विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३३६-३४०
← अध्यायाः ३३१-३३५ | विष्णुधर्मोत्तरपुराणम् अध्यायाः ३३६-३४० वेदव्यासः |
अध्यायाः ३४१-३४५ → |
3.336
।। हंस उवाच ।। ।।
पाषण्डनैगमश्रेणी पूर्वाव्रतगणादिषु ।।
संरक्षेत्समये राजा दुर्गे जनपदे तथा ।। १ ।।
यो धर्मः कारयेच्चैषां चोपस्थान विधिश्च यः ।।
यश्चैषां वृत्त्युपादानं चानुमन्येत तत्तथा ।। २ ।।
प्रतिकूलं तु यद्राज्ञः प्रकृत्यवसतं च यत् ।।
बाधकं च यदर्थानां तत्तेभ्यो विनिवर्तयेत् ।। ३ ।।
मिथः संघातकरणं त्विह ते शस्त्रधारणम् ।।
परस्परोपघातं च तेषां राजा न मर्षयेत् ।। ४।।
पृथग्गणांश्च यो भिन्द्यात्ते विनेया विशेषतः ।।
आवहेयुर्भयं घोरं व्याधिं वा ते ह्यपेक्षिताः ।। ५ ।।
दोषवत्करणं यत्स्यादनाम्नायं प्रकल्पितम् ।।
प्रवृत्तमपि तद्राजा श्रेयःकामो निवर्तयेत् ।। ६ ।।
गणमुद्दिश्य यत्किञ्चिन्मध्यश्चैव समुद्धरेत् ।।
आत्मार्थे वा नियुक्तं वा देयं तैरेव तद्भवेत् ।। ७ ।।
यस्यापृथग्भूतकृतं द्विजेन्द्राः क्षितीशकृत्येन कृतं च यद्वा ।।
भृत्ये कृतं ज्ञेयमृणं भवेद्धि समोक्तिभिस्तत्त्वविदो वदन्ति ।। ८ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु श्रेणिविभागवर्णनो नाम षट्त्रिंशदधिकत्रिशततमोऽध्यायः ।।३३६।।
3.337
हंस उवाच ।।
सीमाविवादे सम्प्राप्ते सामन्ताः स्थविरा गणाः ।।
गोपा सीमाकृषाणा ये यद्ब्रूयुस्तत्तथा भवेत् ।।१।।
रक्तस्रग्वसनाः सर्वे शिरसा क्षितिधारिणः ।।
सीमां नयेयुस्ते ज्येष्ठे प्रकाशेषु समेषु च ।।२।।
सीमावृक्षांश्च कुर्वीत शाल्मलाश्वत्थकिंशुकान्।।
तुषांगारकपालास्थिशर्कराणि च यानि च ।।३।।
शीममध्ये तु जातानां वृक्षाणां क्षेत्त्रयोर्द्वयोः ।।
फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत्।।४।।
अन्यक्षेत्रेषु जातानां शाखा यान्यत्र संस्थिता ।।
स्वामिनं तं विजानीयाद्यस्य क्षेत्रमुपस्थिता।।५।।
गन्धरूपरसाभ्यान्तु प्रसृताप्रौढगाढका ।।
वाकारक्षप्रवाहस्था चिरस्थातिविशुद्धये।।६।।
संचारापहृता भूमिर्नदीवेगेन चिह्निता ।।
समुक्ता स्वामिने देया पूर्वभुक्तिर्व्यवस्थिता ।।७।।
गृहीत्वा कर्षको भूमिं यदि कश्चन वापयेत् ।।
फलं क्षेत्रस्य दाप्योसौ क्षेत्रं चान्येन कारयेत् ।। ।। ८ ।।
विण्मूत्रोदकमाक्रम्य वह्निं चित्रे निवेशयेत ।।
अ ..... समुत्सृज्य परकुड्ये निवेशयेत् ।।९।।
भ्रमद्वारगवाक्षाढ्यं परपीडाकरं तु यत् ।।
निवेशसमयादूर्ध्वं न तत्कार्यं कदाचन ।। 3.337.१० ।।
परस्थाने तु निर्वासं गृहाद्यं यदि कारयेत् ।।
तद्व्ययं प्राप्नुयात्काले स्वामिना चेन्निवारितः ।। ११ ।।
अजातेषु तु सस्येषु कार्या खलु धृतिर्भवेत् ।।
मासं दद्यात्तु महिषी तदावांगस्तथा भवेत् ।। १२ ।।
अजाविकं तदर्धन्तु खरोष्ट्रं महिषीसमम् ।।
अश्वं च विप्रप्रवराः सस्यनाशं प्रदापयेत् ।। १३ ।।
भक्षयित्वोपविष्टेषु द्विगुणं प्रोच्यते दमः ।।
पालश्च दण्डं दाप्यः स्यात्तदभावे पतिस्तथा ।।
