोसवमाप्नुयात् ।।
दत्त्वा कर्पूरनिर्यासं वाजिमेधफलं लभेत् ।। २६४ ।।
वसन्ते गुग्गुलुं दत्वा वह्निष्टोममवाप्नुयात् ।।
ग्रीष्मे चन्दनसारेण द्वादशाहात्फलं लभेत् ।।२६५।।
तुरुष्कदानेन तथा प्रावृष्यमरतां व्रजेत् ।।
कर्पूरदानाच्छरदि राजसूयमवाप्नुयात् ।। २६६ ।।
हेमन्ते मृगदर्पेण वाजिमेधफलं लभेत् ।।
शिशिरेऽगुरुसारेण सर्वमेधमवाप्नुयात् ।। २६७ ।।
विना मृगमदाद्धूपं जीवजातं विवर्जयेत् ।।
धूपदः स्वर्गमाप्नोति धूपदः पुष्टिमश्नुते ।।।२६८।।
धूपलेखा यथैवोर्ध्वं नित्यमेव प्रसर्पति ।।
तथैवोर्ध्वगतिं नित्यं धूपदाता भवेन्नरः ।।२६९।।
धूपराजिर्यदोर्ध्वं स्यादेकादीनां द्विजोत्तमाः ।।
सन्निधानं तथा विद्याद्देवदेवस्य चक्रिणः।।3.341.२७०।।
दीपं चक्षुःप्रदं दद्यात्तथैवोर्ध्वगतिप्रदम् ।।
उर्ध्वं यथा धूपशिखा दाता चोर्ध्वगतिस्तथा ।।२७१।।
ख्यातो भवति लोकेषु स्वर्गलोकं च गच्छति ।।
यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत् ।। २७२ ।।
तावद्वर्षसहस्राणि धर्मात्मा लोकमश्नुते ।।
महावर्तिप्रदानेन कुले देशे तथैव च ।। २७३ ।।
श्रैष्ठ्यमाप्नोति सर्वत्र यथा सर्वं विराजते ।।
मधुपर्कप्रदानेन परं पदमिहाश्नुते ।।२७४।।
घृतं दधि तथा क्षौद्रं मधुपर्कं विजानता ।।
ततस्त्वर्हणदानेन सर्वपापैः प्रमुच्यते ।। २७५ ।।
तथैवाचमनीयस्य दानाद्ब्राह्मणसत्तमाः ।।
अनन्ततृप्तिमाप्नोति स्वर्गलोकं च गच्छति ।। २७६ ।।
दत्त्वा चासंविभागाय तथैवान्नमतन्द्रितः ।।
त्रैलोक्यतर्पिते पुण्यं तत्क्षणात्समवाप्नुयात् ।। २७७ ।।।
अक्षय्यमन्नदानं च पितॄंस्तस्योपतिष्ठते ।।
ओदनं व्यञ्जनोपेतं दत्त्वा स्वर्गमवाप्नुयात् ।। २७८ ।।
परमान्नप्रदानेन तृप्तिं विन्दति शाश्वतीम् ।।
विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ।। २७९ ।।
घृतौदनप्रदानेन दीर्घमायुरवाप्नुयात् ।।
दध्योदनप्रदानेन श्रियमाप्नोत्यनुत्तमाम् ।। 3.341.२८०।।
क्षीरौदनप्रदानेन दीर्घं जीवितमाप्नुयात ।।
इक्षूणां चैव दानेन परं सौभाग्यमाप्नुयात् ।।२८१।।
रसानां चैव भागी स्यात्स्वर्गलोकं च गच्छति ।।
सर्वान्कामानवाप्नोति क्षौद्रं यस्तु प्रयच्छति ।। २८२ ।।
तदेव तुहिनोपेतं राजसूयमवाप्नुयात् ।।
फाणितस्य प्रदानेन वह्नयादेयं फलं लभेत् ।। २८३ ।।
तथा गुडप्रदानेन दशगोदो भवेन्नरः ।।
मुख्यं दण्डं तथा दत्त्वा मैत्रीं सर्वेण विन्दति ।। २८४ ।।
स्त्रीषु वल्लभतामेति दत्त्वा च गुडिकां तथा ।।
सितायाश्च प्रदानेन सर्वान्कामानवाप्नुयात् ।। २८५ ।।
निवेद्येक्षुरसं भक्त्या परं सौभाग्यमाप्नुयात ।।
