विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३२१-३२५

विकिस्रोतः तः
← अध्यायाः ३१६-३२० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३२१-३२५
वेदव्यासः
अध्यायाः ३२६-३३० →

3.321
।। ऋषय ऊचुः ।। ।।
क्व काले कर्मणा केन प्राप्नुवन्ति नरोत्तमाः।।
तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदर्हसि ।। १ ।।
।। हंस उवाच ।। ।।
ज्येष्ठस्वसारं पितरं मातरं गुरुमेव च ।।
नित्यं सम्पूजयेद्भक्त्या याम्यलोके महीयते ।। २ ।।
भोजनाच्छादनाद्येन त्वतिथिं चैव पूजयेत् ।।
राजराजस्य लोकेषु मोदते नात्र संशयः ।। ३ ।।
मेरोः समीपं गच्छन्वै नित्याध्ययनतत्परः ।।
सुदर्शना यत्र च सा जम्बूः ख्याता द्विजातयः ।। ४ ।।
नृत्ते गीते च कुशलं नन्दनं यान्ति ते वनम् ।।
हिमानि वृत्ता गच्छन्ति तथा चैवोत्तरान्कुरून् ।। ५ ।।
नित्यं दानपराः सन्तो लोकं गच्छन्ति शाश्वतम् ।।
आदित्यलोकं गच्छन्ति तथा ये तपसि स्थिताः ।। ६ ।।
तीर्थयात्रापरा यान्ति तथा लोकं प्रचेतसः ।।
संग्रामे निहता यान्ति शक्रलोकमसंशयम् ।। ७ ।।
प्राजापत्यं तथा यांति सम्यग्वृत्वा महीक्षितः ।।
गवां पत्या तथा यांति गोलोकं मानवोत्तमाः ।। ८ ।।
यान्ति लोकं च सूर्यस्य नित्यं ये सत्यभाषिणः।।
प्रतिग्रहान्निवृत्ताश्च वसूनामपि मानवाः ।। ९ ।।
वायुलोके महीयन्ते रोगिणां परिचारकाः ।।
लोकं गच्छन्त्यथाग्नेयं वह्निशुश्रूषणे रताः ।। 3.321.१० ।।।
यांति ते नैर्ऋतं लोकं प्रपारक्षणतत्पराः ।।
भृगूणामपि लोकेषु मोदन्त्याकाशशायिनः ।। ११ ।।
यांति चाङ्गिरसं लोकं व्रतेनानेन मानवाः ।।
मरुतां च तथा लोकं यांति यानप्रदा नराः ।। १२ ।।
नासत्यलोके मोदन्ते तथैवौषधदायिनः ।।
रुद्रलोकं प्रपद्यन्ते गोविप्रनरवत्सलाः ।।१३ ।।।
स्वाचारनिरता यांति वैश्वदेवमसंशयम् ।।
आदित्यैः सह मोदंते दयावन्तस्तु ये नराः ।। १४ ।।
ब्रह्मलोकं विष्णुलोकं रुद्रलोकं तथैव च ।।
तद्भक्तैरेव लभ्यन्ते नान्यथा द्विजसत्तमाः।।१५।।
यस्य देवस्य यो भक्तिं सदा वहति मानवः।।
सम्पदस्तस्य सालोक्यं यांति नास्त्यत्र संशयः।।१६।।
लोकेषु दिव्येषु गतिर्मयोक्ता कर्मानुरूपा पुरुषस्य विप्राः ।।
अतः परं किं कथयाम्यहं वै तन्मे गदध्वं तपसि प्रधानाः ।। १७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोकविभागवर्णनो नामैकविंशत्यधिकत्रिशततमोऽध्यायः ।। ३२१ ।।
3.322
।। ऋषय ऊचुः ।।
कथयस्वामितप्राज्ञ स्त्रीणां धर्ममतः परम् ।।
तद्वयं श्रोतुमिच्छामस्त्वं हि सर्वविदुच्यसे ।। १ ।।
।। हंस उवाच ।।
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः ।।
सधर्मचारिणी भर्तुर्भवेदग्निसमीपतः।।२।।
सुस्वभावा सुविमना सुविभक्ता सुदर्शना ।।
अनन्यचित्ता सुमुखी भर्तुस्सा धर्मचारिणी ।। ३ ।।
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षती ।।
या साध्वी नियताचारा सा भवेद्धर्मचारिणी ।। ४ ।।
श्रुत्वेदं पतिधर्मं वै महाश्रमकृतं शिवम् ।।
या भवेद्धर्मपरमा नारी भर्तृसमव्रता।।५।।
