विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३१६-३२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ३११-३१५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३१६-३२०
वेदव्यासः
अध्यायाः ३२१-३२५ →

3.316
।। ऋषय ऊचुः ।।
कस्य दानस्य कः पात्रं तद्वदस्व महामते ।।
कस्मिन्देशे तथा काले किञ्चिद् दत्तं महाफलम् ।। १ ।।
।। हंस उवाच ।। ।।
न दानं यशसे दद्यान्न दद्यान्नोपकारिणे ।।
न नृत्यगीतशीलेभ्यो नास्तिकेभ्यश्च धार्मिकः ।। २ ।।
पापशीले न दातव्यं कदाचिदपि किञ्चन ।।
पापशीले तु यद्दत्तं तद्दातुदोषमावहेत् ।। ३ ।।
धनदस्तेन पापेन शीघ्रमेवेह युज्यते ।।
तस्मात्प्राप्य धनं पुण्यं पुण्यशीलं समाचरेत् ।। ४ ।।
धनदस्तेन पुण्येन योगमाप्नोत्यसंशयम् ।।
अन्नदानेन कर्तव्यं पात्रावेक्षणमण्वपि ।। ५ ।।
अन्नं सर्वत्र दातव्यं धर्मकामेन वै द्विजाः ।।
सदोषेपि तु निर्दोषं सगुणेतिगुणावहम् ।। ६ ।।
तस्मात्सर्वप्रयत्नेन देयमन्नं सदैव तु ।।
विद्याध्ययनसक्तानामन्नदानं महाफलम् ।। ७ ।।
शुभानामप्यथान्येषां कर्मणां द्विजपुङ्गवाः ।।
यस्यान्नमुपयुञ्जानो नरः कर्माणि साधयेत् ।। ८ ।।
कर्म साधयतः पुण्यमन्नदाता तथाश्नुते ।।
दत्त्वा नृपतिभीतानां धनिनाञ्च तथा धनम् ।। ९ ।।
तस्करेभ्यश्च भीतानां फलमक्षयमश्नुते ।।
यियक्षता तथा दत्तं व्यसने हंतुमिच्छता ।। 3.316.१० ।।
दुःखान्वितानां दीनानाञ्चाक्षयं तत्प्रकीर्तितम् ।।
विवाहमेखलाबन्धप्रतिष्ठादिषु कर्मसु ।।११।।
आपन्नेषु च यद्दत्तं तदक्षय्यमुदाहृतम् ।।
यज्ञोपकरणं द्रव्यं क्षत्त्रिये द्विजपुङ्गवाः ।। १२ ।।
पुण्योपयोगि तद्वैश्ये शूद्रे शिल्पोपजीविनम् ।।
यस्योपयोगि यद्द्रव्यं देयं तस्यैव तद्भवेत् ।। १३ ।।
येनयेन च भाण्डेन यस्य वृत्तिरुदाहृता ।।
तत्तु तस्यैव दातव्यं पुण्यकामेन धीमता ।। १४ ।।
दण्डं कृष्णाजिनञ्चैव तथा विप्राः कमण्डलुम् ।।
चीरं पुण्यमवाप्नोति दत्त्वैतां ब्रह्मचारिणे ।। १५ ।।
वस्त्रं शय्यासनं धान्यं द्रव्यं वेश्म परिच्छदम् ।।
गृहस्थाय तु तद्दत्तं ज्ञेयं बहुफलं सदा ।। १६ ।।
नीवारवल्कलं शाकं फलमूलं च गोरसम् ।।
वानप्रस्थाय तद्दत्तमनन्तं परिकीर्तितम् ।। १७ ।।
भिक्षाप्रदानं यतये पात्रदानं तथा हितम् ।।
सौभाग्यद्रव्य ताम्बूलरक्तवस्त्रादिकं स्त्रियः ।। १८ ।।
स्त्रीणां प्रदानं दातव्यं भर्तृहस्ते तु नान्यथा ।।
प्रोक्तं संग्रहणं ह्येतद्गुप्तं भर्तुः प्रयच्छतः ।। १९ ।।
अन्नं प्रतिश्रयं चोभौ पान्थे दत्तं महाफलम् ।।
विवाहादिक्रियाकाले तत्क्रियासिद्धिकारकम् ।। 3.316.२० ।।
यः प्रयच्छति धर्मज्ञाः सोश्वमेधमवाप्नुयात्।।
आतुरेभ्यो धनं दत्त्वा दानं बहुफलं लभेत् ।। २१ ।।
बाले क्रीडनकं दत्त्वा मिष्टमन्नं तथैव च ।।
फलं मनोहरं वापि अग्निष्टोमफलं लभेत् ।।२२ ।।
मिष्टान्नं मानवो दत्त्वा मिष्टान्नानि तु कांक्षताम्।।
अक्षयं फलमाप्नोति स्वर्गलोकं च गच्छति ।। २३ ।।