सूतिकोत्सृष्टपशवः त्वदंड्या गर्भिणी च या ।। १४ ।।
पथस्तथा ग्रामविनीतकान्ते न दोषमल्पे प्रवदन्ति काले।।
यः कामकारेण करोति राज्ञे विवासनीयः स भवेद्द्विजेन्द्राः ।। १५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सस्यहानिदण्डवर्णनो नाम सप्तत्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३७ ।।
3.338
।। हंस उवाच ।।
धनं धर्मार्थकामानां मूलमाहुर्मनीषिणः ।।
नृणां बहिश्चरा प्राणा द्रविणं च प्रकीर्तितम् ।।१।।
तस्माद्धर्मविदा राज्ञा घातनीयास्तु तस्कराः ।।
ते हि घातनमर्हन्ति सर्वा बाधा विशेषतः ।। २ ।।
राज्ञो धर्मं न पश्यामि तस्करस्य वधादृते ।।
स्नेहाद्वा धनलोभाद्वा राजा चेत्तस्करं त्यजेत् ।। ३ ।।
ब्रह्मवध्याशतं तस्य प्राहुर्धर्मविदो जनाः ।।
न हन्याद्ब्राह्मणं राजा सर्वपापेष्ववस्थितम् ।। ४ ।।
स्तेनं विवासयेद्राष्ट्रात्समग्रधनमक्षतम् ।।
महापातकिनं विप्रं कृतचिह्नं विवासयेत् ।। ५ ।।
ग्रामसीम्नि हृतं द्रव्यं ग्राम्यो दाप्यस्तथा भवेत् ।।
यस्मिन्ग्रामे पदं गच्छेत्स च दाप्यस्तथा भवेत् ।। ८ ।।
ग्रामे द्वौ दण्डनीयौ तु सीमामध्ये हृतं यदि ।।
अटव्यां तं नियुक्तं तु नगरे नगराधिपः।। ७ ।।
महापातकिनः सर्वे घातनीया महीक्षिता ।।
कबन्धेनाङ्कयेद्विप्रं ललाटे ब्रह्मघातकम् ।।८ ।।
सुरापं तद्व्रजेनाथ कृतं चाश्वपदेन तु ।।
अगम्यगामिनं विप्रं भगाङ्केनाङ्कयेन्नृपः ।।९।।
घातनीयास्तथा राज्ञा नरस्त्रीबालघातिनः ।।
अग्निगरदाश्चैव भूम्यर्थे कूटसाक्षिणः।।3.338.१०।।
सेतुभेदकरा ये च राज्ञो व्यङ्कचराश्च ये।।
ते चाङ्गहीनाः कर्तव्या राज्ञा कूटाक्षदेवकाः।।११।।
करहीनस्तथा कार्यो यश्चेहोपधिदेविता।।।
उत्क्रोशतां जनानां च ह्रियमाणे धने वधे ।। १२ ।।
श्रोता यस्तु न वावर्तेद्राजा तानपि घातयेत् ।।
गजाश्वघातिनो वध्यास्तथा गोघातिनश्च ये ।।।१३।।
परिशेषपशूनां तु घातिनां छेदयेत्करम् ।।
कार्षापणशतं दण्ड आरण्यपशुघातने ।।१४।।
पक्षिघाती तदर्धं तु इति धर्मविदो विदुः ।।
फलो पगद्रुमच्छेदे दण्ड उत्तमसाहसम् ।। १५ ।।
पुष्पप्रदस्य यश्छेदी मध्यमं दण्डमर्हति ।।
कार्षापणशतं दंड्या लतामुल्मादिभेदकाः ।। १६ ।।
सवर्णगः पारजायी दंड्या उत्तमसाहसम् ।।
हीनवर्णागमे दण्ड्यास्तथा प्रथमसाहसम् ।। १७ ।।
तथैवोत्तमवर्णाया गमने घातमर्हति ।।
हीनवर्णगमे नारी वधमर्हत्यसंशयम् ।। १८ ।।
समवर्णागमे त्याज्या उत्कृष्टामथ गच्छति ।।
हृताधिकारां मलिनां तां तु संवासयेद्गृहे ।। १९ ।।
येनयेन तथांगेन हीनवर्णो नरोधमः ।।
उत्कृष्टस्यापकुरुते तत्तदेवास्य घातयेत्।।3.338.२०।।
श्वपाकपंडुचण्डालेष्वन्येषु वधवृत्तिषु ।।
हस्तिप्रव्राज्यदासेषु गुरुदाराभिगेषु च।।२१।।
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ।।
मला ह्येते मनुष्येषु धनमेषां सदात्मकम्।।२२।।
तस्मात्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत् ।।
शतं ब्राह्मणमाक्रम्य क्षत्त्रियो दण्डमर्हति ।।२३।।