देववत्सततं साध्वी भर्तारमनुपश्यति।।
शुश्रूषां परिचर्याञ्च देवतुल्यं प्रकुर्वती ।।६।।
वश्याभावेन सुमनाः सुव्रता सुसमाहिता ।।
अनन्यचित्ता सुमना भर्तुः सा धर्मभागिनी।।७।।
पारुष्यमपि वोक्ता या दृष्टा वा क्रूरचक्षुषा ।।
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता।।८।।
न चन्द्रसूर्यौ तद्रूपं नेनौ या च निरीक्षते।।
भर्तृवर्जं वरारोहा सा भवेद्धर्मभागिनी।।९।।
दरिद्रं व्याधितं दीनं चाधिना परिकीर्तितम् ।।
पतिम्पुत्रमिवारक्षेत्सा नारी धर्मभागिनी ।। 3.322.१० ।।
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् ।।
पतिव्रता पतिप्राणा सा नारी धर्मभागिनी ।। ११ ।।
शुश्रूषां परिचर्याञ्च करोत्यविमनाः सदा ।।
सुप्रतीता सुमनाः सा नारी धर्मभागिनी ।। १२ ।।
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा ।।
स्पृहा यस्या यथा भर्तुः सा नारी धर्मभागिनी ।। १३ ।।
कामार्था न व्रता नित्यं गृहशुश्रूषणे रता ।।
सुसम्मृष्टक्षया चैव गोशकृत्कृतलेपना ।। १४ ।।
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा ।।
देवतातिथिभृत्यानां निरूप्य पतिना सह ।। १५ ।।
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि ।।
तुष्टभृत्यजना नित्यं नारीधर्मेण युज्यते ।। १६ ।।
श्वश्रूश्वशुरयोः पादाँस्तोषयन्ती गुणान्विता ।।
मातापितृरता नित्यं या नारी सा तपोधना ।। १७ ।।
ब्राह्मणान्दुर्बलानाथदीनान्धकृपणाँस्तथा ।।
बिभर्त्यनेन या नारी सा पतिव्रतभागिनी ।। १८ ।।
व्रतञ्चरति या नित्यं दुश्चरं स्पष्टमानसा ।।
पतिचित्ता पतिरता सा पतिव्रतभागिनी ।। १९ ।।
पुण्यमेतत्तपश्चैव स्वर्गश्चैव सनातनः ।।
या नारी भर्तृपरमा भवेद्भर्तृवता शिवा ।।3.322.२०।।
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः ।।
पत्या गतिः समा नास्ति दैवतं वा यथा पतिः ।।२१।।
पतिः स्वर्गप्रदो नार्या यदा तल्पमना भवेत् ।।
यद्यत्कार्यमकार्यं वा यदि वा प्राणनाशनम् ।। २२ ।।
पतिः पातकयुक्तो वा व्याधितो वा कथञ्चन ।।
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा ।। २३ ।।
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ।।
स्वातंत्र्यमुक्तम्परमं हि पापं स्त्रीणां सदा तेन सदैव नारी ।।
स्वातन्त्र्यहीना सततम्भवेद्धि या कामयेन्नाकमितश्चिराय ।। २४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र सं० मुनीन्प्रति हंसगीतासु स्त्रीधर्मनिरूपणोनाम द्वाविंशत्यधिकत्रिशततमोऽध्यायः ।। ३२२ ।।
3.323
।। हंस उवाच ।। ।। ।।
स्वेस्वे धर्मे व्यवस्थानं वर्णानां पृथिवीपतेः ।।
परो धर्मः सदा प्रोक्तस्तत्र यत्र भवेन्नरः ।। १।।
देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम् ।।
निग्रहश्चैव दुष्टानान्नृपतेर्धर्मकारणम् ।। २ ।।
समता व्यवहारेषु स्वयञ्चैवान्ववेक्षणम् ।।
राज्ञां धर्मं परं विद्यात्तथा वै चारदृष्टिता ।। ३ ।।
स्वदेशपालनं धर्मः परराष्ट्राभिमर्दनम् ।।
यज्ञदानक्रिया चैव संग्रामे चापलायनम् ।। ४ ।।