श्रीविहीने तथा दत्त्वा भोजनं द्विजसत्तमाः ।।
वस्त्रं शुभं वा धर्मज्ञाः पुण्यं महदुपाश्नुते ।। २४ ।।
कृपास्थानपरो विप्रा विद्युतः पुरुषः श्रिया ।।
तस्यानुकम्पा कतर्व्या सतां वर्त्मनि तिष्ठतः ।। २५ ।।
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते ।।
अक्षयं फलमाप्नोति नात्र कार्या विचारणा ।।२६ ।।
यवसानां प्रदानेन धेनुमत्सु द्विजातिषु ।।
लवणानाञ्च धर्मज्ञा फलमक्षयमश्नुते ।।२७।।
प्रसवेषु तदा दत्तं व्यसनान्युभये ततः ।।
तद्दानमक्षयं प्रोक्तं पुरुषस्य विपश्चितः ।।२८।।
दत्त्वा ब्राह्मणशार्दूला जलमात्रमथार्थिने ।।
फलमक्षयमाप्नोति नात्र कार्या विचारणा ।।२९।।
क्लेशं विना दत्तमथार्थिने तु दानं हि लोके फलदं निरुक्तम् ।।
अभ्यर्थितेनाथ ततो न कार्या विमानना त्वर्थिजनस्य शक्त्या।।3.316.३०।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पात्रविशेषेण दानविशेषवर्णनो नाम षोडशाधिकत्रिशततमोऽध्यायः ।।३१६।।
3.317
ऋषय ऊचुः ।।
दानं बहुफलं काले यस्मिन्यत्परिकीर्तितम् ।।
तत्त्वमस्माकमाचक्ष्व त्वं हि सर्वविदुच्यसे ।। १।।
हंस उवाच ।।
संवत्सरे तथा दानं तिलस्य च महाफलम् ।।
परिपूर्वे तथा दानं यवानां द्विजसत्तमाः ।। २ ।।
इडापूर्वेन्नवस्त्राणां धान्यानां चानुपूर्वके ।।
उदासंवत्सरे दानं रजतस्य महाफलम् ।।३।।
उत्तरे त्वयने प्रोक्तं वस्त्रदानं फलप्रदम् ।।
स्नानानुलेपनादीनां वसन्ते द्विजपुङ्गवाः।।४।।
पानकानां तथा ग्रीष्मे छत्राणां तदनन्तरे ।।
शरद्यन्नस्य धर्मज्ञा वस्त्राणामपि हैमने।।५।।
वह्निदानं नरः कृत्वा सूर्यस्योदयनं प्रति ।।
शिशिरे सततं वह्निं तर्पयित्वा तथा तिलैः ।।६ ।।
कुल्माषं सघृतं दत्त्वा यथाशक्त्या द्विजातिषु ।।
कायाग्निदीप्तिं प्राकाश्यं शत्रुनाशञ्च विन्दति ।।७।।
सक्तून्सिताखण्डयुतांस्त्रपुसोर्वारुकान्वितान् ।।
जलकुम्भोपरिकृतानक्षयं फलमश्नुते ।।८।।
मध्याह्ने प्रावृषि स्नातः सततं द्विजपुङ्गवाः ।।
तिलप्रदानान्माघे तु प्राप्यलोकं स गच्छति ।। ९।।
प्रियङ्गुं फाल्गुने दत्त्वा प्रियो भवति भूतले ।।
चैत्रे चित्राणि वस्त्राणि सौभाग्यं महदश्नुते।।3.317.१०।।
अपूपानां प्रदानेन वैशाखे स्वर्गमश्नुते ।।
छत्रदानं तथा ज्येष्ठे सर्वान्कामानुपाश्नुते ।।
दत्त्वा चोपानहौ स्वर्गञ्चाषाढे ध्रुवमश्नुते ।।११।।
श्रावणे वस्त्रदानस्य कीर्तितं सुमहत्फलम् ।।
प्रोष्ठपादे तथा मासि प्रदानात्फाणितस्य च ।। १२ ।।
आश्विने घृतदानेन रूपवानभि जायते ।।
कार्तिके दीपदानेन सर्वत्रौजस्यमश्नुयात् ।। १३ ।।
लवणं मार्गशीर्षे तु दत्त्वा सौभाग्यमश्नुते ।।
पौषे कनकदानेन परां पुष्टिं तथैव च ।। १४ ।।
पुष्पाणां च सिते पक्षे दानं लक्ष्मीकरं स्मृतम् ।।
फलानां च तथा दानं कृष्णपक्षे महाफलम्।।१५।।
लवणाज्यगुडोपेतमपूपं सूर्यवासरे ।।
सहिरण्यं नरो दत्त्वा न रोगैस्त्वभिभूयते ।।१६ ।।
एवंविधं चेन्दुदिने ददत्सौभाग्यमाप्नुयात् ।।
काष्ठदानं भौमदिने शत्रुनाशमवाप्नुयात् ।। १७ ।।