वह्निष्टोममवाप्नोति यावकस्य निवेदकः ।। २८६ ।।
अतिरात्रमवाप्नोति तथा धूपनिवेदकः ।।
वैदलानां च भक्ष्याणां दानात्काममवाप्नुयात ।। २८७ ।।
दीर्घजीवितमाप्नोति घृतपूरनिवेदकः ।।
मोदकानां प्रदानेन कामानाप्नोत्यभीप्सितान् ।। २८८।।
नानाविधानां भक्ष्याणां दानात्स्वर्गमवाप्नुयात् ।।
रागषांडवदानेन पौण्डरीकमवाप्नुयात् ।। २८९ ।।
भोजनीयप्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ।।
तथा लेह्यप्रदानेन सौभाग्यमधिगच्छति ।। 3.341.२९० ।।
बलवर्णमवाप्नोति चोष्याणां विनिवेदकः ।।
पेयानां च प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ।।२९१।।
पानकानि सुगन्धीनि शीतलानि विशेषतः ।।
निवेद्य देवदेवाय वाजिमेधमवाप्नुयात् ।। २९२ ।।
त्वगेलानागकुसुमकर्पूरसितसंयुतैः ।।
सिताक्षौद्रगुडोपेतैर्गन्धवर्णसमन्वितैः ।। २९३ ।।
राजसूयमवाप्नोति पानकैर्विनिवेदितैः ।।
निवेद्य नालिकेराम्बु वह्निष्टोमफलं लभेत् ।। २९४ ।।
धान्यानां क्षौद्रयुक्तानां लाजानां च निवेदकः ।।
मुख्यानां चैव सक्तूनां वह्निष्टोममवाप्नुयात् ।। २९५ ।।
वानप्रस्थाश्रितं पुण्यं लभेच्छाकनिवेदकः ।।
दत्त्वा हरितकं चैव तदेव फलमाप्नुयात् ।।। २९६ ।।
सुकुले प्राप्नुयाज्जन्म कन्दमूलनिवेदकः ।।
नीलोत्पलविदारीणां तरूटस्य तथा द्विजाः ।। २९७ ।।
कंददानादवाप्नोति वानप्रस्थफलं लभेत् ।।
त्रपुञ्च चारुकं दत्त्वा पुण्डरीकफलं लभेत् ।। २९८ ।।
कर्कन्धुबदरौ दत्त्वा तथा पालेवतं धवम् ।।
पारूषकं तथा प्रोक्तं पनसं नारिकेलकम् ।। २९९ ।।
भव्यं मोचं तथा चौचं खर्जूरमथ दाडिमम् ।।
आम्रकादिषु चाक्षोटमारनालप्रियालुजम् ।। 3.341.३०० ।।
जाम्बू बिल्वामले चैव जात्यश्रीनारुकस्तथा ।।
नारङ्गबीजपूरौ च राजफल्गुफलान्यपि ।। ३०१ ।।
तथा फल्गूनि मुख्यानि देवदेवाय भक्तितः ।।
एवमादीनि चान्यानि यः फलानि प्रयच्छति ।।३०२।।
क्रियासाफल्यमाप्नोति स्वर्गलोकं तथैव च ।।
उदुम्बरं कपित्थं च तथा दन्तशठं च यत् ।। ३०३ ।।
एवमादीनि देवाय न देयानि कदाचन ।।
प्राप्नोति बलमारोग्यं मृद्वीकाविनिवेदकः ।।३०४ ।।
रसान्मुख्यानवाप्नोति सौभाग्यमपि चोत्तमम् ।।
आम्रैरभ्यर्च्य देवेशमश्वमेधफलं लभेत्।। ३०५ ।।
पूगजातीफले दत्त्वा जातीपत्रं तथैव च ।।
लवङ्गमथ कङ्कोलमेलां कटुफलं तथा ।। ३०६ ।।
ताम्बूलीनां किसलयं स्वर्गलोकमवाप्नुयात् ।।
सौभाग्यमुत्तमं लोके तथा रूपमनुत्तमम् ।। ३०७ ।।
मुखवासप्रदानेन स्त्रीणां वल्लभतां व्रजेत् ।।
मात्राणां च प्रदानेन नरकं नैव गच्छति ।। ३०८ ।।
मात्राभिः पूरयेद्भोज्यांस्तथा भक्ष्यानसम्भवे ।।