मृगयाक्षा तथा पानं गर्हितानि महीभुजाम् ।।
वाग्दण्डयोस्तु पारुष्यन्तथैवार्थस्य दूषणम् ।। ५ ।।
सन्धिविग्रहदानानामासनस्य तथैव च ।।
द्वैधीभावस्य चाप्युक्ता सेवा वै संश्रयस्य च ।। ६ ।।
ज्ञात्वा कालञ्चलं राजा षाड्गुण्यस्य हि निश्चये ।।
इन्द्रियाणाञ्जये यत्नः सदा स्याद्द्विजपुङ्गवाः ।। ७ ।।
ततो भृत्यजयः कार्यः समस्तविजयस्ततः ।।
कामः क्रोधो मदो लोभो मानो हर्षस्तथैव च ।। ८ ।।
आभ्यन्तरा विजेतव्या रिपवः षण्महीभुजा ।।
ततस्तु शत्रवो जेयाः कुल्याश्चेतरकृत्रिमाः ।।९।।
भूमिमित्रहिरण्यानामर्ज्जने यत्नवान्भवेत् ।।
धर्मार्थकामसेवा च सदा कार्या महीक्षिता ।। 3.323.१० ।।
स्वाम्यमात्यञ्जनं दुर्गं कोशो दण्डः सुहृत्तथा ।।
राज्ये प्रकृतयः सप्त रक्ष्या यत्नेन भूभुजा ।। ११ ।।
दैवमन्त्रप्रभूत्साहशक्तियुक्तस्तथा भवेत् ।।
मङ्गलाचारयुक्तानां सिध्यन्ते देवशक्तयः ।। १२ ।।
चतुरङ्गबलं कुर्यात्सुभृतञ्च तथा नृपः ।।
कर्मणा मनसा वाचा सदा लोकं प्रसादयेत् ।। १३।।
महच्चावरणं कार्यन्नित्यमेव समृद्धये ।।
राजा सहायसम्पन्नः पशव्यञ्जाङ्गलं शिवम्।।१४।।
वैश्यशूद्रजनप्रायमरोगं देशमावसेत।।
तत्र दुर्गाणि कुर्वीत स्वदुर्गञ्च विशेषवत् ।। १५ ।।
धन्वदुर्गम्महीदुर्गं गिरिदुर्गन्तथैव च ।।
अदुर्गं वृक्षदुर्गञ्च नरदुर्गन्तथैव च ।। १६ ।।
एषामन्यतमे दुर्गे धनधान्यसमायुते ।।
हस्त्यश्वरथसम्पन्ने मणिभीरूपशोभिते ।। १७ ।।
पत्त्याढ्ये योधबहुले युद्धोपकरणैर्युते ।।
सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ।। १८ ।।
हस्त्यश्वनरगोवैद्यसांवत्सरयुते शुभे ।।
घृततैलौषधियुते सर्वोपकरणैस्तथा ।। १९ ।।
प्राकारपरिखावप्रगोपुराट्टालकैर्युते ।।
पापतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते।।3.323.२०।।
दैवज्ञस्थपतिभ्यान्तु संमत्या शुभलक्षणम् ।।
तत्रावसेत्स्वयं राजा सर्वोपकरणैर्युतम् ।। २१ ।।
कुलीनां रूपसम्पन्नां सवर्णाञ्च नराधिपः ।।
कुर्याद्भार्यां सुशीलाञ्च विनीतां धर्मवत्सलाम् ।। २२ ।।
तया सह सदा राजा गृहस्थाश्रमचोदितम् ।।
पञ्चयज्ञविधानन्तु कारयेत पुरोहितम् ।। २३ ।।
यजेच्च विविधैर्यज्ञैः पूजयेद्देवतास्तथा ।।
देवतायतनान्कूपांस्तडागांश्चैव कारयेत् ।। ।। २४ ।।
उद्यानानि विचित्राणि गोब्राह्मणगृहाणि च ।।
दुष्टदण्डः सताम्पूजा धर्मेण च धनार्जनम् ।। २५ ।।
राष्ट्ररक्षा समत्वञ्च व्यवहारेषु पञ्चकम् ।।
भूमिपानाम्महायज्ञाः सर्वकल्मषनाशनाः ।। २६ ।।
गणं लक्षणसंयुक्तं तुरगञ्चाभिषेचयेत् ।।
सलक्षणं तथा रत्नं खड्गकम्बिभृयान्नृपः ।। २७ ।।
दुर्गस्थश्च नियुञ्जीत ग्रामेग्रामे च पालकान् ।।
दशग्रामाधिपांश्चान्यं शतग्रामाधिपांस्तथा ।। २८ ।।
देशेश्वरांस्तथा कुर्यान्नगरस्थान्विशेषतः ।।
ग्रामदोषान्समुत्पन्नान् ग्रामपालः शमं नयेत् ।। २९ ।।
अशक्तश्च दशेशाय स तु गत्वा निवेदयेत् ।।
शतेशाय दशेशस्तु शतेशो देशपाय च ।।3.323.३०।।
ग्रामादिपालकानां तु शौचाशौचं नराधिपः ।।
