विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३२६-३३०

विकिस्रोतः तः
← अध्यायाः ३२१-३२५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३२६-३३०
वेदव्यासः
अध्यायाः ३३१-३३५ →

3.326
हंस उवाच ।।
पौरुषश्चैव दिव्यश्च निर्णयो द्विविधः स्मृतः ।।
द्विविधः पौरुषस्तत्र लिखितं साक्षिणस्तथा ।। १ ।।
त्रिविधं लिखितं तत्र तस्य वक्ष्यामि लक्षणम् ।।
राजसाक्षिकमेकं तु द्वितीयं तु स साक्षिकम् ।।२ ।।
स्वहस्तलिखितं नाम तृतीयं परिकीर्तितम्।।
नियुक्तकार्यस्य कृतं राजाधिकरणेतरम् ।। ३ ।।
तदध्यक्ष्येण मर्त्यैश्च स्वहस्त परिचिह्नितम् ।।
तल्लेख्यं कथितं लोके राजसाक्षिकमित्युत।।
यत्र क्वचन विप्रेंद्रा लिखितं येन केनचित ।।
चिह्नितं यत्स्वहस्तेन साक्षिभिश्च गुणान्वितैः ।।५।।
द्वाभ्यामूर्ध्वं तु तज्ज्ञेयं लिखितञ्च ससाक्षिकम् ।।
साक्षी स्वहस्तलिखिते भवेद्वापि न वा भवेत्।।६।।
विनापि साक्षिभिस्तस्य प्रामाण्यमुपपद्यते ।।
स्वहस्तलिखितं पत्रं बलात्कारेण कारितम्।।७।।
हस्तप्रमाणं सर्वैर्वा तथोपधिकृतं द्विजाः ।।
मत्तोन्मत्तकृतं लेख्यमस्वतन्त्रकृतं च यत्।।८।।
लेख्यं विना नास्ति सिद्धिः स्थावरस्य तु कर्हिचित् ।।
भुक्तिस्तत्र प्रमाणं वा भवेत्त्रिपुरुषागता।।९।।
हस्तेन द्विपदं देयं साम्ना दद्याच्चतुष्पदम् ।।
स्थावराणां च सर्वेषां सिद्धिर्लेख्ये प्रतिष्ठिता ।।3.326.१०।।
देशाचाराद्विरुद्धं यद्व्यक्ताववधिलक्षणम् ।।
तत्प्रमाणं स्मृतं लेख्यं विलुप्तधनमक्षयम् ।। ११ ।।
प्राक्प्रसादाः प्रदीयन्ते पश्चाद्वापि न पार्थिवाः ।।
देवद्विजातिवित्तेषु न स्यात्स्वामी नृपः क्वचित् ।। १२ ।।
समूहार्थे न भोगोऽस्ति लेख्यं तत्रापहारकम् ।।
उभयोरपि तत्र स्याद्भुक्तं येन स वै प्रभुः ।। १३ ।।
चिरन्तनमविज्ञातं भुक्तं भोगान्न चालयेत् ।।
एकार्ह लिखिते तत्स्यात्सम्भोगो यस्य तस्य तु ।। १४ ।।
अर्वाक्कालिकलब्धं तु लेख्येनैव विशोधयेत् ।।
मुद्राशुद्धं क्रियाशुद्धं पारंपर्यानुमोदितम् ।।१५ ।।
अदूषितं च स्पष्टं च सिद्धिमाप्नोति नान्यथा ।।
स्ववेशात्कीर्तयेद्राजा आत्मानं तदनन्तरम्।।१६।।
दायादेयप्रमाणं च सहसीमापरिच्छदैः ।।
ततस्तु लेखयेत्तत्र दानच्छेदोपवर्णनम् ।। १७ ।।
तल्लेख्यं सिद्धिमाप्नोति मुद्रितं राजमुद्रया ।।
मतान्तरे तु लेख्यस्य श्रावणाच्छ्रवणे तथा ।। १८ ।।
नैव सिद्धिर्विनिर्दिष्टा भावनान्या न चेद्भवेत् ।।
स्वहस्तलिखितं पत्रं निह्नुके तु विभावयेत् ।। १९ ।।
वर्णैश्च तत्कृतैश्चिह्नैः प्राप्यैरेव च युक्तिभिः ।।
यत्रर्णलेखको वापि साक्षी वापि मृतो भवेत् ।। 3.326.२० ।।
लिखितान्ते प्रविष्टे तु धनी लेख्यं तु पाटयेत् ।।
असमग्रे प्रविष्टे तु लेख्ये दूरगते तथा ।। ।। २१।।
धनिकस्य धनी दद्याल्लिखितं स्वमथापरम् ।।
दैवदोपनिविष्टं तु लेख्यं लेख्यं तु कारयेत् ।। २२ ।।
अन्यमेवाधमर्णास्तु लेख्यं यत्स्मर्यते यदि ।।
समुद्रे तु यदा लेख्ये मृताः सर्वे तु तत्स्थिताः ।। २३ ।।
लिखितं तत्प्रमाणं तु मृतेष्वपि हि साक्षिषु ।।
सोपध्यं यद्भवेल्लेख्यं दिव्याद्यैस्तत्प्रसाधयेत् ।। २४ ।।
बलात्कारबलैर्लेख्यैः सत्यश्चेच्छछ्रावणाद्भवेत् ।।
ज्ञापितेनाप्यसिद्धिः स्यात्सिद्धिस्तस्माद्यथा स्मृता ।।
पैतामहानां रिक्थानां प्रभुः पौत्रोऽपि गायते ।। २५ ।।
ये कूटकारा वसुधाधिपेन भृशं विनेयास्त्रिदशेप्सुना वै ।।
ते कण्टकाः सर्वजनस्य विप्रास्तेषां निषेद्धा नृपतिर्भवेद्वै ।। २६ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लेख्यलक्षणवर्णनो नाम षइविंशत्युत्तरत्रिशततमो ऽध्यायः ।। ३२६ ।।
3.327
।। हंस उवाच ।। ।।
एकादशविधः साक्षी शास्त्रदृष्टो मनीषिभिः ।।
कृतः पञ्चविधस्तत्र षड्विधोऽकृत उच्यते ।। १ ।।
लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च ।।
गूढश्चोत्तरसाक्षी च कृतः पञ्चविधः स्मृतः ।। २ ।।
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ।।
कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितः सदा ।। ३ ।।
कुलं कुलविवादेषु षड्विधस्त्वकृतः स्मृतः ।।
द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु ।।४।।
पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ।।
आधार्यः पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् ।। ५ ।।
विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः ।।
न परेण समुद्दिष्टमुपेयात्साक्षिणं प्रति ।। ६ ।।
भेदयेत्तु न वान्योन्यं हीयत्येवं समाचरेत् ।।
साक्षिद्विष्टो यदि प्रेयाद्गच्छेद्वापि दिगन्तरम् ।। ७ ।।
तच्चोभयोः प्रमाणं तु प्रमाणे ह्यन्तरा क्रिया ।।
अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत् ।। ८ ।।
सूचीत्युक्तः स साक्षी तु न स साक्षित्वमर्हति ।।
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।। ९ ।।
न श्रोत्रियो न लिङ्गस्थो न सर्वेभ्यो विनिर्गतः ।।
न व्याधितो न वक्तव्यो न दस्युर्न विकर्मकृत् ।। 3.327.१० ।।
न वृद्धो न शिशुर्नैको नान्धो न विकलेन्द्रियः ।।
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।। ११ ।।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ।।
नार्थसम्बन्धिनोराप्तो न हायनविचारिणः ।। १२ ।।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ।।
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।। १३ ।।
शूद्राश्च साधुशूद्राणां मर्त्यानां मर्त्ययोनयः ।।
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् ।। १४ ।।
अन्तर्वेश्मन्यरण्ये वा शरीरस्य तथात्यये ।।
स्त्रियोऽपि सम्भवे कार्या बालेन स्थविरेण वा ।। १५ ।।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ।।
बालवृद्धातुराणां तु साक्ष्ये तु वदतां मृषा ।।१६।।
जानीयादधिवाचमुत्सिक्तमनसां तथा ।।
गृहिणः पुत्रिणो मौलाः शूद्रा विट्क्षत्रयोनयः ।।१७।।
अत्युक्ताः साक्ष्यमर्हन्ति नये कूटधनापदि ।।
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।।१८।।
बहुत्वे परिगृह्णीयात्साक्षित्वे वेतनाधिपम् ।।
समेषु त्वगुणोत्कृष्टं गुणित्वे वै द्विजोत्तमान् ।।१९।।
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति ।।
तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ।। 3.327.२० ।।
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नरकं व्रजेत् ।।
पृष्टानि बद्धोऽपि वदेद्यथा दृष्टं यथाश्रुतम् ।। २१ ।।
एको लुब्धस्त्वसाक्षी स्याद्बहवोऽपि न वा क्वचित् ।।
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ।। २२।।
न जातु साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ।।
प्राड्विवाको नियुंजीत विधिनानेन सान्त्वयन् ।। २३ ।।
यत्तयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितेऽपि वा ।।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षितम् ।। २४ ।।
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजाः ।।
उदङ्मुखः प्राङ्मुखो वा पूर्वाह्णे वै शुचिः शुचीन् ।। २५ ।।
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ।।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।। २६ ।।
ब्रह्मणे च स्मृता लोका ये च स्त्रीबाल घातिनः ।।
मित्रद्रुहः कृतघ्नस्य तत्ते स्युर्ब्रुवतां मृषा ।। २७ ।।
जन्मप्रभृति यत्किञ्चित्किञ्चित्पुण्यं त्वया कृतम् ।।
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ।। २८ ।।
