विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३३१-३३५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ३२६-३३० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३३१-३३५
वेदव्यासः
अध्यायाः ३३६-३४० →

3.331
।। हंस उपाच ।।
उत्तमर्णाय दातव्यमधमर्णेन याचितम् ।।
ब्राह्मणेन्द्रा धनं सर्वं निह्नवे तच्च भावितम् ।। १ ।।
सर्वोपायैर्धनी वित्तमृणिकादाप्नुयात्स्वकम् ।।
न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम् ।। २ ।।
अर्थनिह्नवमानं तु भावनाभिर्विभावितम् ।।
दापयेद्धनिकस्यार्थं राज्ञो दण्डं च तत्समम् ।। ३।।
मिथ्याभियोगे द्विगुणमिति योगाद्धनं हरेत् ।।
भागं विंशतिमन्दद्यात्प्राप्तार्थो धनिको नृपे ।। ४ ।।
यदि राजबलेनासौ तद्धि तस्मादवाप्नुयात् ।।
द्विकं त्रिकं चतुष्कं च पञ्चकं च तथा शतम् ।। ५ ।।
वर्णानुक्रमतो वृद्धिः प्रतिमासं प्रकीर्तिता ।।
स्वयं कृतां तथा वृद्धिं सर्वे सर्वासु योनिषु ।। ६।।
दातुमर्हति विप्रेन्द्रा इति मे निश्चिता मतिः ।।
न क्वचित्प्रीतिदत्तानां वृद्धिः संवत्सरं भवेत् ।। ७ ।।
तेषामपि भवेद्वृद्धिर्गते संवत्सरे तथा ।।
सा च वृद्धिर्यथोक्ता वै वर्णानामनुपूर्वशः ।। ८ ।।
तथाविधा ग्रहीतव्या नान्यथेति हि निश्चयः ।।
आधिभुग्दीयते वृद्धिं नष्टामाधिं च दापयेत् ।। ९ ।।
दैवराजकृतं दोषं विना ब्राह्मणसत्तमाः ।।
अन्त्यवृद्धौ प्रविष्टायां चार्तौ त्यागो विधीयते ।। 3.331.१० ।।
भोज्यस्याधेः परित्यागः प्रविष्टे तु धने भवेत् ।।
भोगस्य गणना कार्या न तत्र वचनादृते ।। ११ ।।
धनिनोर्थं न हीयेत आधौ प्राणयुते मृते ।।
हेतुभूतस्तु मरणे न चेत्स्यादुत्तमर्णिकः ।। १२ ।।
आधौ विवदमानानां भुक्ता जीवन्ति चापराः ।।
अन्यस्याधीकृतां भूमिं यश्चान्यस्य प्रयच्छति ।। १३ ।।
स्वयमेव नरेन्द्रस्तं घातयेदविचारयन् ।।
द्रव्येष्वेवमथान्येषु दण्डः स्याद्द्विगुणं भवेत् ।। १४ ।।
आधौ समुद्रे नष्टे तु मुद्रा यत्र न दृश्यते ।।
न तत्र हीयते वित्तं धनिकस्य कथञ्चन ।। १५ ।।
अन्यथा तु तथा नष्टे धनिकस्यैव हीयते ।।
अन्त्या वृद्धिर्हिरण्यस्य द्विगुणा परिकीर्तिता ।। १६ ।।
वस्त्रस्य त्रिगुणा प्रोक्ता धान्यस्य तु चतुर्गुणा ।।
रसस्याष्टगुणा वृद्धिः स्त्रीपशूनां च सन्ततिः ।। १७ ।।
स्त्रीपशूनामृते वृद्धिः पशूनां चैव विद्यते ।।
उरभ्राणां भवेद्वृद्धिः सति पुंस्त्वे हि वै द्विजाः ।। १८ ।।
ऊर्णावृद्धिर्भवेत्तेषां वर्षाणि द्वादशैव तु ।।
द्रव्याणामप्यनुक्तानां वृद्धिर्ज्ञेया चतुर्गुणा ।। १९ ।।
दीयमानप्रयुक्तं तु पुरुषस्याप्रगृह्णतः ।।
ततः परं न वृद्धिः स्यात्कथंचिद्द्विजसत्तमाः ।। 3.331.२० ।।
स्वमर्थं यो न गृह्णाति दीयमानं पुनःपुनः ।।
तस्मात्स हीयते विप्रा दाता तत्रानृणो भवेत् ।। २१ ।।
पिता प्रवसितो यस्य ब्राह्मणा द्विदशाः समाः ।।
ऋणं तस्य सुतैर्देयं मृतस्य यदि वा पुनः ।।२२।।
पैतृकं तु ऋणं पुत्रः पौत्रो वा दातुमर्हति।।
न कामस्तच्चतुर्थं तु दातुमर्हति कर्हिचित्।। ।। २३ ।।
रिक्थग्राही तथा पुत्रः स्त्रीग्राही धनदासिकः ।।
पुत्रे स्थितेपि दातव्यमृणं वै धनहारिणाम ।। २४ ।।
रिक्थग्राही सुताभावे स्त्रीग्राही दातुमर्हति ।।