चारैः सुविदितं कुर्याज्ज्ञात्वा दुष्टांश्च घातयेत् ।। ३१ ।।
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद्वसुन्धराम् ।।३२ ।।
तथा च रक्षाधिकृताननुरूपेण योजयेत् ।।
विभवेन द्विज श्रेष्ठाः परीक्ष्य च पुनःपुनः ।।३३।।
राजा कर्मनियुक्तानां स्त्रीणां प्रेष्यजनस्य च ।।
प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ।।३४।।
आयद्वारांश्च नोच्छिन्द्याद्विशेषद्वारकानपि ।।
सम्यग्बलिश्च गृह्णीयान्मालाकारोपमां नृपः ।। ३५ ।।
क्रयविक्रयमध्वानं भक्तञ्चासपरिव्ययम् ।।
योगक्षेमञ्च सम्प्रेक्ष्य वणिजो दापयेत्करम् ।। ३६ ।।
यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् ।।
तथावेक्ष्य नरो राष्ट्रे कल्पयेत्सततं करम् ।। ३७ ।।
पञ्चाशद्भाग आदायो राज्ञाम्पशुहिरण्ययोः ।।
धान्यानाञ्च तथा षष्ठं सस्यानाञ्च महीक्षिता ।। ३८ ।।।
षष्ठमेव तथा भागं माषाणां मधुसर्पिषाम् ।।
गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ।। ३९ ।।
पत्रशाकतृणानाञ्च चर्मणां द्वैदलस्य च ।।
मृन्मयानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ।। 3.323.४० ।।
यत्किञ्चिदपि वर्षस्य दापयेत्करसंज्ञितम् ।।
व्यवहारेण जीवन्तं राष्ट्रे राज्यं पृथक्पृथक् ।। ४१ ।।
राजदूतकरेभ्यश्च गृह्णीयात्पञ्चकं शतम् ।।
पञ्चपञ्चशतन्तत्र समिकः प्राप्तुमहर्ति ।। ४२ ।।
कारुकाञ्शिल्पिनश्चैव शूद्रधर्मोपजीविनः ।।
एकैकं कारयेत्कर्म मासिमासि महीपतिः ।। ४३ ।।
स्वदेशपण्याच्छुल्कांशं गृह्णीयाद्दशमं नृपः ।।
विदेशपण्याच्च तथा देयम्पञ्चशतं समम् ।। ४४ ।।
शुल्कस्थानम्भवेदेकं न द्वितीयं कथञ्चन ।।
शुल्कं भूयस्तु गृह्णीतश्चौरस्याप्नोति किल्बिषम् ।।४५।।
न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ।।
न भैक्ष्यलब्धेन हतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ।। ४६ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु राजधर्म्मनिरूपणो नाम त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ।। ३२३ ।।
3.324
ऋषय ऊचुः ।।
राज्ञो धर्मस्त्वया प्रोक्तो व्यवहारान्ववेक्षणम् ।।
तदस्माकं त्वमाचक्ष्व त्वं हि सर्वविदुच्यसे ।।१।।
हंस उवाच ।।
आसीत्कृतयुगे पूर्वे प्रजाधर्मनिबन्धनः ।।
ततस्त्रेतायुगे तेषां धर्मो नाशमुपागमत् ।। २ ।।
धर्मे नष्टे मनुष्याणां व्यवहारः प्रवर्तितः ।।
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ।। ।।३ ।।
कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ।।
द्रष्टारो व्यवहाराणां गुरवो ह्युत्तरोत्तरम् ।। ४ ।।
व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।।
धर्मशास्त्रानुसारेण रागद्वेषविवर्जितः ।। ५।।
कुलोद्गता स्थिता धर्मे मृजायुक्ताः श्रुतान्विताः ।।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ।। ।। ६ ।।
अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ।। ।।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ।। ७ ।।