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।।
अन्धः शत्रुगृहं गच्छेद्यत्साक्ष्यमनृतं वदेत् ।। २९ ।।
एतांस्तु दोषान्वीक्ष्य त्वं सर्वाननृतभाषणात् ।।
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ।। 3.327.३० ।।
सत्यं साक्ष्यं ब्रुवन्साक्षी लोकान्प्राप्नोत्यनुत्तमान् ।।
इह वानुत्तमां कीर्तिं वाग्येषां ब्रह्मपूजिता ।। ३१ ।।
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ।।
तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ।। ३२ .।।
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च ।।
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु साक्षिनिर्णयो नाम सप्तविंशत्युत्तरत्रिशत तमोऽध्यायः ।।३२७।।
3.328
हंस उवाच ।।
पौरुषो निर्णयः प्रोक्तो दिव्यं वक्ष्याम्यतः परम् ।।
असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः ।। १ ।।
राजद्रोहाभिशापेषु साहसेषु तथैव च ।।
विवादे तत्त्वतः सत्यं शपथेनापि लम्भयेत् ।। २ ।।
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः ।।
वसिष्ठोऽदत्त शपथं समये जवने नृपे ।। ३ ।।
न मृषा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ।।
वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ।। ४ ।।
स्थावरेषु तु दिव्यानि वर्जनीयानि पार्थिवैः ।।
लिखितेन तथा भुक्त्या तेषां भवति साधनम् ।। ५ ।।
कोशं धटं विषं चाग्निमुदकं तप्तमाषकम् ।।
फालं च तण्डुलं चैव दिव्यान्यष्टौ विदुर्बुधाः ।। ६ ।।
कोशवर्जन्तु दिव्यानि सशिरस्कानि दापयेत् ।।
अशिरस्कः स्मृतः कोशः कालान्तरविभावनात ।। ७ ।।
अशिरस्कानि दिव्यानि राज्ञा कण्टकशोधनैः ।।
राज्ञा सर्वाणि देयानि स्वयं च परिमार्गिणा ।। ।। ८ ।।
लोभान्मोहाद्भयाद्वापि भिद्यन्ते साक्षिणः परैः ।।
अज्ञानाद्बालभावाच्च भेदे धर्मो व्यवस्थितः ।। ९ ।।
सर्वद्रव्येषु कनकं मूल्यं तु परिकल्पयेत् ।।
माषकेण सुवर्णस्य ..........काल्यमसुखे द्विजम् ।। 3.328.१० ।।
सत्यं वदामीति शपेन्नान्यत्किञ्चन पार्थिव ।।
शस्त्रमादाय वक्तव्यं क्षत्त्रियेण तथैव च ।। ११ ।।
धेनुं संस्पृशता सत्यं वाच्यं वैश्येन वै द्विजाः ।।
शूद्रः कुर्वीत शपथं तथा सर्वैस्तु पातकैः ।। १२ ।।
कृष्णलेन सुवर्णस्य तिलवृद्ध्या तु शापयेत् ।।
शूद्रान्न शापयेद्राजा कदाचिदपि वै द्विजाः ।।१३ ।।
विप्रवर्जं तथा कोशं वर्णिनां दापयेन्नृपः ।।
सुवर्णमाषकादूर्ध्वमर्वागष्टभ्य एव च ।। १४ ।।
विप्रवर्जं तु विप्रोऽपि वर्णिनां पूरसंयुतम् ।।
कोशस्थाने तु शपथं कारयेदविधारयन् ।। १५ ।।
अतः परं तु दिव्यानां कुर्यादन्यतमं नरः ।।
यथा तथा महीपालः शृणुध्वं गदतो मम ।। १६ ।।
न शीते तु धटं देयमुष्णकाले हुताशनम् ।।
वर्णिनां न तथा फालं तण्डुलं मुखरोगिणाम् ।। १७ ।।
श्वासकासार्दितानां च ब्राह्मणानां च नो विषम् ।।
तप्तमाषकमर्हन्ति सर्वे वर्णा निरत्ययम् ।। १८ ।।
न व्याधिमरकाक्रान्ते देशे कोशं तु पातयेत् ।।
मन्त्रैरस्वरदिव्यानि सञ्चयन्तीह मानवाः ।।१९।।
प्रतिमन्त्रविदः स्तम्भनानां विनाशने ।।
नियुञ्जीत नरेन्द्रोपि निभृतां धनवत्सलाम् ।। 3.328.२० ।।
दिव्यानां स्तम्भकं ज्ञात्वा पापान्नित्यं महीपतिः ।।
विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कण्टकाः ।। २१ ।।
तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत् ।।
ते हि पापसमाचारास्तस्करेभ्योपि तस्कराः ।। २२ ।।
दृग्दृष्टिदोषात्स्वल्पेपि दिव्येषु विनियोजयेत् ।।
महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान् ।। २३ ।।
ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्स विचक्षणः ।।
स्वल्पे वाप्यथ वास्वल्पे शपथे तान्नियोजयेत् ।। २४ ।।
