विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३४६-३५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ३४१-३४५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३४६-३५०
वेदव्यासः
अध्यायाः ३५१-३५५ →

3.346
।। मार्कण्डेय उवाच ।। ।।
ॐनमो भगवते वासुदेवाय नमोऽनन्ताय सहस्रशीर्षाय क्षीरोदार्णवशायिने शेषभोगपर्यङ्काय गरुडवाहनाय अजाय अजिताय पीतवाससे वासुदेव सङ्कर्षण प्रद्युम्न अनिरुद्ध हयशिरो वराह नरसिंह वामन त्रिविक्रम राम राम राम नमोऽस्तु ते नमोऽस्तु ते नमोऽस्तु ते ।।
असुरवरदैत्यदानवयक्ष राक्षसभूतप्रेतपिशाचकुम्भाण्डसिद्धयोगिनीडाकनी स्कन्दपुरोगान्ग्रहान्नक्षत्रग्रहाँश्चान्यान्हन हन पच पच मथ मथ विध्वंसय विध्वंसय विद्रावय विद्रावय शंखेन चक्रेण वज्रेण गदया मुसलेन हलेन भस्मीकुरु सहस्रबाहो स्रहस्रप्रहरणायुध जय जय विजय विजय अपराजित अप्रतिहतनेत्र ज्वल ज्वल प्रज्वल प्रज्वल विश्वरूप बहुरूप मधुसूदन महावराह महापुरुष वैकुण्ठ नारायण पद्मनाभ गोविन्द दामोदर हृषीकेश केशवः सर्वासु रोत्सादन सर्वभूवशंकर सर्वदुःस्वप्नप्रभेदन सर्वयन्त्रप्रभञ्जन सर्वनागमर्दन सर्वदेवमहेश्वर सर्वबन्धविमोक्षण सर्वाहितमर्दन सर्वज्वरप्रणाशन सर्वग्रहनिवारण सर्वपापप्रशमन जनार्दन नमोऽस्तु ते स्वाहा ।।
य इमामपराजितां परमवैष्णवीं सिद्धां महाविद्यां जपति पठति शृणोति स्मरति धारयति कीर्तयति वा न तस्याग्निवायुवज्रोपलाशनि वा भयम् ।
न समुद्रभयं न ग्रहभयम् ।
न चौरभयम् ।
श्वापद भयं वा न भवेत् ।
क्वचिद्रात्र्यन्धकारस्त्रीराजकुलविद्वेषविषोपविषगरदवशीकरणं विद्वेषणं विद्वेषणोच्चाटनवधबंधनभयं वा न भवेत् ।
एतैर्मंत्रैरुदाहृतैः सिद्धैः संसिद्धपूजितैः ।
तद्यथा
ॐनमोऽस्तु ते अनघे अजिते अमिते अमृते अपराजिते पठितसिद्धे स्मरातिसिद्धे एकानंशे उमे ध्रुवे अरुन्धति सावित्रि गायत्रि जातवेदसि मानस्तोके सरस्वति धरणि धारणि सौदामनि अदिति दिति विनते गौरि गान्धारि मातंगि कृष्णयशोदे सत्यवादिनि ब्रह्मवादिनि कालि कापालि निद्रे सत्योपयानकरि स्थलगतं जलगतमन्तरिक्षगतं वा रक्ष रक्ष सर्वभूतेभ्यः ।
सर्वोपद्रवेभ्यः स्वाहा ।
यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ।।
म्रियन्ते बालका यस्याः काकवन्ध्या च या भवेत् ।। १ ।।
शस्त्रं धारयते ह्येषां समरे काण्ड दारुणि ।।
गुल्मशूलाक्षिरोगाणां क्षिप्रं नाशयति व्यथाम् ।।
शिरोरोगज्वराणां च नाशनी सर्वदेहिनाम् ।। २ ।।