बोधे क्रीडनकानाञ्च दानं बालेषु शस्यते ।।
जीवाह्नि वस्त्रदानेन परां पुष्टिं समश्नुते ।। १६ ।।
सर्वत्र रतिमाप्नोति शुक्रे दत्त्वा रतिस्त्रियम् ।।
अभ्यङ्गं सौरदिवसे दत्त्वा जीवितमाप्नुयात् ।।१९।।
कृत्तिकासु सुवर्णस्य दानं बहुफलं स्मृतम् ।।
रक्तवस्त्रस्य रोहिण्यां सौम्यभे लवणस्य च।3.317.२०।।
कृसरस्य तथार्द्रायां चादित्ये रजतस्य च ।।
घृतस्य च तथा पुष्ये गन्धानामथ सर्पभे ।। २१ ।।
तिलानाञ्च मघायोगे प्रियङ्गोर्भगदैवते ।।
आर्यम्णे चाप्यपूपानां सावित्रे पायसस्य च ।। २२ ।।
चित्रायां चित्रवस्त्राणां सक्तूनां वायुदैवते ।।
ऐन्द्राग्ने चैव लोहानां मैत्रे माल्यफलस्य च ।।२३।।
छत्रस्य च तथा शाके मूले मूलफलस्य च ।।
हिमस्य मधुयुक्तस्य दानमाप्ये महाफलम् ।। २४ ।।
विश्वेश्वरेन्नदानस्य श्रवणे वसनस्य च ।।
धान्यस्य वासवे विप्रा वारुणे चौषधस्य च ।।२५।।
अजपादे च बीजानां सस्यानां तदनन्तरे ।।
गोरसानां तथा पौष्णे स्नानानामथ चाश्विने ।। ।। २६ ।।
तिलानाञ्च तथा दानं भरणीषु महाफलम् ।।
प्रतिपद्यथ पुष्पाणां द्वितीयायां घृतस्य च ।। २७ ।।
तृतीयायां तु वस्त्राणां चतुर्थ्यां कनकस्य तु ।।
पञ्चम्यान्तु फलानां वै षष्ठ्यां स्नानस्य मानदाः ।।२८।।
सप्तम्यां चाप्यपूपानामष्टम्याञ्च गुडस्य च ।।
कुल्माषस्य नवम्यान्तु दशम्यां रजतस्य च ।। २९ ।।
एकादश्यां सुवर्णस्य द्वादश्यां वसनस्य च ।।
त्रयोदश्यां सुगन्धानां सितायास्तदनन्तरम् ।। 3.317.३० ।।
दानञ्च परमान्नस्य पञ्चदश्यां महाफलम् ।।
वैशाखशुक्लपक्षे तु तृतीयायां द्विजोत्तमाः ।। ३१ ।।
यद्ददाति नरश्रेष्ठास्तत्तदक्षय्यमश्नुते ।।
विशेषेण तथा दानमक्षतानां महाफलम् ।। ३२ ।।
माघे श्रवणसंयुक्ता युक्ता स्याद्द्वादशी यदा ।।
तिलदानं महत्पुण्यं विनापि श्रवणेन तु ।। ३३ ।।
मासि भाद्रपदे शुक्ले नवम्यां द्विजपुङ्गवाः ।।
गोधूमभक्तां सगुडां दत्त्वा पुण्यमवाप्नुयात् ।। ३४ ।।
एतानि दानानि च कालयोगे प्रोक्तानि पुण्यानि मया द्विजेन्द्राः ।।
देयानि सर्वाणि विनापि योगाद्योगेन पुण्यं त्वधिकं निरुक्तम् ।। ३५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कालयोगे दानविधिवर्णनो नाम सप्तदशाधिकत्रिशततमोऽध्यायः। ।। ३१७ ।।
3.318
ऋषय ऊचुः ।।
व्रतं नक्षत्रसत्राख्यं सदानं कथयस्व नः ।।
सर्वधर्मभृतां श्रेष्ठ प्रत्यक्षामलदर्शन ।। १ ।।
हंस उवाच ।।
कृत्तिकासु महाभागाः पायसेन स सर्पिषा ।।
संतर्प्य ब्राह्मणान्साधूँल्लोकान्प्राप्नोत्यनुत्तमान् ।। २ ।।
रोहिण्यां प्रथितैर्मासैर्माषैरन्नेन सर्पिषा ।।
पयोनुपानं दातव्यं चानृणार्थं द्विजातये ।। ३ ।।
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ।।
गच्छेत मानुषाँल्लोकान्स्वर्गवासमनुत्तमम् ।। ४ ।।
आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः ।।
नरस्तरति दुर्गाणि क्षुरधारांस्तु पर्वतान् ।। ५ ।।
पूपान्पुनर्वसौ दत्त्वा तथैवान्नञ्च शोभनम् ।।
यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले ।। ६ ।।
पुष्ये तु कनकं दत्त्वा कृतं वाकृतमेव च ।।
अनालोकेषु लोकेषु सोमवत्स विराजते ।। ७ ।।
अश्लेषासु च यो रूप्यं वृषभं वा प्रयच्छति ।।
स सर्वभयनिर्मुक्तः शुभं चाप्यधिगच्छति ।। ८ ।।
मघासु तिलपूर्णानि वर्णमानानि मानवः ।।
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ।। ९ ।।
फाल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः ।।
भक्ष्यं फाणितसंयुक्तं दत्त्वा सौभाग्यमृच्छति ।।3.318.१०।।
घृतक्षीरसमायुक्तं विधिवत्षाष्टिकौदनम् ।।
उत्तराविषये दत्त्वा स्वगर्लोके महीयते ।। ११ ।।
यद्यत्प्रदीयते दानं चोत्तराविषये नरैः ।।
महाफलमतीतञ्च भवतीति विनिश्चयः ।। १२ ।।
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ।।
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ।। १३ ।।
चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च मानवः ।।
चरत्यप्सरसां लोके रमते नन्दने वने ।। १४ ।।
स्वातीष्वथ धनं दत्त्वा यदिष्टतममात्मनः ।।
प्राप्नोति लोकान्स शुभानिहैव च महद्यशः ।। १५ ।।
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ।।
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंमितम् ।। १६ ।।
पितॄंश्च देवान्प्रीणाति प्राप्य चानन्त्यमश्नुते ।।
न च दुर्गाण्यवाप्नोति स्वगर्लोकं च गच्छति ।। १७ ।।
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति ।।
नरकादींश्च स क्लेशान्न प्राप्नोतीति निश्चयः ।। १६ ।।
अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः ।।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ।। १९ ।।
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।।
ज्येष्ठायामृद्धिमिष्टाञ्च गतिमिष्टाञ्च गच्छति।।3.318.२०।।
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः।।
स पितॄन्प्रीणयत्येव गतिमिष्टाञ्च गच्छति ।। २१ ।।
अथ पूर्वास्वाषाढासु दधिपात्राण्युपोषितः ।।
कुले वृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ।। २२ ।।
प्रदाय जायते प्रेत्य कुले स बहुगोकुले ।।
उदकुम्भं ससर्पिष्कं प्रभूतं मधुफाणितम् ।। २३ ।।
दत्त्वोत्तरास्वाषाढासु सर्वाँल्लोकान्समश्नुते ।।
दुग्धे त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् ।।२४ ।।
वर्म नित्यं मनीषिभ्यः स्वर्गलोके महीयते ।।
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ।। २५ ।।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् ।।
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ।।२६ ।।
वस्त्ररश्मिनवं सद्यः प्रेत्य राज्यं प्रपद्यते ।।
गन्धाञ्छतभिषग्योगे दत्त्वा सागुरुचन्दनान् ।। २७ ।।
प्राप्नोत्यप्सरसः लोकान्प्रेत्य गन्धांश्च शाश्वतान् ।।
पूर्वाभाद्रपदायोगे राजमाषान्प्रदाय च ।। ।। २८।।
सर्वभक्ष्यफलोपेतं स वै प्रेत्य सुखी भवेत् ।।