न मिथ्यावचनं येषां जन्मप्रभृति विद्यते ।।
श्रद्दध्यात्पार्थिवस्तेषां वचने धर्मदर्शिनाम् ।।२५ ।।
अत्यन्तोपहताः पापा नास्तिका भिन्नसेतवः ।।
दिव्यान्यर्हंति सर्वाणि स्वल्पदोषा अपि द्विजाः ।। २६ ।।
आदौ भूमिं परीक्षेत धटस्यार्थे विचक्षणः ।।
इन्द्रस्थाने सभायां वा दिग्भागे पूर्वदक्षिणे ।। २७ ।।
धटं निवेशयेत्तत्र सुसमायां तथा भुवि ।।
यज्ञियस्य तु वृक्षस्य कर्तव्यं मण्डपद्वयम् ।। २८ ।।
मण्डपस्य प्रमाणं तु सप्तहस्तं प्रकीर्तितम् ।।
द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपञ्चकम् ।। २९ ।।
अन्तरञ्च तयोः कार्यं तथा हस्तचतुष्टयम् ।।
मण्डपोपरि काष्ठं च दृढं कुर्याद्विचक्षणः ।। 3.328.३० ।।
चतुर्हस्तं तुलाकाष्ठं त्वव्रणं कारयेत्स्थिरम् ।।
खदिरार्जुनवृक्षाणां शिंशिपासालजं तथा ।। ३१ ।।
तुलाकाष्ठं तु कर्तव्यं तथा वै शिक्यकद्वयम् ।।
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा ।। ३२ ।।
वणिक्सुवर्णकारौ च कुलालः कांस्यकारकः ।।
तुलाधरे धटः कार्यो रिपौ मित्रे तथा समः ।। ३३ ।।
श्रावयेत्प्राड्विवाकोपि तुलाधारं विचक्षणः ।।
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनाम् ।। ३४ ।।
तुलाधरस्य ते लोकास्तुलां धारयतो मृषा ।।
एकस्मिँस्तोलयेच्छिक्ये स्नातं सूपोषितं नरम् ।। ३५ ।।
द्वितीये मृत्तिकां शुभ्रां गौरीं तु तुलयेद्बुधः ।।
इष्टकाभस्मपाषाणकपालास्थीनि वर्जयेत् ।। ३६ ।।
तुलयित्वा ततः पूर्वं तस्मात्तमवतारयेत् ।।
मूर्ध्नि पत्रं ततस्तस्य न्यस्तपत्रं निवेशयेत् ।। ३७ ।।
मन्त्रश्चायं पुरा प्रोक्तः स्वयमेव स्वयम्भुवा ।।
ब्रह्मणस्त्वं सुता देवि तुलानाम्नीति कथ्यसे ।। ३८ ।।
तुकारो गौरवो नित्यं लकारो लघुनि स्मृतः ।।
गुरुलाघवसंयोगात्तुला तेन निगद्यसे ।। ३९ ।।
संशयान्मोचय स्वैनं चाभिशस्तं नरं शुभे ।।
भूय आरोपयेत्तं तु नरं तस्यां सपत्रकम् ।। 3.328.४० ।।
तुलितो यदि वर्धेत शुभो भवति धर्मतः ।।
हीयमाने न शुद्धः स्यादिति धर्मविदो विदुः ।। ४१ ।।
शिक्यच्छेदे तुलाभङ्गे पुनरारोपयेन्नरम् ।।
तथा निःसंशयं ज्ञानं भवतीति विनिश्चयः ।। ४२ ।।
अग्नेर्विधिं प्रवक्ष्यामि शृणुध्वं गदतो मम ।।
सप्तमण्डलकान्कुर्याद्देवब्राह्मणसन्निधौ ।। ४३ ।।
प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ।।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ।। ४४ ।।
पश्चिमे मण्डले तिष्ठेत्प्राङ्मुखः प्राञ्जलिः शुचिः ।।
चरतुरस्रे यथा अस्मिन्कृत्वा चैव समौ करौ ।। ४५ ।।
लक्षयेयुः क्षतादीनि हस्तयोस्तस्य कारिणः ।।
सप्ताश्वत्थस्य पत्राणि बध्नीयुः करयोस्ततः ।। ४६ ।।
नवेन सितसूत्रेण कार्पासेन द्विजोत्तमाः ।।
ततस्तु सुसमं कृत्वा अङ्गुलं त्वेकमायसम् ।।४७।।
पिण्डं हुताशसन्तप्तं पञ्चाशत्पलिकं दृढम् ।।
आदौ पूजां हुताशस्य कारयेद्वसुधाधिपः ।।४८।।
रक्तचन्दनधूमाभ्यां रक्तपुष्पैस्तथैव च ।।
अभिशस्तस्य मन्त्रं च बध्नीयात्तस्य मूर्धनि ।। ४९ ।।
मन्त्रेणानेन संयुक्तं ब्राह्मणाभिहितेन तु ।।
त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे।।3.328.५०।।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्।।
जठरस्थोपि भूतानां त्वं च वेत्सि शुभाशुभम्।।
पापेषु दर्शयात्मानमर्चिष्मान्भव पावक ।। ५१ ।।
अथ वा शुद्धभावेषु शीतो भव महाबल ।।
ततोभिशस्तः शनकैर्मण्डलानि परिक्रमेत् ।। ५२ ।।
परिक्रम्य शनैर्जह्याल्लोहपिण्डं तथा क्षितौ ।।
विमुक्तहस्तं तं पश्चात्कारयेद्व्रीहिमर्द्दनम् ।। ५३ ।।
निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः ।।
भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते ।।५४।।
पुनस्तु चाहरेल्लोहं विधिरेष प्रकीर्तितः ।।