तद्यथा हनहन कालं सर सर गौरि गौरि धम धम विद्ये अलिताले माले गन्धे बन्धे पच पच विद्ये नाशय वा संहर दुःस्वप्नं विनाशय नाशनि रजनि सन्ध्ये दुन्दुभिनादे मानसवेगे शंखिनि वज्रिणि चक्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रावडि द्रावडि केशवदयिते पशुपतिसहिते दुन्दुभिदमनि शबरि किराति । मातंगि ॐ द्रौंद्रौं ज्रों ज्रों क्रों क्रों तुरु तुरु येषां द्विषन्ति प्रत्यक्षं परोक्षं वा सर्वान्दम दम मर्द मर्द तापय तापय गोपय गोपय उत्सादय उत्सादय ब्रह्माणि महेश्वरि वराहि वैनायिकि उपेन्द्रि आग्नेयि चामुण्डे वारुणि वायव्ये रक्ष रक्ष प्रचण्डविद्ये ॐइन्द्रो पेन्द्रभगिनि विजये शान्तिस्वस्तिपुष्टिविवर्द्धनि कामांकुशे कामदुघे सर्वकामवरप्रदे सर्वभूतेषु मां प्रियं कुरु कुरु । आकर्षणि आवेशनि ज्वालामालिनि शोषणि सम्मोहनि नीलपताके ।
महानीले महागौरि महाश्री महाचान्द्रि महासौरि महामायूरि आदित्यरश्मि जाह्नवि यम घण्टे किणिकिणि चिन्तामणि सुरभि सर्वासुरोत्पन्ने सर्वकामदुघे यथामनीषितं कार्यं तन्मम सिद्ध्यतु स्वाहा ॐ स्वाहा ॐ भूः स्वाहा ॐ भुवः स्वाहा ॐस्वः स्वाहा ॐभूर्भुवःस्वःस्वाहा ।
यत्रैवागतं पापं तत्रैव प्रतिगच्छतु स्वाहा ।
ॐबले महाबले असिद्धसाधनि स्वाहेत्योम् ।
अमोघां पठितसिद्धां वैष्णवीमपराजितां ध्यायेत् ।।
मार्कण्डेय उवाच ।।
एवं हि कृतरक्षस्य वसुधारामुपाश्नतः ।।
वसोर्वसुमतीगर्ते तिष्ठतो दनुनन्दनाः ।। १ ।।
आजग्मुर्विविधाकाराश्चतुरङ्गबलान्विताः ।।
नानाप्रहरणा दग्धा भीमवाचः सदारुणाः ।। २ ।।
आगम्य वाग्भिरुग्राभिस्तर्जयन्तश्च ते वसुम् ।।
निर्जघ्नुरायुधैर्भीमैर्देवपक्षपरं सदा ।। ३ ।।
न च तेऽस्य रुजं चक्रुर्न च तानप्युदीक्षिता ।।
चिन्तयामास देवेशं मनसा मधुसूदनम् ।। ४ ।।
ततो निष्फलयत्नास्ते दृष्ट्वा तन्महदद्भुतम् ।।
जग्मुः सर्वे गृहानेव विलक्षा दैत्यदानवाः ।। ५ ।।
तेषु निष्फलयत्नेषु देवो गरुडमब्रवीत् ।।
गत्वा गरुडराजानं वसुं शीघ्रमिहानय ।। ६ ।।
एवमुक्तः स गरुडो देवदेवेन चक्रिणा ।।
पक्षवातार्णवक्षोभक्षुब्धयादोगणो ययौ ।। ।। ७ ।।
ददर्श च भुवो गर्ते ध्यानसंमीलितेक्षणम् ।।
वसुराजोऽपि गरुडं ददर्श हरिवाहनम् ।। ८ ।।
स दृष्ट्वा गरुडं प्राप्तं कृष्णभक्तिसमन्वितम् ।।
तुष्टाव गरुडं वाग्भिरर्थ्याभिरमितक्रियः ।। ९ ।।
।। वसुरुवाच ।। ।।
नमस्यामि महाबाहुं खगेन्द्रं हरिवाहनम् ।।
विष्णोर्ध्वजाग्रसंस्थान वित्रासितमहासुर ।। 3.346.१० ।।
नमस्ते नागदर्पघ्न विनतानन्दवर्धन।।
स्वपक्षवातनिर्धूतदीनदैत्यनिरीक्षित।। ११ ।।
परस्परस्य शापेन सुप्रतीक विभावसो ।।
गजकच्छपतां प्राप्तौ तावुभौ वैरसंयुतौ ।।१२।।