स्वयं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् ।। २५ ।।
स दत्त्वा निर्जितां वृद्धिं कारयेत्परिवर्त्तयेत् ।।
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयन् ।। २६ ।।
यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति।।
प्रातिभाव्ये वृथा दानं द्यूतमध्ययनं च यत् ।। २७ ।।
दण्डशुल्कावशेषं तु न पुत्रो दातुमर्हति ।।
दर्शने प्रत्यये दाने प्रातिभाव्यं त्रिधा स्मृतम् ।।२८।।
आदौ तु वितथे दद्यादितरस्य सुतावपि ।।
दर्शने प्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।। २९ ।।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय ये स्थिताः ।।
प्रकाशं प्रतिभूर्यत्र दापितो धनिनां धनम् ।।
सोयं तस्य तु तद्द्रव्यमृणिको दातुमर्हति ।। 3.331.३०।।
वर्णत्रयं विप्रवरा ऋणार्थं क्षीणे विशुद्धाविह कर्म कार्यम् ।।
क्षीणोग्रजं सा तु यथोदयं तद्दाप्यो न कर्माहरणे तदर्थम् ।। ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ऋणदानवर्णनो नामैकत्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३१ ।।
3.332
।। हंस उवाच ।। ।।
शीलाढ्ये कुलजे शक्तः निक्षेपे निक्षिपेद्बुधः ।।
याच्यमानं तथैवासौ तस्य तद्दातुमर्हति ।। १ ।।
याचते यश्च निक्षिप्य निक्षिप्तं न प्रयच्छति ।।
तावुभौ चौरवच्छास्यौ धर्म्मज्ञेन महीक्षिता ।। २ ।।
निक्षेपोपनिधी चैव न देयौ प्रत्यनन्तरे ।।
नश्येते वनिपातेतावनिपाते त्वनाशिना ।। ३ ।।
यस्य हस्ते विनिक्षिप्तं तस्य हस्ते तथा विना ।।
नष्टं तु यदि निक्षिप्तं नासौ दद्यात्कथञ्चन ।।४।।
निक्षेपभोगी दण्ड्यः स्याद्भोगमूल्यन्तु षड्गुणम् ।।
एष एव विधिर्दृष्टो याचितान्वाहितेषु च ।।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ।। ५ ।।
प्रतिगृह्णाति यो गण्डं यश्च स प्रधने नरः ।।
तस्याप्येष भवेद्धर्म्मः षडेते निधनाः स्मृताः ।। ६ ।।
निक्षेपरक्षा पुरुषेण कार्या यत्नेन विप्रप्रवरास्सदैव ।।
निक्षेपहर्त्ता नरकं प्रयाति कल्पावशेषं निहितस्तु सर्वैः ।। ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु निक्षेपरक्षावर्णनो नाम द्वात्रिंशदधिकत्रिशत तमोऽध्यायः ।। ३३२ ।।
3.333
हंस उवाच ।।
वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।।
तत्संभूय समुत्थानं शृणुध्वं गदतो मम ।। १ ।।
फलहेतोरुपायेन कर्म संभूय कुर्वताम् ।।
आधारभूतः प्रक्षेपः ततस्तिष्ठेयुरंशकाः ।। २ ।।
समोऽतिरिक्तो हीनो वा यत्रांशो यस्य यादृशः ।।
क्षयव्ययौ तथा वृद्धिस्तत्र तस्य तथाविधा ।। ३ ।।
सर्वेषां च मतं कार्यं भाण्डपिण्डव्ययादिकम् ।।
समं सर्वस्य विभजँल्लोके तस्मान्महीयते ।। ४ ।।
दैविके राजके वापि व्यसने समुपस्थिते ।।
तत्र तत्र स्वशक्त्या तु तस्यांशो दशमः स्मृतः ।। ५ ।।
एकस्य चेत्स्याद्व्यसनं दायादस्तदवाप्नुयात् ।।
तस्याभावे च सर्वेषां तेषामेव हि तद्धनम् ।।६।।
ऋत्विजो व्यसनेष्वेवं मान्यस्त्वं कर्मनिस्तरः ।।
लभते दक्षिणाभागं स तस्मात्संप्रकल्पितम् ।। ।। ७ ।।
ऋत्विग्याज्यां च दुष्टौ तौ सन्त्यजेतां परस्परम् ।।
प्रथमं साहसं दंड्यौ न च तौ त्यागमर्हतः ।। ८ ।।