विप्रः पंचशतं दण्ड्यः क्षत्रियस्याभिशंसने।।
वैश्यः स्यादर्धपञ्चाशच्छूद्रे द्वादशके दमः ।।२४।।
क्षत्त्रियस्य तु पंचाशद्दंडो वैश्येऽभिशंसने।।
शूद्रः स्यादर्धपंचाशद्वैश्यः शूद्राभिशंसने।।२५।।
कार्षापणं भवेद्दंड्यस्तथा वै पञ्चविंशतिः ।।
आक्रोशे स सवर्णानां द्वादशैव व्यतिक्रमः।।।।
वादेषु वचनीयेषु तदेव द्विगुणं भवेत् ।।
काणं वाप्यथ वा खंजं त्वन्यद्वापि तथाविधम् ।।२७ ।।
तथ्येनापि ब्रुवन्दाप्यो दण्डः कार्षापणं नरम् ।।
न किल्बिषेनापवदेच्छास्त्रतः कृतवासनम्।।२८।।
न राज्ञा धृतदण्डं तु दण्डता तद्व्यतिक्रमात् ।।
राजा च ब्राह्मणश्चैव लोके पूज्यतमौ मतौ ।। २९ ।।
नामजातिग्रहं तेषां त्वभिद्रोहेण कुर्वतः ।।
निधेयोयोमयः शंकुर्ज्वलन्नास्ये दशाङ्गुलः । ।। 3.338.३० ।।
धर्मोपदेशे धर्मेण द्विजानामस्य कुर्वति ।।
तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ।। ३१।।
सहासनमभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः ।।
कट्यां कृतांको निर्वाप्यः कृतं चैवास्य कीर्तयेत् ।। ३२ ।।
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ च्छेदयेन्नृपः ।।
अवमूत्रयतः शिश्नमवशद्वयतो गुदम् ।। ।। ३३ ।।
तमुपाक्रम्य राजानं जिह्वाच्छेदनमर्हति ।।
राजा न प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः ।।३४।।
तमग्नौ विपचेच्छूले ब्रह्महत्याशतातिगम् ।।
गुरुं वा बालवृद्धं वा ब्राह्मणं वा बहुश्रुतम् ।।
आततायिनमायांतं हन्यादेवाविचारयन् ।। ३५ ।।
संक्षेपतो धर्मभृतां वरिष्ठा राज्ञो मयैते कथितास्तु धर्माः ।।
अतः परं यत्र च संशयोस्ति तं मे वदध्वं तपसि प्रधानाः ।। ३६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दण्डानुशासनवर्णनो नामाष्टात्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३८ ।।
3.339
ऋषय ऊचुः ।।
अतः परं द्विजश्रेष्ठ वदास्माकमतंद्रितः ।।
वने निवसतां धर्मं धर्ममाश्रमिणामपि ।। १ ।।
हंस उवाच ।।
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः ।।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ।। २ ।।
पुत्रेषु भार्यां निक्षिप्य तया वानुगतो वने ।।
अग्नीनुपचरन्नित्यं वन्यमाहारमाहरेत् ।। ३ ।।
यथाहारो भवेत्तेन पूजयेत्पितृदेवताः ।।
तेनैव पूजयेद्विद्वानतिथिं समुपागतम् ।। ४ ।।
ग्रामादाहृत्य वाश्नीयाद्वासानष्टौ समाहितः ।।
स्वाध्यायं च तथा कुर्याज्जटाश्च बिभृयात्तथा ।। ५ ।।
तपसा शोषयेन्नित्यं तथा चैव कलेवरम् ।।
आर्द्रवासास्तु हेमंते ग्रीष्मे पञ्चतपास्तथा ।। ६ ।।
प्रावृष्याकाशशायी च नक्ताशी च तथा भवेत् ।।
चतुर्थकालिको वा स्यात्षष्ठकालिक एव वा ।। ७ ।।
कृच्छ्रैर्वापि नयेत्कालं ब्रह्मचर्यं च पालयेत् ।।
एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत्।।८।।
वने विमुच्याथ शरीरधातून्प्राप्नोति लोकान्प्रपितामहस्य ।।
पुनात्यतीतान्पुरुषांश्च सप्त भविष्यतो यानथ सप्त विप्राः।।९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु वानप्रस्थधर्मवर्णनोनामैकोनचत्वात्रिंशदधिकत्रिशततमोऽध्यायः।।३३९।।।