तोयस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।। ५५ ।।
शैवालनक्रमत्स्याद्यैर्वर्जिते स्थावरे जले ।।
धर्मस्थूणा तत्र कार्या पुरुषं धर्मवत्सलम् ।। ५६ ।।
नाभिदघ्नोदकस्थस्य गृहीत्वोत्तं समाविशेत् ।।
मध्यमेनाथ धनुषा मध्यस्थः पुरुषोऽपरः ।। ५७।।
इषुमोक्षं तदा कुर्याद्देशे तृणविवर्जिते ।।
शरमोक्षे समे काले निमज्जेत्पुरुषोप्यसौ ।। ५८ ।।
मूर्ध्नि विन्यस्तपत्रस्तु पेत्रै चैतान्निवेशयेत् ।।
आदिदेवोऽसि देवानां शौचस्याप्यायनं परम् ।। ५९ ।।
पञ्चानां लोकपालानां त्वं वरिष्ठं जगत्पते ।।
त्रायस्वैनं नरं पापात्पश्यसि त्वं शुभाशुभम ।। 3.328.६० ।।
अन्तश्चरसि भूतानां सर्वेषां मोक्षवत्स्थितः ।।
इषुप्रक्षेपणस्थानाद्युवा च बलवान्नरः ।।। ।। ६१ ।।
धावन्स परया शक्त्या शरं तत्समुपातयेत् ।।
आगते तु शरग्राहे तोयस्थश्चेन्न दृश्यते ।। ६२ ।।
शुद्धो भवति धर्मेण यश्चाप्यङ्गं न दर्शयेत् ।।
विषस्यातः प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।।६३।।
शृङ्गिणो वत्सनाभस्य हिमशैलोद्भवस्य च।।
यवास्सप्त प्रदातव्या अथ वा यद्घृताप्लुताः ।। ६४ ।।
मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैतन्निवेशयेत् ।।
त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः । ६५ ।।
त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम् ।।
येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम्।। ६६ ।।
तं तु शुद्धं विजानीयादिति धर्मविदो विदुः ।।
तण्डुलानां प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।। ६७ ।।
चौर्ये तु तण्डुला देया न चान्यत्र कथंचन ।।
तण्डुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत ।। ६८ ।।।
तण्डुलान्कारयेच्छुद्धाञ्शालीनां पृथिवीपतिः ।।
मृन्मयं भाजनं कृत्वा सवितुः पुरतः स्थितः ।। ६९ ।।
तण्डुलान्मंत्रयेच्शुद्धान्मंत्रेणानेन धर्मतः ।।
दीयते सत्त्वधर्मज्ञैर्मानुषाणां विशोधनम् ।।3.328.७०।।
ततस्तण्डुल सत्येन धर्मतस्त्रातुमर्हसि ।।
प्रभाते कारयेदेव भक्षणाय न संशयः ।।७१।।
त्रिविधः प्राङ्मुखस्येह पत्रे निष्ठीवयेत्ततः ।।
पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन ।। ७२ ।।
शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत् ।।
अथातः संप्रक्ष्यामि तप्तमाषकनिर्णयम् ।। ७३ ।।
कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् ।।
चतुरङ्गुलखातं तु मृन्मयं वापि कारयेत् ।। ।। ७४ ।।
पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्ततः ।।
सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम् ।। ७५ ।।
वह्न्यक्तं विन्यसेन्मन्त्रमभिशस्तस्य मूर्धनि ।।
अङ्गुष्ठाङ्गुलियोगेन तप्तमाषं समुद्धरेत् ।। ७६ ।।
शुद्धं ज्ञेयमदग्धं तु विस्फोटादिविवर्जितम् ।।
फालशुद्धिं प्रवक्ष्यामि शृणुध्वं द्विजपुङ्गवाः ।। ७७ ।।
आयसं द्वादशपलं घटितं फालमुच्यते ।।
अष्टाङ्गुलं समं दीर्घं चतुरंगुलविस्तृतम् ।। ७८ ।।
वह्न्यक्तं विन्यसेत्पत्रमभिशस्तस्य मूर्धनि ।।
त्रिः परावर्तयेज्जिह्वां लिहतस्सार्धमङ्गुलम् ।। ७९ ।।
गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम् ।।
जिह्वापरीक्षणं कुर्याद्दग्धां चेन्न विभाव्यते।।3.328.८०।।
तं विशुद्धं विजानीयाद्विशुद्धं चैव मोक्षयेत् ।।
कोषस्याथ प्रवक्ष्यामि विधिं धर्म्यं सनातनम् ।। ८१ ।।
योयो यां देवताभक्तः पाययेत्तस्य तूत्तरम् ।।
समभक्तं तु देवानामादित्यस्यैव कारयेत्।।८२।।
उग्राणामपि देवानां वधस्यैव तु दापयेत् ।।
सर्वेषामेव देवानां स्नापयेदायुधं स्वकम् ।।८३।।
स्नानोदकं वा सकलमाहरेत विचक्षणः ।।
उन्मुखं करणं कृत्वा पाययेत्प्रसृतित्रयम् ।।८४।।
इदं मया नैव कृतं कृतं वाप्यथ शायिना।।८५।।