यत्किञ्चिद्भक्तिसंयुक्तो देवदेवे प्रयच्छति ।। ३०९ ।।
तदेवाक्षय्यमाप्नोति स्वर्गलोकं च गच्छति ।।
न देवस्तोषमायाति प्रभूतैर्धनसञ्चयैः ।। 3.341.३१० ।।
यथा तोषमवाप्नोति भक्त्या भक्तजनप्रियः ।।
भक्त्या कामानवाप्नोति भक्त्या स्वर्गं च गच्छति ।। ३११ ।।
भक्त्या तत्पदमाप्नोति यत्र गत्वा न शोचति ।।
सामान्यभक्त्या यद्दत्तं तद्धि पद्भ्यां प्रयच्छति ।। ३१२ ।।
एकान्तभावोपगमैर्मूर्ध्ना द्विजवरोत्तमाः ।।
श्वेतेन वस्त्रयुग्मेन तथा मुक्ताफलैः शुभैः ।। ।। ३१३ ।।
मुख्यकर्पूरधूपेन पयसा पायसेन च ।।
पद्मसूत्रस्य वर्त्या च घृतधूपेन चाप्यथ ।। ३१४ ।।
पूजयन्सर्वशुक्ला स्यात्सर्वकामप्रदा शिवा ।।
कृत्वेमां मुच्यते रोगी रोगाच्छीघ्रमसंशयम् ।।३१५।।
दुःखार्तो मुच्यते दुःखाद्बद्धो मुच्येत बन्धनात् ।।
राजग्रस्तश्च मुच्येत तथा राजभयान्नरः ।। ।।३१६।।
क्षेमेण गच्छेदध्वानं तथानर्थविवर्जितः ।।
तैलेन स्नापितं देवं कुङ्कुमेनानुलेपयेत् ।। ३१७ ।।
रक्तैर्वस्त्रैः समभ्यर्च्य विद्रुमैश्च तथा नरः ।।
बन्धुजीवकपुष्पैश्च धूपेनागुरुजेन च ।। ३१६ ।।
तैलदीपेन वर्त्या च महारजतरक्तया ।।
द्राक्षापानकयुक्तेन वटकैः कृसरेण च ।। ३१९ ।।
पूजयेत्सर्वरक्ता स्याच्छत्रुपक्षक्षयङ्करी ।।
सौभाग्यजननी लोके धनधान्यविवर्द्धनी ।। 3.341.३२० ।।
स्वर्गदा फलदा चैव नरनारीवशङ्करी ।।
एवं दानफलं प्रोक्तं राजसानां मया द्विजाः।।३२१।।
अकामः सात्त्विके लोके यत्किञ्चिद्विनिवेदयेत् ।।
तेनैव स्थानमाप्नोति यत्र गत्वा न शोचति ।।३२२।।
धर्म वाचनिका मूढाः फलकामा नराधमाः ।।
येर्चयन्ति जगन्नाथं ते कामान्प्राप्नुवन्त्यथ ।। ३२३ ।।
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।।
अकामानां मनुष्याणां सात्त्विकानां द्विजोत्तमाः ।। ३२४ ।।
सर्वदुःखविमोक्षाय भवन्तीयमपि ध्रुवम् ।।
अनन्तो भगवान्विष्णुस्तस्य कामविवर्जितैः ।।। ।।३२५।।
यदेव दीयते किञ्चित्तदेवाक्षय्यमुच्यते ।।
पद्भ्यां प्रतीच्छते देवः सकामेन निवेदितम् ।। ३२६ ।।
मूर्ध्ना प्रपद्यते दत्तमकामेन द्विजोत्तमाः।।।
नैवेद्येनाथ पुष्पैर्वा विविधैर्धनसंचयैः ।। ३२७ ।।
नास्ति प्रयोजनं तस्य सर्वगस्यामितात्मनः ।।
भक्त्या प्रतीच्छते दत्तं भक्तानुग्रहकारणात् ।। ।। ३२८ ।।
तस्मात्सर्वास्ववस्थासु भक्तिरेवात्र कारणम् ।।
एकान्तभावोपगताः सर्वकामविवर्जिताः ।।३२९।।
वैष्णवं पदमासाद्य न निवर्तेत कर्हिचित्।।
न भयं नारकं तेषां न च व्याधिकृतं भयम्।।3.341.३३०।।
न वृत्तिशत्रुजं वापि ये प्रपन्ना जनार्दनम्।।३३१।।