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः।।१३।।
नखस्थौ तौ त्वया नीतौ हतौ भुक्तौ च पक्षिप ।।
परस्परकृतोच्छ्रायौ द्वारौ च परिमोक्षितौ ।।१४।।
निषादविषयं भुक्तं तत्र कूरमनिन्दितम् ।।
निषादीशस्ततो मुक्तस्तत्रापि ब्राह्मणस्त्वया ।।१५।।
त्वया रोहिणिवृक्षस्य योजनानां शतायता।।
शाखाभिन्नाः स्थिता यत्र वालखिल्याः सहस्रशः।।१६।।
ताँस्तु वक्त्रगतान्कृत्वा नखस्थैर्गजकच्छपैः ।।
नभस्येव निरालम्बे सर्वतः परिवारितः।।१७।।
त्वया जित्वा रणे सर्वान्देवाञ्शक्रपुरोगमान् ।।
आहतं तु परं सोमं वह्नेर्वाप्यथ काश्यप ।।१८।।
नागौ दृष्टिविषौ कृत्वा रजसा भुवि चक्षुषोः।।
जिह्वाग्रनित्यगं भुञ्जञ्चक्रे तौ देवनिर्मितौ ।।१९।।
आहृत्यापि त्वया सोमं नीतमेव न भक्षितम् ।।
तेन विष्णोर्ध्वजस्थाने वाहनत्वं गतो ह्यसि ।।3.346.२०।।
त्वया निक्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः ।।
जहार सहसा यत्र तच्छीघ्रं बलसूदनः ।। २१ ।।
यत्र जिह्वा द्विधाभूता पन्नगानां द्विजोत्तमाः ।।
विनता मोचिता दास्यात्कद्र्वा पूर्वं जिता पणे ।। २२ ।।
उच्चैःश्रवास्तु किंवर्णः शुक्ल इत्येव भाषती ।।
कृष्णवालमहं मन्ये पुच्छं दृष्ट्वैव वाक्छलात् ।। २३ ।।
त्वया वज्रप्रहारेण पक्षयुक्तं पुरा स्वयम् ।।
दधीचिवज्रशक्राणां माननार्थाय नान्यथा ।।२४।।
तस्य पक्षस्य देवेन्द्रो यदा नान्तं हि दृष्टवान् ।।
तदा तव सुपर्णेति नाम ख्यातं जगत्त्रये ।। २५ ।।
तेजसा भास्करं देवं जवेन च समीरणम् ।।
न ते तुल्यो महाभाग नागपक्षक्षयङ्कर ।। २६ ।।
ध्यानमात्रे त्वयि विभो विश्वं स्थावरजङ्गमम् ।।
क्षिप्रं प्रणाशमायाति तथा सर्वभयानि च ।। २७ ।।
स्वकया पक्षनाड्या त्वं ब्रह्माण्डं सकलं वहन् ।।
नोपयासि प्रभो खेदं यथा देवो जनार्दनः ।। २८ ।।
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः ।।
त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ।। २९ ।।
बलोर्मिमान्साध्वरदीनसत्त्वः समृद्धिमान्दुष्प्रसहस्त्वमेव ।।
तपः श्रुतं सर्वमहीनकीर्तिरनागतादीन्विषयांश्च वेत्सि ।। 3.346.३० ।।
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभासे ।।
समाक्षिपन्भानुसुतप्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुव ।। ३१ ।।
दिवाकरः परिक्रमति यथा दहन्प्रजास्तथा दहसि हुताशनप्रभ ।।
भयङ्करः प्रलय इवाग्निरुत्थितो विनाशयत्युरगपरिवर्तपान्तकृत् ।। ३२ ।।
खगेश्वरं शरणमुपागतोस्म्यहं महौजसं वितिमिरभ्रगोचरम् ।।