पीते तु कोशे पुरुषस्य दृष्टा देवोपघातं नृपसंभवं वा ।।
त्रिःसप्तरात्रांतरतो नृपेण भृशं विनेयः पुरुषः स विप्राः।।८६।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दिव्यप्रमाणनिरूपणं नामाष्टाविंशत्युत्तरत्रिशततमोऽध्यायः ।। ।। ३२८ ।।
3.229
हंस उवाच ।।
एका द्वे च तथा तिस्रश्चतस्रश्च यथाक्रमम् ।।
शूद्रविट्क्षत्रविप्राणां भार्याः प्रोक्ता मनीषिभिः ।। १ ।।
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।।
ते च स्वा च तथा राज्ञस्ताश्च स्वा चाग्रजन्मनः ।। २ ।।
न विवर्णा भवेद्भार्या कदाचिदपि कस्यचित् ।।
सवर्णैव भवेज्ज्येष्ठा असवर्णासु सत्स्वपि ।। ३ ।।
अष्टौ विवाहा निर्दिष्टास्तेषां वक्ष्यामि लक्षणम् ।।
आहूय दानाद्ब्राह्मस्तु ऋत्विजैर्दैव उच्यते ।। ।। ४ ।।
गोयुगग्रहणादार्षः प्राजापत्योर्थिते तथा ।।
आसुरो द्रविणादानाद्गान्धर्वस्तु मताद्द्वयोः ।। ९ ।।
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ।।
प्राजापत्यस्तथा दैवो ब्राह्मश्चापि शुभास्त्रयः ।। ६ ।।
गान्धर्वो राक्षसश्चैव मध्यमौ परिकीर्तितौ ।।
आसुरश्चैव पैशाच आर्षश्चैव तथाधमः ।।। ।। ७ ।।
न ते कार्याः प्रयत्नेन कदाचिदपि केनचित् ।।
आसुरस्य तथार्षस्य विशेषो नैव विद्यते ।। ८ ।।
शुक्लमेव ततो ज्ञेयमल्पं वा यदि वा बहु।।
प्राणिविक्रयिणः सर्वे नरकं यान्ति मानवाः।।।।
विशेषेण च यः पुत्रं विक्रीणाति स्वकं नरः ।।
नरके वसतिं तस्य बहूनब्दगणान्विदुः ।। 3.329.१०।।
मृते भर्तरि या कन्या केवलं हस्तदूषिता ।।
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ।। ११।।
इत्येवं केचिदिच्छन्ति न तन्मम मतं द्विजाः ।।।।
सप्तमे हि पदे वृत्ते नान्यमर्हति सा पतिम्।।१२।।
वाचा दत्ता तु या कन्या मन्त्रैश्चैव न संस्कृता।।
अन्यस्य सा भवेद्देया सति भर्तरि दोषिणी।।३।।
नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ।।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते।।१४।।
पितापितामहो भ्राता सकुल्यो जननी तथा ।।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ।। १५ ।।
यस्तु दोषमनाख्याय कन्यकां संप्रयच्छति ।।
स राज्ञा द्विशतं दत्त्वा बिभृयात्तां च कन्यकाम् ।।१६ ।।
अदुष्टामथ यो दुष्टां ब्रूयाद्दोषेण मानवः ।।
प्रथमं साहसं तस्य राजा दण्डं प्रकल्पयेत् ।। १७ ।।
यस्तु दोषवतीं पत्नीं सम्यक्त्वेनानुवर्त्तते ।।
दण्डयित्वा स्वशक्त्या तं समे पथि निवेशयेत्।।१८।।
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता।।
तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम्।।१९।।
भार्याया व्यभिचारिण्या परित्यागो विधीयते ।। 3.329.२० ।।
हीनवर्णगमे चास्या वधमुक्तं मनीषिभिः ।।
भर्त्रनुज्ञां विना राजा स्त्रीणां च प्रभवेत् क्वचित् ।। २१ ।।
अशक्तभर्तृकां नारीं शासयेत्तदनुज्ञया ।।
योन्यस्मै कन्यकां दत्त्वा भूयोन्यस्मै प्रयच्छति ।। २२ ।।
वित्तस्यांशं तुरीयं तु तं राजा दण्डयेन्नरम् ।।
भर्तृदोषे समुत्पन्ने न सा दण्डमवाप्नुयात् ।। २३ ।।
यस्तु न व्रजते भार्यामृतुकाले नराधमः ।।
ऋतावृतौ भवेद्दंड्यः स सुवर्णस्य माषकम् ।। २४ ।।
आहूयमाना या भार्या भर्तारं न व्रजेदृतौ ।।
विवास्या सा भवेद्भर्त्रा दोषं व्याख्याप्य मातरम् ।।२५ ।।
यस्त्यजेच्च तथा भार्यामदुष्टां पुरुषाधमः ।।
स सुवर्णं भवेद्दंड्यो बिभृयात्तां तथा पुनः ।। २६ ।।
विषमं परिणीतासु वर्तते यस्तु मानवः ।।
सवर्णासु भवेद्दण्ड्यः सुवर्णं स महीक्षिता ।। २७ ।।
त्रीणि वर्षाण्युपासीत कुमार्यृतुमती सती ।।
उक्तकालात्परं कन्या विन्देत सदृशं पतिम् ।। २८ ।।
अलङ्कारं नाददीत पित्र्यं कन्या स्वयं वरात् ।।