निवेद्य भक्त्या मधुसूदनाय दुरच्छदं वाप्यथ तत्प्रसूनम् ।।
दूर्वाङ्कुरं वा सलिलं द्विजेन्द्राः प्राप्नोति लोकान्मनसा यथेष्टान् ।। ३३२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतासु दानधर्मनिरूपणो नामैकचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४१ ।।
3.342
ऋषय ऊचुः ।।
नमस्ते देवदेवेश वासुदेव जनार्दन ।।
भक्तानुकंप वरद पुण्डरीकाक्ष सुव्रत ।। १ ।।
ब्रह्मण्य पुरुषाचिन्त्य सृष्टिसंहारकारक ।।
त्रैलोक्यनाथ गोविन्द शरणागतवत्सल ।।। ।। २ ।।
सर्वेश सर्वगेशान सर्वव्यापिन्नमोस्तु ते ।।
नमोस्तु ते जगन्नाथ जगतामीश्वरेश्वर ।। ३ ।।
सुरार्तिहर देवेश पितामहहरस्तुत ।।
विष्णो जिष्णो हरे कृष्ण विभो सूर्येन्दुलोचन ।। ४ ।।
सहस्रसूर्यप्रतिम जगत्पालनतत्पर ।।
वराहनरसिंहाद्य वामनानंतविक्रम ।। ५ ।।
त्रिविक्रम क्रमाक्रांतब्रह्माण्डतटमण्डल ।।
चक्रधाराहताशेषदेवशत्रुगणेश्वर ।। ६ ।।
स्मृतिमात्रसमस्ताद्यविप्रनाशनकारक ।।
शास्त्रोपदेशादस्माकं हृदि स्थिततमोन्तक ।। ७ ।।
वैकुण्ठकुण्ठिताशेष दानवास्त्रबलानघ ।।
जठरान्तरसंलीन समस्तभुवनत्रय ।।८।।
शशाङ्कलेखासंकाश दंष्ट्रोद्धृतवसुंधर ।।
महावराह विध्वस्तहिरण्याक्षमहासुर ।। ९ ।।
दैत्येन्द्रवक्षोरुधिररक्तीकृतनखाङ्कुर ।।
ज्वालामालापरिक्षिप्तनरसिंहवपुर्धर ।। 3.342.१० ।।
लक्ष्मीकटाक्षविक्षेपशबलीकृतविग्रह ।।
कौस्तुभोद्भासितोरस्क तथा चामीकरांबर ।। ११ ।।
भोगिभोगासनासीन तार्क्ष्यप्रवरकेतन ।।
शशाङ्कशतसङ्काश सप्तकन्धर वेदप।।१२।।
मधुकैटभविध्वंसमेदोवर्धितभूतल ।।
नाभीसरोजसंभूतचतुर्मुख नमोस्तु ते ।।१३।।
सर्वतः पाणिपादान्त सर्वतोक्षिशिरोमुख ।।
सर्वेन्द्रियगुणोपेत सर्वत्र पुरुषोत्तम ।।१४।।
योगिनां त्वं परं चक्षुर्योगिनां त्वं गतिः परा ।।
योगिनस्त्वां च संप्राप्य निवर्तन्ते न कर्हिचित् ।।१५।।
नमस्ते पुरतो देव पृष्ठतश्च नमोस्तु ते ।।
तिर्यङ्नमोस्तु ते देव सर्वत्र च नमोस्तु ते।।१६।।
मार्कण्डेय उवाच ।।
एवं स्तुतः स भगवानृषिभिस्तैस्तदानघः।।
दिव्यं चक्षुर्ददौ तेषामृषीणां भावितात्मनाम् ।। १७ ।।
तेपश्यन्सकलं देहे तस्य त्रिभुवनं ततः ।।
हंसरूपधरस्याथ विष्णोरमिततेजसः। १८ ।।
विश्वरूपधरं हंसं दृष्ट्वा रूपं तपोधनाः ।।
मूर्धभिः प्रणता जग्मुस्ततः सर्ववसुंधराम् ।। १९ ।।
ततस्तानब्रवीत्सर्वान्देवो मधुरया गिरा ।।
मेघदुन्दुभिनिर्घोषः प्रणतार्तिविनाशनः।।3.342.२०।।
उत्तिष्ठत द्विजश्रेष्ठा वरं वरयतानघाः ।।
अमोघदर्शनं दृष्ट्वा समेता मनसेप्सितम् ।।२१।।