अन्वाहितं याचितकं सार्धिः साधारणं च यत् ।।
निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ।। ९ ।।
अदेयानि द्विजश्रेष्ठा यश्चान्यस्मै प्रतिश्रुतम् ।।
अदत्तं तु भवेत्क्रोधभयशोकान्वितैर्नरैः ।। 3.333.१० ।।
बालवृद्धास्वतन्त्रैश्च मत्तोन्मत्तस्तथैव च ।।
अज्ञानाच्च तथा पात्रं स्पर्धया द्विजसत्तमाः ।। ११ ।।
गृह्णात्ययञ्च यो मोहाद्यश्चादेयं प्रयच्छति ।।
तावुभौ चौरवच्छास्यौ धर्मज्ञेन महीक्षिता ।। १२ ।।
दत्तं स्वयं नाथ परेण दत्तं दत्तं नरो यस्तु हरेत्परस्य ।।
ध्रुवं स विप्रा नरकं प्रयाति दत्तं स्वयं वा न च यश्च दद्यात् ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु संभूयसमुत्थानदेयादेयवर्णनो नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३३ ।।
3.334
हंस उवाच ।।
कृतकस्त्रिविधः प्रोक्तस्तस्य वक्ष्यामि लक्षणम् ।।
एकत्र कालावधिको देशावधिरथापरः ।। १ ।।
कर्मावधिस्तृतीयस्तु सर्वे कर्मकराः स्मृताः ।।
अदेशकाले कर्मादौ भृतकश्चेत्त्यजेद्भृतिम् ।। २ ।।
भृतिश्चादीयते सर्वा स्वामिदोषो न चेद्भवेत् ।।
हारिते स्वामिदोषेण दाप्यश्च भृतिको भवेत् ।। ३ ।।
राजा च दण्डनीयः स्यात्तथा पणशतं भवेत् ।।
गृहीतमूल्यं यः शिल्पी काले द्रव्यं न यच्छति ।। ४ ।।
द्विगुणं दीयते मूलं द्रव्यं दाप्यं तथैव च ।।
तद्द्रव्यं च विना हानिं सकलां दातुमर्हति ।। ५ ।।
भृत्यदोषं विना स्वामी भृत्यमर्धपथे त्यजेत् ।।
तुल्यं तु सकलं दद्याद्राज्ञः कनकमाषकम् ।। ६ ।।
आर्तस्य भक्तं दातव्यं स्वस्थस्तत्कर्म पूरयेत् ।।
स्वस्थोऽपि चेन्न तत्कुर्याद्द्विगुणं भक्तमुत्सृजेत् ।। ७ ।।
प्रमादान्नाशितं दाप्यं समं छिद्राहता शतम् ।।
प्रसह्य यद्धृतं चौरैर्न तद्दाप्यो भवेत्क्वचित् ।। ८ ।।
तोयाग्निनाशे शक्त्या चेत्प्रवर्तेनव दापयेत् ।।
राज्ञा हृतं तथा द्रव्यं न स दाप्यः कथंचन ।। ९ ।।
यत्र गुप्त्या भवेन्नित्यं तत्र चेद्व्यापको भवेत् ।।
तत्सर्वं दापयेद्द्रव्यं यत्किंचित्तत्र नश्यति ।। 3.334.१० ।।
शकटाद्यं तु गृह्णीयाद्भाटकेन तु यो नरः ।।
अददद्भाटकं दाप्यो व्यूढस्यापि च भाटकम् ।। ११ ।।
भृतिं यः प्रतिपद्येत विनैव समयक्रियाम् ।।
देशकालौ च शक्तिं च भक्तिं चावेक्ष्य शक्तितः ।। १२।।
भृतिस्तस्य प्रदातव्या दाप्यो राज्ञा बलादथ ।।
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ।। १३ ।।
दुर्भिक्षविधृतो यस्तु मोक्षतः प्राणसंशयात् ।।
प्रतिशीर्षं प्रदानेन मुच्यते च ध्वजाहृतः ।। १४ ।।
ग्रासमाच्छादनं देयं सर्वेषामेव सर्वदा ।।
तथैव राजा भृत्यानां भृतिं वर्षशतादपि ।। १५ ।।
पुत्रपौत्रानुगश्चेत्स्याद्यद्यसौ तत्र कर्मकृत् ।।
अध्यापने यो भृतकस्तस्याप्येष विनिश्चयः ।। १६ ।।
काले भृत्यैर्जयेत्किंचिद्यदि चित्तं स्वकर्मणा ।।
भक्तदस्यैव तत्सर्वमिति धर्मविदो विदुः ।। १७ ।।
भार्या पुत्रश्च दासश्च त्रय एवाधना मताः ।।
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ।। १८ ।।
वर्णानामानुलोम्येन न दास्यं प्रतिलोमतः ।।
प्रातिलोम्येन चेद्दास्यं कारयेत्तं विनाशयेत् ।। १९ ।।
शुल्कं गृहीत्वा पण्यस्त्री नेच्छती द्विगुणं वहेत् ।।