मातृकं भ्रातृदत्तं वा स्तेयं वा स्याद्धि तं हरेत् ।। २९ ।।
कन्यान्तु चेदृतुमतीं पुरुषो न दद्याच्छक्तोपि न द्विजवरश्च स दण्डनीयः।।
स्वाम्यं न तां प्रति च तस्य भवेत्कदाचित्पुत्रीमृतौ न ददतो न पुनर्द्विजत्वम।।3.329.३०।।
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु विवाहधर्मनिरूपणो नामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३२९ ।।
3.330
।। हंस उवाच ।। ।।
औरसः पुत्रिकापुत्रः क्षेत्रजश्च तथा परः ।।
पौनर्भवश्च कानीनः सहोढश्च तथा सुतः ।। १ ।।
गूढोत्पन्नो दत्तकश्च क्रीतश्चैव तथा परः ।।
अपविद्धस्तूपगतः शूद्रापुत्रस्तथैव च ।। २ ।।
एते द्वादश वै पुत्रास्तेषां वक्ष्यामि लक्षणम् ।।
संस्कृतायां स्वयं जातः पुत्र औरस उच्यते ।। ३ ।।
अस्यामुत्पद्यते पुत्रो यः स मे भविता सुतः ।।
एषा दत्तापि या पित्रा पुत्रिका सा निगद्यते ।। ४ ।।
विना वचनदत्तापि भ्रातृहीना तु पुत्रिका ।।।
तत्पुत्रः पुत्रिकापुत्रो द्वितीयः परिकीर्तितः ।। ५ ।।
देवराद्वा सगोत्राद्वा ब्राह्मणाद्वा विचक्षणात् ।।
नियोगोत्पादितः पुत्रः क्षेत्रजः परिकीर्तितः ।।६।।।
स्वैरिणी या पतिं हित्वा कामतोन्यं समाश्रयेत् ।।
पौनर्भवस्तु तत्पुत्रः चतुर्थः परिकीर्तितः ।। ७ ।।
असंस्कृतायामुत्पन्नः कानीनो भर्तुरेव सः ।।
गर्भिणी या संस्क्रियते सहोढस्तत्सुतो मतः ।। ८ ।।
गृहे च गूढमुत्पन्नो गृहोत्पन्नः प्रकीर्तितः ।।
तस्यां सकाशात्क्रीतश्च क्रीतपुत्रो निगद्यते ।।
ताभ्यां चैवापविद्धस्तु त्वपविद्धस्तु स स्मृतः ।।९।।
विधृतो येन यस्यासौ पुत्रत्वेन निगद्यते ।।
स्वयं यश्चाभ्युपगतः पुत्रत्वे द्विजसत्तमाः।।3.330.१०।।
आदौ तु पुत्रिकापुत्रः पश्चाज्जातस्त्वथौरसः ।।
औरसेन समांशस्तु तत्र स्यात्पुत्रिकासुतः।।११।।
जाते तु पुत्रिकापुत्रे क्षेत्रजोत्पादनं वृथा ।।
समाः समांशिनो ज्ञेया यादृशास्तादृशाः सुताः ।।१२।।
प्रतिलोमभवाः पुत्रा न तु रिक्थस्य भागिनः ।।
धनभाग्भरणं तेषां कर्मणा कर्तुमर्हति ।। १३ ।।
तदपत्याः पितृवधे भागिनः परिकीर्तिताः ।।
पैतामहेन ते वित्ते स्वाम्यमर्हति केनचित् ।। १४ ।।
जडान्धबधिरोन्मत्ता भर्तव्यास्तु निरंशकाः ।।
तेषाम्रिमृक्थहराः पुत्रा धने पैतामहे सुताः।।१५।।
पतितानां न भागोस्ति तत्सुतानां च धर्मतः ।।
कर्मणः प्राक्समुत्पन्नाः पतनीयस्य ये सुताः।।१६।।
तेषाम्रिक्थं प्रदातव्यं न तु ते पतिताः स्मृताः।।
प्रायश्चित्ते तथा चीर्णे पतितो भागमर्हति।।१७।।
तत्पुत्रोऽपि तथा विप्रा नात्र कार्या विचारणा ।।
पिता चेद्विभजेत्पुत्रान्स्वेच्छा तस्य स्वके धने ।। १८ ।।
पैतामहे त्वस्वतन्त्रः पिता भवति धर्मतः ।।
पितामहार्जिते वित्ते पितुः पुत्रस्य चोभयोः ।। १९ ।।
स्वाम्यन्तु सदृशं ज्ञेयं पुत्रश्चेद्गुणवान्भवेत् ।।
पितुरूर्ध्वं विभजतां माताप्यंशं सुसंहरेत् ।। 3.330.२० ।।
सवर्णास्तु सुताः सर्वे तथा ज्ञेयाः समांशिनः ।।
ज्येष्ठस्य किञ्चिदधिकं दातव्यं नात्र संशयः ।। २१ ।।
ब्रह्मदेवासुतस्यापि तौ हि मान्यतमौ समौ ।।
पैशाचाऽसुरयोर्जातौ यथा पौनर्भवस्तथा ।। २२ ।।
चतस्रस्तु यदा भार्या भवन्ति ब्राह्मणस्य तु ।।
तासां पुत्रेषु दायं यत्तद्वित्तं विभजेन्नृपः ।। २३ ।।
चतुरोंशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः ।।
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ।। २४ ।।
ब्राह्मणौ यदि पुत्रौ द्वौ चैकः शूद्रासुतो भवेत् ।।
नवधा ब्राह्मणधनं विभज्यमिति निश्चयः ।। २५ ।।
अष्टौ ब्राह्मणयोर्भागाः शूद्रस्य नवमो भवेत् ।।
द्वौ विज्ञेयौ सुतौ स्यातामेकश्च ब्राह्मणीसुतः ।। २६ ।।
ब्राह्मणस्वं तथा षोढा विभज्यमिति निश्चयः ।।
द्वावंशौ शूद्रयोर्देयौ चतुरोंशा हि वै द्विजाः ।। २७ ।।
अनेनैवानुसारेण सर्वत्रैवांशकल्पना ।।