ऋषय ऊचुः ।।
नष्टो मोहः स्मृतिर्लब्धा ज्ञानं प्राप्तं जनार्दन ।।
विश्वरूपो भवान्दृष्टः किमन्येन वरेण नः ।। २२ ।।
तथापि यदि देवेश देयोऽस्माकं वरस्त्वया ।।
भक्तिर्भवतु निर्विघ्ना त्वयि नित्यं जनार्दन।।२३।।
त्वया सह च योस्माकं संवादमिममुत्तमम् ।।
पठेत्समस्तपापेभ्यो मोक्षस्तस्य तथा भवेत्।। २४ ।।
रोगाद्रोगी भयाद्भीतो बद्धो मुक्तस्तु बन्धनात् ।।
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।।२५।।
कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ।।
यश्चेदं धारयेद्विद्वान्स याति परमां गतिम् ।। २६ ।।
श्रवणादस्य शास्त्रस्य स्वर्गलोकं च गच्छति ।।
धन्यं यशस्यमायुष्यं पुत्रीयं सर्वकामदम् ।। ।।२७ ।।
पुण्यमस्तु तथैवैतच्छास्त्रं मधुनिषूदन ।।
विष्णोः प्रसादात्संवृत्ताच्छ्रुत्वैतच्छास्त्रमुत्तमम् ।।२८।।
शास्त्रात्समग्रादपि सारभूतं संवादमेतत्पुरुषोत्तमस्य ।।
द्विजोत्तमानां पुरुषस्त्वधीत्य कामानभीष्टान्मनसा लभेत ।। २९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मुनिदृष्टहंसविश्वरूपदर्शनो नाम द्विचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४२ ।। हंसगीता समाप्ता ।।
3.343
वज्र उवाच ।
अतीव सुमुखाराध्यो देवो विष्णुरुरुक्रमः ।।
स्तुतेन दर्शयामास विश्वरूपं द्विजन्मनाम् ।। १ ।।
प्रसादं परमं तस्य ब्रूहि भक्तजने मम ।।
तृप्तिं ब्रह्मन्न गच्छामि शृण्वन्नेतत्कथामृतम् ।। २ ।।
मार्कण्डेय उवाच ।।
स विधिज्ञो महाराज मातलिः शक्रसारथिः ।।
तस्यास्ति सदृशी कन्या गुणकाशीति विश्रुता ।। ३ ।।
मातलिर्नारदश्चैव अन्वेष्टुं तद्वनं पुरा ।।
चंक्रम्यमाणौ सकलमार्घकस्यात्मजात्मजम् ।। ४ ।।
सुमुखाख्यं ददृशतुस्तौ गृहीत्वा गतावुभौ ।।
नागे शक्रं ततः शक्रादयाचेतां तु तावुभौ ।। ५ ।।
सुमुखस्याभयं तार्क्ष्यात्तयोः शक्रो ददौ वरम् ।।।।
वीर्यज्ञस्तार्क्ष्यवीर्यस्य स ययौ केशवान्तिकम् ।। ६ ।।
सुमुखस्याभयं प्रादात्तार्क्ष्यं मधुनिषूदनः ।।
आजगाम ततस्तार्क्ष्यः सरोषः केशवान्तिकम् ।। ७ ।।
।। गरुड उवाच ।। ।।
किमवज्ञाय मां कृष्ण सुमुखे दीयते वरः ।।
मम पृष्ठगतः शत्रूंस्त्वं निहंसि च बुद्ध्यसे ।।
कुटुम्बाभरणं शत्रुं पन्नगं मम रक्षसि ।। ८ ।।
।। मार्कण्डेय उवाच ।। ।।
एवमुक्तस्तदा तेन विष्णुर्गरुडमब्रवीत् ।। ।। ९ ।।
न मे शक्तो जगद्वोढुं सकलं विहगेश्वर ।।
अहमेवात्मनात्मानं धारयामि रणेरणे ।। 3.343.१० ।।
शक्तिश्चेदस्ति वोढुं ते भुजमेकं वहस्व मे ।।
एवमुक्त्वा ददौ पृष्ठे तस्य सव्यं भुजं हरिः ।।११ ।।