महाबलं गरुडमुपेत्य खेचरं महौजसं वरदमजेयमक्लमम् ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे गरुडस्तोत्रं नाम षट्चत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४६ ।।
3.347
मार्कण्डेय उवाच ।।
स्तुतस्तु गरुडो राज्ञा पृष्ठमारोप्य पार्थिवम् ।।
दर्शयामास देवस्य विष्णोरमिततेजसः ।। १ ।।
स दृष्ट्वा देवदेवेशं प्रणतार्तिविनाशनम् ।।
तुष्टाव भक्त्या राजेन्द्र देवेशमपरा जितम् ।। २ ।।
।। वसुरुवाच ।। ।।
नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ।।
दैत्यदानवदर्पघ्न प्रणतार्तिविनाशन ।। ३ ।।
कामकामद कामघ्न विश्वयोने जगत्पते ।।
महामूर्तिनिशोत्थस्य तमसः प्रविनाशन ।। ४ ।।
न ते विदुः सुरगणाः प्रभवं न महर्षयः ।।
आदिस्त्वं सर्वधर्माणामृषीणां च जगद्गुरो ।। ५ ।।
सूक्ष्मस्त्वं सर्वभूतेभ्यो महद्भ्यश्च महत्तरः ।।
दूरगस्त्वं महाभाग सर्वेषामपि चागतः ।। ६ ।।
सर्वभूतान्तरस्थोऽपि कर्मभिर्न च लिप्यसे ।।
अशरीरः शरीरस्थः सर्वभूतेष्ववस्थितः ।। ७ ।।
पुरुषस्त्वं त्वमव्यक्तस्त्वमात्मा बुद्धिरेव च ।।
महाभूतानि भगवस्त्वं तथैवेन्द्रियाणि च ।। ८ ।।
योगिभिर्मृष्यसे योगज्ञानज्ञेयपुरातन ।।
ये त्वां भजन्ति ते यान्ति भगवन्परमां गतिम् ।। ९ ।।
जयमनघमजेयं विश्वगं देवदेवं त्रिदशरिपुविनाशे नित्यमुद्युक्तशक्तिम् ।।
द्विजसुरवरवन्द्यं नाशनं कल्मषाणां शरणमुपगतोऽहं वासुदेवं शरण्यम् ।। 3.347.१० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कडेयवज्रसंवादे वासुदेवस्तोत्रं नाम सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः ।। ३४७ ।।
3.348
।। मार्कण्डेय उवाच ।।
वसुना वसुवेशेन वाग्मिना विष्णुरीडितः ।।
उवाच प्राञ्जलिं प्रह्वं पार्थिवं पुरतः स्थितम्।।१।।
वासुदेव उवाच ।।
नानृतं नृप वक्तव्यं प्राणैः कण्ठगतैरपि ।।
धर्मप्रश्नो न वक्तव्यस्तथैकेन विशेषतः ।। २ ।।
बहुज्ञेनापि धर्मज्ञ धर्मकामेन कर्हिचित् ।।
दुर्विज्ञेयास्तथा धर्माः सूक्ष्मा राजन्दुरन्वयाः ।। ३ ।।
तस्मान्नैकेन वक्तव्याः कदाचिदपि जानता ।।
उक्तानृतं महत्प्राप्तं त्वया कृच्छ्रं नराधिप ।। ४ ।।
गतिभ्रंशस्तथैवाप्ता देवयज्ञार्थवादिना ।।
मम भक्तोऽसि सततं तेन ते निष्कृतिः कृता।।५।।
कालेनाल्पेन कल्पेन या न शक्या सुरासुरैः ।।
गच्छ पालय राज्यं त्वं तथैवाविचलो भव ।। ६ ।।
नावमानं त्वया कार्यं ब्राह्मणानां कथञ्चन ।।
ब्राह्मणो हि महद्भूतं विज्ञेयं दैवतं परम् ।। ७ ।।
मार्कण्डेय उवाच ।।
एवमुक्त्वा वसुं विष्णुस्तत्रैवादर्शनं गतः ।।
तार्क्ष्येण सहितो राजन्विस्मितश्चाभवद्वसुः।।८।।