क्षत्त्रियस्त्वथ वा वैश्यो न तु शूद्रः कदाचन ।।
यस्य राज्ञस्तु विषये शूद्रो धर्मविवेचकः ।। ८ ।।
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ।।
विवादाद् द्विगुणं दंडं कूटकृत्साक्षिणस्तथा ।। ९ ।।
द्विगुणं च तथा सभ्या रागद्वेषव्यवस्थिताः ।।
दुर्मृष्टव्यवहारेण राज्ञा वित्तं यदर्जितम् ।। 3.324.१० ।।
त्रिंशद्गुणं तु दातव्यं ब्राह्मणेष्वथ वांभसि ।।
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।। ११ ।।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ।।
प्रत्यर्थिनस्तथा कुर्यादाह्वानं पृथिवीपतिः ।। १२ ।।
अनागच्छञ्जितो राज्ञा विनेयः पुरुषो भृशम्।।
नदीसन्तारकारण्यदुर्देशोपप्लवादिषु ।।१३।।
नागस्थो न स दंड्यः स्यान्नासौ राज्ञोपराध्यति ।।
निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः।।१४।।
अभियुक्तस्तथान्येन राजकार्यरतस्तथा ।।
गवां प्रचारे गोपालाः सम्पत्काले कृषीवलाः ।।१५ ।।
शिल्पिनश्चैव तत्कालं चायुधेयाश्च विग्रहे ।।
अपास्तव्यवहाराश्च दूतदानो मुखी व्रते ।। १६ ।।
विषमस्थश्च नासाध्या नचैनांश्चाह्वयेन्नृपः ।।
प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिनः ।। १७ ।।
समामासतदर्धाहर्ज्ञातिनामादिचिह्नितम् ।।
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।।१८।।
ततोर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ।।
चतुर्धा तच्च कथितं मुनिभिस्तत्त्वदर्शिभिः ।।१९ ।।
लिखितं साक्षिणो भुक्तिश्चतुर्थी वैदिकी क्रिया ।।
सारस्तु व्यवहाराणां प्रतिष्ठा समुदाहृता ।।3.324.२० ।।
तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोन्यथा ।।
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । २१ ।।
कुर्यात्प्रत्यभियोगं च कलहे साहसेषु व ।।
उभयोः प्रतिभुवौ ग्राह्यौ समर्थौ कार्यनिर्णये ।। ।। २२ ।।
साहसस्तेयपारुष्ये ह्यभिशापात्यये स्त्रियम् ।।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ।। २३ ।।
देशाद्देशान्तरं याति सृक्किणी परिलेढि च ।।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ।।२४।।
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।।
अभियोगेथ वा साक्ष्ये दुष्टः स परिकीर्त्यते ।। २५ ।।
आकारैरिङ्गितैर्गत्या चेष्टितैर्भाषितेन च ।।
नेत्रवक्त्रविकाराभ्यां गृह्यतेंऽतर्गतं मनः ।। २६ ।।
त्रिपक्षाद्विजितो ज्ञेयस्तूत्तरस्याप्रयच्छतः ।।
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया।।२७।।
आधौ प्रतिग्रहे क्रीते पूर्वात्तु बलवत्तरा ।।
सर्वोपद्रवकर्तारमेकदेशविभावितम् ।।२८।।
सर्वस्माद्धीयते चार्थादिति धर्मविदो विदुः ।।
बलोपधिनिवृत्ताँस्तु व्यवहारान्निवर्त्तयेत् ।।२९।।
स्त्रीनक्तमन्तरागारबहुशत्रुकृताँस्तथा ।।
रोगार्त्तभीतव्यसनिबालशिष्यकृतानि तु ।। 3.324.३० ।।
अकृतानि विजानीयात्तथा दासकृतानि तु।।
गुरोर्वाक्येन शिष्यस्य पितृवाक्यात्सुतस्य च ।। ३१ ।।
दासस्य स्वामिवाक्येन व्यवहारस्तु सिद्ध्यति ।।