ततो विषण्णवदनः पक्षत्यागात्खगोत्तमः ।।
क्लान्तो दीनश्च तुष्टाव देवेशं मथुसूदनम् ।। १२ ।।
।। ।। गरुड उवाच ।। ।।
नमस्ते देवदेवेश सुरासुरनमस्कृत ।।
अजेय पुण्डरीकाक्ष शरणागतवत्सल ।। १३ ।।
न मया त्वद्बलं ज्ञातमात्मसम्भावितात्मना ।।
त्वमेव देव त्रैलोक्यं सदा धारयसेऽनघ ।।१४।।
आत्मानमात्मना देव त्वमेव वहसे सदा ।।
यस्य ते देव सकलं देहे त्रिभुवनं स्थितम् ।। १५ ।।
तस्य वोढुं कथं शक्ता मद्विधा हि सहस्रशः ।।
तस्मात्प्रसीद भगवन्मम ध्वजनिवासिनः ।। १६ ।।
नास्त्यन्तस्तव देवेश कर्मणां भुवनत्रये ।।
कस्ते कीर्तयितुं शक्तः कर्माण्यनवशेषतः ।। १७ ।।
कर्मणां कीर्तनं वा ते का स्तुतिः परमेश्वर ।।
सर्वत्र सर्वशक्तिस्त्वं प्रसीद मम शत्रुहन् ।। १८ ।।
सर्वभूतकृतावास वासुदेव जगत्पते ।।
कल्पान्ताम्भोधिशयन नारायण महाद्युते ।। १९ ।।
नाभीकमलकिंजल्कपिञ्जरी कृतविग्रह ।।
प्रसीद मे नमस्तेऽस्तु पक्षिणो ध्वजवासिनः ।। 3.343.२० ।।
।। श्रीभगवानुवाच ।। ।।
आत्मसम्भावना तार्क्ष्य न कार्या ते कदाचन ।।
अहमेवात्मनात्मानं वहामि त्वां च धारये ।। २१ ।।
प्रीता न च त्वया भार्या यदपक्षः कृतो ह्यसि ।।
मया त्रिभुवनं न्यस्तं त्वदर्थमखिलं भुजे ।। २२ ।।
त्वया तुल्यो हि बलवाँल्लोकेऽन्यो नास्ति कश्चन ।।
यस्य दोर्दण्डसंस्पर्शाज्जीवितं न च निर्गतम् ।। २३ ।।
यद्वश्शरीरजो भूत्वा बलवान्खगसत्तम ।।
विशेषवन्तः पक्षांते भविष्यन्ति न संशयः ।। २४ ।।
।। मार्कण्डेय उवाच ।। ।।
एवमुक्तः सुपर्णस्तु सुपर्णान्प्राप्तवान्पुनः ।।
तेजोबलाधिकत्वं वा लेभे देवप्रसादतः।। २५ ।।
एवं पुरुषवत्तार्क्ष्यः स्तूयमानश्च शार्ङ्गिणम् ।।
भूय एव सुपर्णत्त्वं गमितोऽतिबलः कृतः ।। २६ ।।
शक्रयाचितमात्रेण सुमुखोऽप्यमरः कृतः ।।
तस्माद्राजन्विजानीहि तस्य दानवविद्विषः ।।२७।।
नास्त्यदेयं हि भक्तेषु देवराज्यमपि ध्रुवम् ।।
मृत्युपाशगृहीतानां पतनान्नरके तथा ।।
स्मृतमात्रः स देवेशस्तद्भयाद्विनिवर्तकः ।।२८ ।।
निहतसकलदुःखो भक्तिभाजां नराणां द्विज विबुधवराणां पूजनीयोऽरिहन्ता ।।
खगपनृपतियायी नीरसंजातवर्णो भवतु मधुरिपुस्ते भक्तिनम्रस्य तुष्टः ।। २९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुमुखोपाख्यानवर्णनो नाम त्रिचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ।। ३४३ ।।
3.344
।। वज्र उवाच ।।
श्रोतुमिच्छाम्यहं त्वत्तः प्रसादं परमं हि यत् ।।
कृतं भक्तजने तेन विष्णुना प्रभविष्णुना ।।१।।
मार्कण्डेय उवाच ।।
हते त्रिभुवने राजञ्शक्रस्य बलिना पुरा ।।