राज्यं चावाप भूयोऽपि खेचरत्वं तथैव च।।
ततः सभाजितश्चापि देवैः सर्वैः समागतैः ।। ९ ।।
एवं स देवेन हि भक्तियुक्तो रसातलस्थो वसुधाधिपेशः ।।
भयात्सुघोरात्प्रविमुच्य युक्तो राज्येन गत्वा नभसस्तथैव ।। 3.348.१० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसूपाख्यानं नामाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ।।३४८।। ।।
3.349
।। वज्र उवाच ।। ।।
विश्वरूपं समाचक्ष्व देवदेवस्य चक्रिणः ।।
कस्य तूद्दर्शितं तेन भृगुवंशविवर्धन ।। १ ।।
मार्कण्डेय उवाच ।।
एकान्तभावनाभक्तैर्दृष्टानि बहुशः पुरा ।।
विश्वरूपाणि देवस्य यान्यशक्यानि भाषितुम् ।। २ ।।
वासुदेवप्रसादेन न भवेद्दिव्यदर्शनः ।।
विश्वरूपधरं द्रष्टुं तावच्छक्तिर्न विद्यते ।। ३।।
तत्र यद्दर्शितं चैव नारदस्य पुरानघ ।।
तत्तेऽहं संप्रवक्ष्यामि विश्वदेवेन विष्णुना ।। ४ ।।
नारदः सुमहद्भूतं नरनारायणाश्रयम् ।।
बदर्याश्रममित्युक्तं जगामातिमनोहरम् ।। ५ ।।
चतुरात्मा हरिर्यत्र धर्मपुत्रत्वमागतः।।
हरिः कृष्णो नरश्चैव तथा नारायणः प्रभुः ।। ६ ।।
हरिः कृष्णः स्थितो वृत्ते तदा लोकान्तरे किल ।।
नरनारायणौ देवौ तपस्युग्रे तथा रतौ ।। ७ ।।
अष्टचक्रे स्थितौ याने भूतियुक्ते मनोहरे ।।
एकपादौ निरालम्बौ तथैवोर्ध्वभुजावुभौ ।। ८ ।।
ददर्श नारदस्तत्र तावुभौ दीप्ततेजसौ ।।
अभिवाद्य गतौ देवौ तयोस्तु पुरतः स्थितः ।। ९ ।।
पाद्यार्घाचमनीयाद्यैः पूजितः संस्तदा द्विजः ।।
नरनारायणाभ्यान्तु तत्रोवास तदाश्रमे ।। 3.349.१० ।
आश्रमस्थः स विप्रेन्द्रः कदाचिद्देवसत्तमौ ।।
ददर्श विघ्नं कुर्वाणौ देवकर्म तथानघौ ।।११।।
ततः कृताह्निको प्राह नारदस्तौ जगद्गुरू ।।
भवन्तौ जगतां नाथौ भवन्तौ परमेश्वरौ ।।१२।।
आराधनार्थं कस्येह तपस्यभिरतावुभौ ।।
भवद्भ्यामर्च्यते कश्च दैवे पित्र्ये च कल्प्यते ।।१३।।
प्रकृतिर्या परास्माकं यतः सर्वस्य संभवः ।।
मर्यादादर्शनार्थाय नवं तमपराजितम् ।। १४ ।।
पूजयामः सदा ब्रह्मन्दैवे पित्र्ये च कल्पिते ।।)
विप्रान्देव गुरून्गाश्च पितॄंश्चैव जगत्त्रये ।। १५।।
येऽर्चयन्त्यर्चयन्त्येव तं देवं परमेश्वरम् ।।
योऽयमप्यर्चयेद्देवं तेन स्यात्पूजितो हरिः ।।१६।।
विधिहीनं महाभाग स हि सर्वगतो यतः ।।
देवस्यान्यस्य यच्चार्चां कर्त्तुकामोऽर्चयेद्धरिम् ।। १७ ।।
तेन तस्य कृतार्चा स्याद्द्विजश्रेष्ठ विधानतः ।।
देवे यस्मात्सुराः सर्वं त्रैलोक्यमपि यद्गतम् ।।१८।।
कृता त्रैलोक्यपूजा स्याद्विष्णुपूजाविधायिना ।।