अप्रयच्छन्पुमाञ्शुल्कं दाप्यं त्वष्टगुणं भवेत् ।। 3.334.२० ।।
पशून्नयेदरण्यं तु पालको रजनीक्षये ।।
तृप्तान्पीतजलान्सर्वान्सायाह्ने तु समर्पयेत् ।। २१ ।।
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।।
पशूनां व्यसनं गोपो व्यायच्छेत्तत्र शक्तितः ।। २२ ।।
अशक्तानपि पत्तौ तु स्वामिने तन्निवेदयेत ।।
अध्यायच्छन्नविक्रोशं स्वामिने विनिवेदयेत् ।। २३ ।।
वोढुमर्हति गोपस्तु विनयं चापि राजनि ।।
नष्टं विनष्टं कृमिभिः श्वहतं व्यसने मृतम् ।। ।। २४ ।।
हीनं पुरुषकारेण पालको विनिवेदयेत् ।।
अजाविके तु संरुद्धे वृकैः पाले त्वनायति ।। २५ ।।
यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ।।
तासां चेद्दैवरुद्धानां चरन्तीनां मिथो वने।।२६।।
यामुत्पत्य वृको हन्यान्न पालस्तत्र किल्बिषी।।
विद्विष्य तु हृतं चौरैर्न पालो दातुमर्हति ।। २७ ।।
यदि देशे च काले च स्वामिनस्तस्य शंसति ।।
एतेन सर्वपालानां विवादः समुदाहृतः ।। २८ ।।
साकं सशृङ्गं सखुरं च चर्म प्रदर्शयित्वाथ पशोर्मृतस्य ।।
पालस्य शुद्धिः कथिता द्विजेन्द्रा अतोन्यथा तस्य न शुद्धिरुक्ता ।। २९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु स्वामिभृत्यनियमवर्णनो नाम चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः ।। ३३४ ।।
3.335
।। हंस उवाच ।।
द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ।।
प्रकाशक्रयतः शुद्धिः क्रीतः स्तेयो रहः क्रमात् ।। १ ।।
हीनमूल्यं बलात्क्रीतं ततस्तद्दोषभाग्भवेत् ।।
न गृहेतागमं क्रीताच्छुद्धिस्तस्य तदागमात् ।। २ ।।
स्वामी तु प्राप्नुयाद्वित्तं प्रकाशं रह एव वा ।।
विक्रीय पण्यमूल्येन यः क्रीतं न नियच्छति ।। ३ ।।
स्थावरस्य फलं दाप्यो जङ्गमस्य क्रियाफलम् ।।
अर्धं चेन्न प्रहीयेत सोदयं पण्यमावहेत् ।। ४ ।।
स्थानिनामेष नियमो दिग्लाभश्च दिशागते ।।
उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।। ५ ।।
विक्रेतुरेव सोऽनर्थो विक्रेता सम्प्रयच्छति ।।
दीयमानं न गृह्णाति क्रीतं पण्यं तु यः क्रयी ।। ६ ।।
विक्रीणानं तदन्यत्र विक्रेता नापराध्नुयात् ।।
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।। ७ ।।
मूल्यं तद्द्विगुणं दाप्या विनेयश्च तथा भवेत् ।।
दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः ।। ८ ।।
अदत्तेन्यत्र समयान्न विक्रेतुरतिक्रमः ।।
क्रीत्वा मूल्येन यत्पण्यं दुष्क्रीतं मन्यते क्रयी ।। ९ ।।
विक्रीतं प्रतिदेयं तु यथा विप्रास्तथा शृणु ।।
द्व्यहादेव भवेद्देयं पञ्चाहाद्वाह्यमेव तु ।। 3.335.१० ।।
सप्ताहेन तथा रत्नं लोहस्तस्मिंस्तथाहनि ।।
द्विपदं चार्द्धमासेन बीजानि दशभिर्दिनैः ।।
तृतीयेहनि वस्त्रं च शरं चैवापरेहनि ।। ११ ।।
परिभुक्तं तु यद्वासः क्लिष्टरूपं महीसमम् ।।
सदोषमपि तत्क्रीतं विक्रेतुर्न भवेत्पुनः ।। १२ ।।
द्रव्यं तु विक्रीतमपि स्वकं हि विनायको वा तदवाप्नुयाद्वै ।।
क्रेता न कुर्याद्यदि वञ्चनां वा विक्रेतुरेवेह पुनस्तदिष्टम् ।। १३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु क्रयविक्रयनिर्णयोनाम पञ्चत्रिंशदधिकत्रिशततमोऽध्यायः ।।३३५।। ।