जगाम शक्रः शरणं कश्यपं पितरं ततः ।।२ ।।
कश्यपः शक्रमादाय जगामाथ पितामहम् ।।
तमाह वरदो ब्रह्मा गच्छ कश्यप केशवम् ।।३।।
क्षीरोदशायिनं देवं शरणं मधुसूदनम् ।।
तं च प्रार्थय पुत्रत्वे स ते पुत्रो भविष्यति ।।४।।
ततः स सर्वं त्रैलोक्यं देवराजस्य दास्यति ।।
एवं चोक्तः कश्यपस्तु सार्धं त्रिदशपुङ्गवैः ।। ५ ।।
क्षीराब्धिं स ततो गत्वा ददर्श तपसा हरिम् ।।
दृष्ट्वा स्तवेन तुष्टाव ततस्तस्य तदा हरिः ।। ६ ।।
प्रसन्नः पुत्रतामेत्य देवो वामनरूपधृक् ।।
त्रिभिर्न्नतैस्त्रिभुवनं सर्वमाक्रम्य विश्वधृक् ।। ७ ।।
प्रादाच्छक्राय राजेन्द्र बद्ध्वा दैत्येश्वरं बलिम् ।।
कश्यपेन स्तुतस्त्वेवं तस्य पुत्रत्वमागतः ।।८।।
वज्र उवाच ।।
स्तवेन येन तुष्टाव कश्यपो मधुसूदनम् ।।
तं स्तवं त्वं समाचक्ष्व सर्वपापहरं शिवम् ।। ९ ।।
मार्कण्डेय उवाच ।।
शृणु राजन्स्तवं पुण्यं कश्यपेन प्रकीर्तितम् ।।
क्षीरोदशयनाद्दृष्ट्वा देवदेवं समुत्थितम् ।। 3.344.१० ।।
कश्यप उवाच ।।
ओं नमोऽस्तु ते देवदेव एकशृङ्ग वृषार्चित सिन्धुवृक्ष वृषाकपे सुरप अनिन्दित भद्र कपिल विष्वक्सेन ध्रुव धर्म धर्मध्वज वैकुण्ठ वृषावर्त अनादिमध्यनिधन जनप्रिय वृष्णिज अमृतेशय सनातन त्रिधामन् त्रिधाम तुषित दुन्दुभे महतांलोक
लोकनाभे पद्मनाभ विरिञ्च बहुरूप अक्षणादक्षय हव्यभुक् खण्डपरशो चक्र मुण्डकेश हंस महादक्षिण हृषीकेश सूक्ष्म महामुनिस्तोम विरज स्तम सर्वलोकप्रतिष्ठ शिपिविष्ट अतपा अग्रज धर्मज धर्मनाभ गभस्तिनाभ चन्द्ररथ अपाप्मन् त्वमेव समुद्रवास अज एकपात् सहस्ररंभित महाशीर्ष सहस्रदृक् सहस्रपाद अयोमुख महापुरुष सहस्रबाहो सहस्रमूर्ते सहस्राक्ष सहस्रप्रभव सहस्रशस्त्वामाहुर्वेदविदो वेदविदम् ।। सर्वेषामेव विश्वत्वमाहुः पुष्पहास परमचरत्वमेव वौषट् वषटकार स्वाहा मखेषु भागाप्राशिनं शतधारं सहस्रधारं च भूर्वा भुवर्वा त्वमेव ब्रह्ममय ब्राह्मणेय ब्रह्मा दिशस्त्वमेव द्यौरसि पृथिव्यसि मातरिश्वासि होता पोता मन्ता नेता होम्यहेतुस्त्वमेवाग्र्य विश्वधाम्ना त्वमेव दिग्भिः स्रग्भाण्ड ईज्योऽसि समाधासि सेमिंधिस्त्वमेव गतिर्मतिमतामसि योगोऽसि मोक्षोऽसि परमसि स्रुगसि धातासि यज्ञोऽसि सोमोऽसि धूमोऽसि दीक्षासि दक्षिणासि विश्वमसि स्थविर तुराषाड् हिरण्यगर्भ नारायण अनंत वृणसमे आदित्यवर्ण आदित्यतेजाः महापुरुष पुरुषोत्तम आदिदेव पद्मनाभ पद्महास पद्मशय पद्माक्ष हिरण्याग्रकेश शुक्ल विश्वात्मन्विश्वदेव विश्वतोमुख विश्वास्य विश्वसम्भव विश्वभुक्त्वमेव भुविकम अतिभूः प्रभाकर शम्भुः भवःस्वयम्भू भूतादिः महाभूत विश्वग विश्वं त्वमेव विश्वगोप्तासि पवित्रमसि हविः विश्वधात ऊर्ध्वकर्म अमृतत्त्वाग्र भुवःपात घृताक्त अग्ने द्रुहिण अनन्तकर्मन्वशं प्राग्यं विश्वपार्श्व पार्श्व त्वमेव विश्व वरार्थिनस्त्राहीति ।।