3.340
।। हंस उवाच ।।
चतुर्थमायुषो भागमन्त्यं यत्याश्रमे वसेत् ।।
कृत्वेष्टिं विधिवत्पश्चात्सर्ववेदीसदक्षिणाम् ।। १ ।।
आत्मन्यग्नीन्समारोप्य द्विजो ब्रह्माश्रमी भवेत् ।।
ग्रामैकरात्रिकः स स्यान्नगरे पाञ्चरात्रिकः ।। २ ।।
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ।।
अतीते पात्रसञ्चारे भिक्षां नित्यं यतिश्चरेत् ।। ३ ।।
सप्तागारं चरेद्भैक्ष्यं भिक्षुकान्नानुभिक्षयेत् ।।
न व्यथेत तथाऽलाभे यथालाभेन वर्तयन् ।। ४ ।।
नास्वादेत रसान्भिक्षुर्नाश्नीयात्कस्यचिद्गृहे ।।
मृन्मयालाबुपात्राणि दारुवैदलकानि च ।।
तेषां सम्मार्जनाच्छुद्धिरद्भिश्चैव प्रकीर्तयेत् ।। ५ ।।
कौपीनाच्छादनं वासो रथ्याविद्धमपाहरेत् ।। ६ ।।
शून्यागारनिकेतः स्याद्यत्र सायं गृही मुनिः ।।
कर्मदण्डं मनोदण्डं वाग्दण्डं च तथा न्यसेत् ।।७ ।।
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।।
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।। ८ ।।
चन्दनेनोक्षितो बाहुं वास्यैकमपि तक्षतः ।।
कल्याणं चाप्यकल्याणं तयोरपि न चिन्तयेत्।।९।।
प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम् ।।
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान्।। 3.340.१० ।।
निराशीर्निर्नमस्कारः समलोष्टाश्मकाञ्चनः ।।
सर्वभूतसमो मैत्रः परमं पदमश्नुते ।। ११ ।।
जन्मना यस्तु निर्विण्णः मरणेन तथैव च ।।
आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः ।।
अशुचित्वं शरीरस्य प्रियाप्रियविपर्ययः ।। १२ ।।
गर्भवासे च वसतिं पश्यन्मुच्यति नान्यथा ।।
जन्ममृत्योश्च नानन्दं न त्वसारमनर्थकम् ।। १३ ।।
भोक्तव्यमिति निर्विण्णः प्रत्यहमुच्यते वचः ।।
एवं वैराग्यमास्थाय नित्यं ध्यानपरायणः ।। १४।।
चतुर्विंशतिकं लंघ्य प्रपश्येत्पञ्चविंशकम ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।। १५ ।।
पञ्चेमानि विजानीयान्महाभूतानि सर्वतः ।।
श्रोत्रं चक्षु स्पर्शनं च रसनं प्राणमेव च ।। १६ ।।
बुद्धीन्द्रियाणि जानीयात्पञ्चैवास्मिञ्छरीरके ।।
शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च ।। १७ ।।
कर्मेन्द्रियाणि पञ्चैव नित्यमस्मिञ्छरीरके ।।
मनोबुद्धी तथैवात्मा ह्यव्यक्तं च तथा द्विजाः ।। १८ ।।
इन्द्रियेभ्यः पराणीह चत्वारि कथितानि तु ।।
चतुर्विंशत्यथैतानि पुरुषः पञ्चविंशकः ।। १९ ।।
यं ज्ञात्वा प्रतिमुच्यंते ये नराः शान्तबुद्धयः ।।
गन्धो रसस्तथा वायुः स्पर्शः शब्दस्तथा द्विजाः ।। 3.340.२० ।।
एते पञ्चगुणा भूमेः स्थूला भूमेषु लक्ष्यते ।।
रसो रूपस्तथा स्पर्शः शब्दाश्चाम्बुगुणा मताः ।। २१ ।।
रूपं स्पर्शस्तथा शब्दः तेजसस्तु गुणाः स्मृता ।।
स्पर्शः शब्दस्तथा वायोः शब्दश्च नभसस्तथा ।।२२।।
आकाशाज्जायते शब्दो वायोः स्पर्शगुणस्तथा ।।
रूपं तु तेजसः प्रोक्तो रसश्चाम्बुगुणो मतः।।।२३।।