असवर्णासु जातानां कर्तव्या पृथिवीक्षिता ।। २८ ।।
षोढा तत्क्षत्त्रियधनं कर्तव्यमिति निश्चयः ।।
क्षत्त्रियायां ततः पुत्रा वित्ततोंशत्रयं हरेत् ।। २९ ।।
वैश्यापुत्रो हरेद्द्व्यंशमंशं शूद्रासुतो हरेत् ।।
वैश्यास्वं तु त्रिधा कार्यं शृणु तत्रापि कल्पना ।। 3.330.३० ।।
वैश्यापुत्रो हरेद्व्यंशमंशं शूद्रासुतो हरेत् ।।
अपुत्रस्य तु दौहित्रो रिक्थमर्हति धर्मतः।।३१।।
दौहित्रस्याप्यभावे तु दुहितापि धनं हरेत्।।
तदभावे तदा भार्या तदभावे सहोदरः ।।
तस्याप्यभावे जननी तदभावे पिता हरेत् ।।
भ्रातरस्तदभावे तु भ्रातृपुत्रस्ततो हरेत् ।। ३२ ।।
सहोदरभ्रातृसुतो विद्यमाने कथंचन ।।
नान्यभ्रातृभवो भ्राता प्राप्नुयादिति निश्चयः ।। ३३ ।।
अन्यभ्रातृभवभ्रातुः पुत्रो यत्र व्यवस्थितः ।।
पितृव्यभ्रातृपुत्रस्तु नैव तत्र धनं हरेत् ।। ३४ ।।
अनन्तरं सपिण्डाद्यस्तस्यतस्य धनं हरेत् ।।
तदभावे सकुल्यस्य तदभावे गुरोर्भवेत् ।। ३५ ।।
शिष्यस्य तदभावे तु द्विजानां तदभावतः ।।
त्रैविद्याः समया दान्तास्तस्य वित्तस्य भागिनः ।। ३६ ।।
ब्राह्मणस्वमनाहार्यं पार्थिवानां सदा भवेत् ।।
इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः ।।३७।।
पुत्रौ तु विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।।
तयोर्यद्यस्य पित्र्यं स्यात्तत्संगृह्णीत नेतरः ।।३८।।
मातृकं यद्भवेद्वित्तं कुमारीणां तु तद्भवेत् ।।
तदभावे तु सोढानां सुतानां तदभावतः ।। ३९ ।।
अध्यग्न्यध्यावनिकं दत्तं च प्रीतिकर्मणा ।।
भ्रातृमातृपितृप्राप्ते षड्विधं स्त्रीधनं स्मृतम् ।। 3.330.४० ।।
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद्द्वयम् ।।
अप्रजायामतीतायां भर्तुरेव तदिष्यते ।।४१।।
यथान्येषु पितृगामि . . . धनानि . . . भवेत् ।।
पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत्।।४२।।
न तं भजेरन्दायादा भजमानाः पतन्ति ते ।।
भ्रातृणामेकजातानां यद्येकः पुत्रवान्भवेत् ।। ४३ ।।
सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ।।
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् ।। ४४ ।।
पुत्रवत्यस्तु तास्सर्वास्तेन पुत्रेण कीर्तिताः ।।
अनुपघ्नं पितृद्रव्यं श्रमेण यदुपार्जितम् ।। ४५ ।।
स्वयमीहितलब्धं तं नाकामो दातुमर्हति ।।
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।। ४६ ।।
म्रियेतान्यतरो वाऽपि तस्य भागो न नुलुप्यते ।।
सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ।। ४७ ।।
भ्रातरो ये च संसृष्टा भगिन्यश्च सजातयः ।।
विभक्ते तु धने जाताः पित्र्यमेव धनं हरेत् ।। ४८ ।।
विभक्तैर्वास्य दातव्यमंशमंशानुरूपतः ।।
स्वभागस्यानुसारेण दत्त्वा भागं यथाक्रमम् ।। ४९ ।।
असंस्कृतास्तु संस्कार्या विभक्तैः कन्यकास्तथा ।।
प्रविभागे कृते यत्र पश्चाछिष्येत वै धनम् ।। 3.330.५० ।।
पूर्वोक्तेनानुसारेण विभागं तत्र कारयेत् ।।
वस्त्रं पत्रमलङ्कारं कृतान्नमुदवकं स्त्रियः ।। ५१ ।।
योगक्षेमप्रचारे च न विभज्यं च पुस्तकम् ।।
रिक्थग्राही ऋणं दद्यात्पिण्डं दद्यात्स एव तु ।। ५२ ।।
भर्तव्यान्बिभृयात्तस्य सर्वानिति मतिर्मम ।।
रिक्थग्राही न यः कुर्यात्प्रेतकर्म यथाविधि ।।५३ ।।
तस्करं तं स्वकाद्राष्ट्रात्क्षिप्रं राजा विवासयेत् ।।
राजगामी भवेद्विप्रा यस्य वित्तं तु कर्हिचित् ।। ५४ ।।
राजापि दापयेत्पिण्डं तस्य भृत्यैर्यथाविधि ।।
यस्यां नराणामिह वित्तभागी ऋणस्य भागी स तथा निरुक्तः ।।
ऋणावशिष्टं पुरुषस्तु नित्यं भुक्त्वा द्विजेन्द्राः सुकृती सदा स्यात् ।। ५५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दायविभागवर्णनो नाम त्रिंशदुत्तरत्रिशततमोऽध्यायः ।। ३३० ।।