नास्ति लोकेषु तद्ब्रह्म यत्र नास्ति जनार्दनः ।।११।।।
न तदप्यस्ति लोकेषु यन्न विष्णौ प्रतिष्ठितम् ।।
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।।3.349.२०।।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ।।
क्षीरोद मध्ये द्वीपोऽस्ति वहुयोजनविस्तृतः ।।२१।।
तत्र ते पुरुषाः श्वेताः शशाङ्कसमतेजसः ।।
उपेताश्च तथा सर्वे चक्रवत्युपलक्षणैः ।। २२।।
पञ्चरात्रविधानज्ञाः पूजयन्ति सदा हरिम् ।।
मायादेहमथास्थाय देवोऽपि मधुसूदनः ।।२३।।
तत्पूजां प्रतिगृह्णाति शिरसा सततं हरिः ।।
तैस्सार्धं रमते नित्यं तैश्च संपूज्यते सदा ।।२४।।
एकान्तभावोपगता ये भवन्तीह मानवाः ।।
अकामाश्च जगन्नाथमर्चयन्ति सदा च ये ।। २५ ।।
ते यान्ति देहमुत्सृज्य तदद्वीपं श्वेतसंज्ञितम् ।।
अनिष्यन्दा निराहाराः सर्वज्ञाः सर्वदर्शिनः।।२६।।
सर्वेश्वरा नित्यतृप्ताः परं सुखमुपागताः ।।
पूजयन्ति हरिं तत्र दिव्यं वर्षशतं पुनः ।।२७।।
ततोऽर्कमण्डलं भित्त्वा अनिरुद्धं विशन्ति ते ।।
ब्रह्मँस्तपोभिः प्रद्युम्नं ततः संकर्षणं प्रभुम्।।२८।।
वासुदेवं ततः प्राप्य तेनैव सदृशास्ततः ।।
भवन्ति सर्वे सर्वत्र सर्वदा सर्वशक्तयः ।। २९ ।।
मुक्ताश्च सर्वदुःखेभ्यः परं सुखमुपागताः ।।
स त्वं शीघ्रमितो गत्वा श्वेतद्वीपनिवासिनः. ।।3.349.३०।।
पश्य त्वं पुरुषान्ब्रह्मन्प्रसन्नः स विभुस्तव ।।
दर्शयिष्यति रूपं तु त्रैलोक्याद्भुतमद्भुतम् ।।३१।।
विश्वं ब्राह्मणशार्दूल प्रीतं मधुनिषूदनम् ।।
एकतश्च द्वितश्चैव त्रितश्चैव महातपाः ।। ३२ ।।
तं तु देशं गता ब्रह्मन्न तैर्दृष्टो जनार्दनः ।।
एकान्तभावोपगतास्तेन यस्माज्जगद्गुरोः ।। ।। ३३ ।।
केवलं तैः श्रितः श्लोकः श्वेतद्वीपनिवासिभिः ।।
उदीरितो महाभागैः सर्वकल्मषवर्जितैः ।। ३४ ।।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।। ३५ ।।
श्लोकमेतं तु ते श्रुत्वा श्रुतवन्तस्तथा गिरम् ।।
अशरीरां महाभाग सर्वभूतावहां हरेः ।। ३६ ।।
श्वेतद्वीपमथासाद्य मृत्युमाप्नोति कर्हिचित् ।।
श्वेतद्वीपे गतिर्नास्ति विना चैकान्तिभिर्द्विजाः ।। ३७ ।।
सामन्यभावना भक्ता भवन्तश्च तपोधनाः ।।
तपसोग्रेण संयुक्तास्तेन मे देशमागताः ।। ३८ ।।
सामान्यभक्तिसत्त्वाश्च पुनर्व्रजत मा चिरम ।।
भवद्भिः पुरुषा दृष्टाः श्वेतद्वीपनिवासिनः ।। ३९ ।।
एभिः श्लोकैस्तथा दृष्टो भवतीति जनार्दनः ।।
एकान्तभावनासक्तैः श्लोकैस्तु पुरुषैरिमम् ।। 3.349.४० ।।
जप्तव्यं सततं विप्रास्ततः पुनरिहेष्यथ ।।
श्लोकोऽयं पावनः पुण्यः सर्वाघविनिषूदनः ।। ४१ ।।