स्तोत्रेण यः काश्यपनिर्मितेन स्तोत्रं सदा देववरस्य कर्ता ।।
काल्यं शुचिस्तद्गतमानसेन गन्ता स लोकान्पुरुषोत्तमस्य ।। ११ ।।
इति श्रीविष्णु धर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे कश्यपस्तोत्रवर्णनो नाम चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४४ ।।
3.345
।। वज्र उवाच ।। ।।
प्रसादं परमं तस्य केशवस्य महात्मनः ।।
ब्रूहि भक्तजने मह्यं देवदेवस्य चक्रिणः ।। १ ।।
न हि तृप्याम्यहं तस्य शृण्वानः श्रवणामृतम् ।।
हस्तत्राणप्रदो लोके य एकः पततां नृणाम् ।। २ ।।
।। मार्कण्डेय उवाच ।। ।।
देवाश्च ऋषयश्चैव विवदन्तः पुरानघ ।।
बीजैर्यष्टव्यमित्येतत्त्रिवर्षपरमोषितैः ।। ३ ।।
अजसंज्ञानि बीजानि छागं घ्नन्तुमथार्हसि ।।
पक्षोऽयमासीद्धर्मज्ञ ऋषीणां भावितात्मनाम् ।। ४ ।।
देवानां तु पशुः पक्षस्ततो मार्गागतोभवत् ।।
राजोपरिचरो नाम वसुर्वसुमतां वरः ।। ५ ।।
देवाश्च ऋषयश्चैव पपृच्छन्तस्तदा वसुम् ।।
यथोपनीतैर्यष्टव्यमित्युक्तं वसुना पुरा ।। ६ ।।
गतेनानृतवाक्येन राजा हिंसाप्रवर्तिना ।।
नित्यमाकाशगो भूत्वा भूमेर्विवरगोभवत् ।। ७ ।।
भूमेर्विवरगस्याथ देवपक्षार्थवादिनः ।।
निधनार्थं मतिं चक्रुर्देवभक्तस्य दानवाः ।। ८।।
तेषां चिकीर्षितं श्रुत्वा देवाः शीघ्रपराक्रमाः ।।
न्यवेदयँस्तथा चक्रं देवाचार्ये बृहस्पतौ ।। ९ ।।
बृहस्पतिस्ततो गत्वा भूमेर्विवरगं नृपम् ।।
रक्षामध्यापयामास वैष्णवीमपराजिताम् ।। 3.345.१० ।।
भूतभव्यभविष्याणां कर्मणामनु कीर्तनैः ।।
निर्मिता ब्रह्मणा विद्या सर्वबाधाक्षयङ्करी ।।
अध्याप्य तं च राजानमिदमाह बृहस्पतिः ।। ११ ।।
बृहस्पतिरुवाच ।।
इहस्थो भोक्ष्यसे राजन्वसोर्धारां हुतां द्विजैः ।।
देवतानां प्रसादेन तया चाप्यायितः सदा ।। १२ ।।
विद्यया चानया राजन्नवध्यस्त्वं भविष्यसि ।।
भूमेर्विवरसंस्थोऽपि दैत्यदानवराक्षसान् ।।
एवमुक्त्वा स राजानं तत्रैवान्तरधीयत ।। १३ ।।
वज्र उवाच ।।
रक्षां तु तां मे कथय द्विजेन्द्र कृता तु या देव पुरोहितेन ।।
राज्ञो वसोर्भूमिबिलस्थितस्य रक्षा हि साग्र्या परमा मता मे ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे भूविवरस्थितराज्ञो रक्षावर्णनो नाम पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४५ ।।