स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ।।३२ ।।
विशेषतो धनक्षेत्रे दायादधनविक्रमाः ।।
एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ।। ३३ ।।
पुरः पत्युरभावेन राजा वा पितृपुत्रयोः ।।
बाल आषोडशावर्षात्पौगण्डश्चाभिशस्यते ।। ३४ ।।
परतो व्यवहारज्ञः स्वतन्त्रः पितरं विना ।।
अप्राप्तव्यवहारस्य स्वातंत्र्यं मातुरुच्यते ।। ३५ ।।
अस्वतन्त्रकृतान्याहुरप्रमाणानि पंडिताः ।।
नानियुक्तेन वक्तव्यं व्यवहारे कथंचन ।। ३६ ।।
अनियुक्तवचो दण्ड्यो राजा रुक्मस्य कृष्णलम् ।।
नियुक्तो न नियुक्तो वा विद्या वाक्यमुदाहरन् ।। ३७ ।।
सर्वस्वरहितः कार्यो लेखकोऽनृतलेखकः ।।
लेखकस्य च सभ्यानां साक्षिणां यश्च दूषकः ।।३८।।
अनाहूतस्य चाह्वाने आहूतस्य च मोक्षणे ।।
अजितोऽस्मीति मन्वानो ब्रूयात्तं तु पराजितम् ।। ३९ ।।
राजा तान्विनयेद्विप्रान्दंडेन द्विगुणेन च ।।
सभा वा न प्रवेष्टव्या वक्तव्यं वासमंजसम् ।। 3.324.४० ।।
अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ।।
पादो धर्मस्य कर्तारं पादः साक्षिणमेव च ।। ४१ ।।
पादः सभासदः सर्वान्पादो राजानमृच्छति ।।
राजा भवत्यनेनास्तु निन्दार्हो यत्र निन्द्यते ।। ४२ ।।
एनो गच्छति कर्तारं मुच्यन्ते च सभासदः ।।
छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः।।४३।।
भूतमप्यनुपन्यस्तं व्यवहारेण हीयते।।
सपणश्चेद्विवादः स्यातद्धनं दापयेन्नरः।।
दण्डं च स्वपणं चैव धनिके धनमेव च।।४४।।
न सा सभा यत्र न संति वृद्धा न ते वृद्धा ये न वदंति धर्मम्।।
न तद्धर्मं यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम्।।४५।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा० संवादे मुनीन्प्रति हंसगीतासु व्यवहारनिरूपणो नाम चतुर्विंशत्युत्तरत्रिशततमोऽध्यायः ।।३२४।।
3.225
हंस उवाच ।।
संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ।।
आगमः कारणं तत्र न भोगस्तत्र कारणम्।।१।।
आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।।
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ।। २ ।।
आहंतैवाभियुक्तः सन्नर्थानामुद्धरेत्पदम् ।।
भुक्तिरेव विशुद्धा स्यात्प्राप्तानां पितृतः क्रमात्।।३।।
अन्वाहितः ..... हेले विस्पष्टयाचितम् ।।
अप्रत्यक्षं च यद्भुक्तं न चेद्भोगेन जीर्यते।।४।।
पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।।
परेण भुज्यमानाया धनस्य दशवार्षकी ।। ५ ।।
त्रिभिरेव तु यद्भुक्तं पुरुषैस्तु यथाविधि ।।
लेख्याभावेपि तं तत्र चतुर्थः समवाप्नुयात् ।। ६ ।।
आगमोप्यधिको भुक्तेर्विनापूर्वक्रमागतात् ।।
आगमोपि बली नैव भुक्तिस्तत्रापि यत्र न।।७।।
आध्याभिहस्ता स भृशं विनेया दण्डेन विप्रा द्विगुणेन राज्ञा ।।
लोके न दुष्टः स तु कंटकः स्यात्पापात्मनां मूर्धनि तिष्ठतीति।।।।।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु भोगलक्षणवर्णनो नाम पञ्चविंशत्युत्तरत्रिशततमोऽध्यायः ।। ३२५ ।।