श्लोकैर्भावेन कर्तव्यौ जपहोमौ विजानता ।।
धूपदीपान्नपुष्पाणां तथैव च निवेदनम् ।। ४२ ।।
श्लोकमेतं पठेद्विप्रा नमस्कारे प्रदक्षिणे ।।
स्नानमेतेन कर्तव्यं तथा चान्ते जलं द्विजाः ।। ।। ४३ ।।
सर्वपापहरं पुण्यं मोक्षदं सर्वकामदम् ।।
श्लोक एष विनिर्दिष्टः सर्वकामप्रदः शिवः ।। ४४ ।।
आपत्प्राप्तेन जप्तव्यं तन्मोक्षार्थं तथैव च ।।
एतस्य जापः कर्तव्यो नित्यमेव विजानता ।। ४५ ।।
एतस्य जापात्पुरुषः सर्वान्कामानुपाश्नुते ।।
एतां श्रुत्वा तु ते वाणीं चागता मगधाः पुनः ।। ४६ ।।
दृष्टवन्तो वसुं तत्र यजमानं महीपतिम् ।।
याजको यस्य धर्मात्मा देवाचार्यो बृहस्पतिः ।। ४७ ।।
अदृश्येन हृतो भागस्तत्र देवेन विष्णुना ।।
जगृहुर्देवताः सर्वा दृश्यभागात्पुरोधसः ।। ४८ ।।
विष्टं प्रति गतक्रोधं देवाचार्यं बृहस्पतिम् ।।
एकतश्च द्वितश्चैव त्रितश्चैवमवोचतम् ।। ४९ ।।
अदृश्यः सर्वदेवानां तं कथं द्रष्टुमिच्छसि ।।
इत्येवमनुनीतस्तु देवाचार्यो बृहस्पतिः ।। 3.349.५० ।।
समापयामास तदा तं यज्ञं पार्थिवस्य च ।।
एकान्तभावोपगता ऋषयोऽपि जनार्दनम् ।। ५१ ।।
आगता देवकार्यार्थं श्वेतद्वीपात्पुरा द्विज ।।
श्वेतद्वीपं पुनः प्राप्तं पुनरावृत्तिदुर्लभम् ।। ५२ ।।
तस्मात्तं देवदेवेशं तत्रस्थं पश्य नारद ।।
त्वयापि देवकार्याणि कर्तव्यानि बहून्यथ ।। ५३ ।।
श्वेतद्वीपगतस्यापि तेन ते द्विज साम्प्रतम् ।।
न भविष्यति लोकेषु गतिर्निर्वाणकारिणी ।।
कल्पावसाने तु गतिं तां त्वं विप्र गमिष्यसि ।। ५४ ।।
मार्कण्डेय उवाच ।।
एवमुक्तस्ततः शीघ्रं मनोमारुतरंहसा ।।
अभिवाद्याथ तौ देवौ तं द्वीपं नारदो गतः ।। ५५ ।।
स तत्र गत्वा ददृशे श्वेतद्वीप निवासिनः ।।
पूजयामास शिरसा तांश्च भक्त्या स नारदः ।। ५६ ।।
प्राप्य श्वेतं महाद्वीपं नारदो हृष्टमानसः ।।
ददर्श तानेव नराञ्श्वेताञ्चन्द्रप्रभाञ्छुभान् ।। ५७ ।।
पूजयामास शिरसा मनसा तैस्तु पूजितः ।।
दिदृक्षुर्जाप्यपरमः सर्वकृच्छ्रधरः स्मृतः ।। ५८ ।।
भूत्वैकाग्रमना विप्रश्चोर्ध्वबाहुर्महाभुजः ।।
स्तोत्रं जगौ स विश्वाय निर्गुणाय गुणात्मने ।। ५९ ।।
वासुदेवाय शान्ताय तथा विश्वसृजे द्विज ।।
अनन्तायाप्रमेयाय सर्वगायातिरंहसे ।। 3.349.६० ।।
अमितबलपराक्रमाय तस्मै त्रिदशमुनिप्रतिपूजिताय नित्यम् ।।
भवभवभरनाशनाय विष्णोः प्रणतजन प्रतिपापनाशनाय ।। ६१ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे श्रीनारदस्य श्वेतद्वीपगमनवर्णनो नामैकोनपञ्चाशदधिक त्रिशततमोऽध्यायः ।। ३४९ ।।
3.350
नारद उवाच ।।
नमोऽस्तु ते देवदेव निष्क्रिय निर्गुण लोकसाक्षिन् ।।