पार्थिवं गन्धमित्याहुरिन्द्रियार्थाः प्रकीर्तिताः ।।
इन्द्रियेभ्यः परा अर्था अर्थेभ्यस्तु परं मनः ।।२४।।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।।
महतः परमव्यक्तं त्वव्यक्तात्पुरुषः परः।।२५।।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।।
एतत्परतरं गुह्यमेतदक्षरमुत्तमम्।।२६।।
ॐकारवाचकं ह्येतद्गुणातीतं सनातनम् ।।
अशब्दमरसस्पर्शमरूपं गन्धवर्जितम् ।। २७।।
निर्दुःखमसुखं दुःखं तद्विष्णोः परमं पदम् ।।
वालाग्रशतशो भागः कल्पितस्तु सहस्रधा।।२८।।
तस्यापि शतशो भागो जीव इत्यभिधीयते ।।
हृद्यर्कचन्द्रमाः सूर्यः सोममध्ये हुताशनः।।२९।।
तस्य मध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोच्युतः ।।
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।। 3.340.३० ।।
ध्याननिर्मथनाभ्यासाद्विष्णुं पश्येद्धदि स्थितम् ।।
एष देवस्तु मर्त्यानां वणैरेव विधीयते ।। ३१ ।।
अज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुभिः ।।
एष वै पुरुषो विष्णुर्व्यक्ताव्यक्तः सनातनः ।। ।। ३२ ।।
एष धाता विधाता च प्रमाणो निष्कलः शिवः ।।
द्वे ब्रह्मणी वेदितव्ये शाब्दब्रह्म परं च यत् ।।३३।।
शाब्दब्रह्मणि निष्णातः परं ब्रह्माधि गच्छति ।।
सूक्ष्मं नित्यमुपासीत शुभं च सततं द्विजाः ।। ३४ ।।
सूक्ष्मस्योपासनाच्छ्रेष्ठां याति तेजोमयीं गतिम् ।।
तत्त्वं वहति वै बुद्धिं बुद्धिस्तु परमाङ्गतिम् ।। ३५ ।।
गतिर्वहति चंद्रार्कौ तपसा परमेष्ठिनः ।।
तयोर्वहति वै सत्त्वं सत्त्वं च वहति प्रभुम् ।। ३६ ।।
प्रभुवर्हति सौक्ष्म्यं तु परमात्मानमात्मनः ।।
तयोर्वृत्तिरजः सत्त्वं सत्त्वस्य परमा गतिः ।। ३७ ।।
सत्त्वं वहति सूक्ष्मत्वात्परं नारायणं प्रभुम् ।।
परमात्मानमासाद्य हरिं वैकुण्ठमीश्वरम् ।। ३८ ।।
अमृतत्वाय कल्पेत ततो नैव निवर्त्तते ।।
दशार्धयुक्तेन रथेन युक्तो मनोनुगेनार्यपथानुवर्तिना ।।
तञ्चेद्रथं नापवहंति वाजिनस्तथागतं नावजयेति शक्तः ।। ३९ ।।
अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः ।।
तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ।। 3.340.४० ।।
वेदाहमेतं पुरुषं महान्तं चादित्यवर्णं तमसः परस्तात् ।।
यं वै विदित्वा न बिभेति मृत्योर्नान्यः पन्था विद्यतेऽयनाय ।। ४१ ।।
एको ह्यात्मा महिमा ब्राह्मणस्य स्वकर्मणा वै जायतेऽसौ कनीयान् ।।
यस्मात्परं नापरमस्ति किञ्चित्सौक्ष्म्यान्महत्त्वाच्च ततश्च नान्यः ।। ४२ ।।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ।।
सुस्वादुपर्णः सुच्छायो दृश्यते स वृक्षः परिषस्वजाते।।
तयोरन्यत्पिप्पलं नाम स्वाद्वन्यदश्नन्यो अभिचाकशीति ।। ४३ ।।
अकामधीरमृतः स्वयंभू रसेन तृप्तो न च कश्चिद्द्रुमाणाम् ।।
परेण नाकं नापतिर्न गृहाय विभ्राजते तं नियता विशन्ति । ४४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यतिधर्म वर्णनो नाम चत्वारिंशदधिकत्रिशततमोऽध्याय. ।। ३४० ।।