क्षेत्रज्ञः अनन्तपुरुषः महापुरुष! त्रिगुण प्रधान, अमृत, व्योम, सनातन, सदसद्व्यक्ताव्यक्त, ऋतधाम, पूर्व, आदिदेव, सुप्रजापते, महाप्रजापते, ऊर्जस्पते, वाचस्पते, वानस्पते, मनःपते, मरुत्पते, जगत्पते, पृथिवीपते, दिक्पते, सलिलपते, पूर्वनिवास, ब्रह्मपुरोहित, ब्रह्मकायिक, राजिक, महाराजिक, चातुर्महाराजिक, आभास्वर, महाभास्वर, सप्तमहाभास्वर, याम्य, महायाम्य, संज्ञासंज्ञ, तुषित, महातुषित, प्रतर्दन, परिनिर्मितवशवर्तिन्, अपरिनिर्मित वशवर्तिन्, यज्ञ, महायज्ञ, यज्ञसम्भव, यज्ञयोने, यज्ञवाह, शतमुखः यज्ञहृदय, यज्ञभागहर, यज्ञस्तुत, पञ्चयज्ञ, चर, पञ्चकाल, त्रिगते, पाञ्चरात्रिक, वैकुण्ठ, अपराजित, नावमिक, परमस्वामिन्, सुस्नातः, हंस, महाहंस, परमयाज्ञिक, सांख्ययौगिक, अमृतेशय, हिरण्येशय, वेदशय, कुशेशय, ब्रह्मशय, पद्मेशय, विश्वेश्वर, त्वं जगन्मयः, त्वं जगत्प्रकृतिः, त्वं चाग्नेरास्यं, त्वं वडवामुखोऽग्निः, त्वमाहुतिः, त्वं सारथिः, त्वं वषट्कारः, त्वमोङ्कारः, त्वमन्नः, त्वमन्नादः, त्वं चन्द्रमाः, त्वं सूर्यश्चक्षुराद्यः, त्वं दिग्गजः, दिग्भानो, विदिग्भानो, हयशिराः, प्रथमन्, त्रिसौ वर्णधर, पञ्चाग्ने, त्रिणाचिकेत, षडङ्गविधान, प्राग्ज्योतिष्क, ज्येष्ठसामग, व्रतधर, अथर्वशिराः, पञ्चमहाकल्प, अर्हन्आचार्य, वालखिल्य, वैखानस, अग्नियोग, अभग्नपरिसंख्यान, युगादि, युगमध्य, युगनिधन, अखण्डल, प्राचीनगर्भ, कौशिक, पुरुष्टुत, पुरुहूत, विश्वहूत, विश्वहुत, विश्वरूप, अनन्तगते, अनन्तभोग, अनन्त, अनादिमध्य, अव्यक्तनिधन, व्रतवास, समुद्राधिवास, समवास, यशोवास, लक्ष्म्यावास, कीर्त्यावास, कव्यावास, श्रीवास, श्रीनिवास, सर्ववास, वासुदेव, सर्वच्छन्दोग, हरिहय, हयमेधः, यज्ञभागहर, वरप्रद, यम, नियम, महानियम, कृच्छ्रातिकृच्छ्र, महाकृच्छ सर्वकृच्छ्र, नियमधर, निर्वृतिधर्म, प्रवचनगते, प्रवृत्तवेदक्रिय, अज, सर्वगत, सर्वदर्शिन्, अग्राह्य, अचर, महाविभूते, माहात्म्यशरीर, पवित्र, महापवित्र, हिरण्मय, बृहत्, अप्रतर्क्य, अविज्ञेय, ब्रह्माग्नि, प्रजासर्गकर, अजानिधनकर, महामायाधर, चित्र शिखण्ड, वरप्रद, पुरोडाशभागहर, गताध्वग, छिन्नतृष्ण, सर्वतो निर्वृत, ब्रह्मरूप, ब्रह्मधर, ब्राह्मणप्रिय, विश्वमूर्ते, महामूर्ते, बान्धव, भक्तव त्सल, ब्रह्मण्यदेव, भक्तोऽहं त्वां दिदृक्षुरेकान्तदर्शनायेत्यों नमः ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्वेतद्वीपे श्रीनारदस्तोत्र वर्णनो नाम पञ्चाशदधिकत्रिशततमोऽध्यायः ।। ३५० ।।