औरभ्रं तूत्तरायोगे यस्तु मांसं प्रयच्छति ।।२९।।
स पितॄन्प्रीणयत्येव प्रेत्य चानन्त्यमश्नुते ।।
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति ।। 3.318.३० ।।
स प्रेत्य कामानादाय दातारमुपतिष्ठते ।।
रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः ।। ३१ ।।
हस्त्यश्वरथसम्पन्नं वर्चस्वी जायते कुले ।।
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ।।
गाः सुप्रसूताश्चाप्नोति नरः प्रेत्य यशस्तथा ।। ३२ ।।
नक्षत्रसत्त्रं कथितं मयैतद्यथेष्टलोकाभिगमाय पुंसाम् ।।
कृत्वा सकृन्नाकगतस्तु कल्पमास्ते मुखं देवपतिर्यथासौ ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु नक्षत्रसत्रविधानं नामाष्टादशाधिकत्रिशततमोऽध्यायः ।। ३१८ ।।
3.319
।। ऋषय ऊचुः ।।
भूय एव त्वमाचक्ष्व दानानां कालयोगतः ।।
फलं द्विजवरास्माकं प्रत्यक्षामलदर्शन ।। १ ।।
।। हंस उवाच ।। ।।
संप्राप्य चैत्रमासस्य शुक्लां पञ्चदशीं नरः ।।
चित्रं वस्त्रयुगं दत्त्वा सोपवासो द्विजातये ।।२ ।।
ब्राह्मणांश्चापरं विप्राः सौभाग्यं महदाप्नुयात् ।।
वैशाख्यां पौर्णमास्यान्तु ब्राह्मणान्सप्त पञ्च वा ।। ३ ।।
क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेद्यदि वेतरैः ।।
प्रीयतां धर्मराजेति यद्वा मनसि वर्त्तते ।। ४ ।।
यावज्जीवकृतात्पापात्तत्क्षणादेव मुच्यते ।।
तस्मिन्नेव तथा काले सखुरं कृष्णमार्गणम् ।। ५ ।।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ।।
तपस्यन्ते च दातव्यो मही सवनकानना ।। ६ ।।
कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा ।।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ।। ७ ।।
सोपवासस्तथा ज्येष्ठे पूर्णे तु शशलक्ष्मणे ।।
उपानहौ तथा च्छत्रं दत्त्वात्यन्तसुखी भवेत् ।। ८ ।।
आषाढ्यामन्नदानस्य प्राप्नोत्यन्नं नरो बहु ।।
जलधेनुप्रदानेन श्रावण्यां स्वर्गमाप्नुयात् ।। ९ ।।
गोदानं प्रोष्ठपादे तु पौर्णमास्यां महाफलम् ।।
आश्वयुज्यं कांस्यपात्रां घृतपूर्णं द्विजातये ।। 3.319.१० ।।
सुवर्णञ्च तथा दत्त्वा दीप्तिमांस्त्वभिजायते ।।
कार्तिक्यां चन्द्रवर्णाभमन्यवर्णमथापि वा ।। ११ ।।
रत्नैर्गन्धैस्तथा धान्यैर्बीजैर्वस्त्रैस्तथैव च ।।
कृत्वा युक्तमथोक्षाणं दत्त्वा दीपान्समन्त्रतः ।। ५२ ।।
चन्द्रोदये नरो दत्त्वा सर्वपापैः प्रमुच्यते ।।
कान्तारे यममार्गे तु तेनासौ व्रजते सुखम् ।। १३ ।।
सर्वाणि चास्य भोगानि तत्र चासौ प्रयच्छति ।।
मार्गशीर्षे तथा मासे पूर्णे शिशिरदीधितौ ।। १४ ।।
महारजतयुक्तेन वाससा द्विज पुङ्गवान् ।।
आच्छाद्य कांस्यपात्रस्थं प्रस्थं कृत्वा समाहितः ।।१५ ।।
लवणस्य तु मुख्यस्य चूर्णितस्य द्विजोत्तमाः ।।
दत्त्वा सुवर्णनाभन्तु तस्मिन्नेव द्विजातये ।। १६ ।।
सौभाग्यरूपलावण्ययुक्तो भवति मानवः ।।
गौरसर्षपकल्केन पौष्यामुत्साहितो नरः ।। १७ ।।
गव्यस्याज्यस्य कुम्भेन सोभिषिक्तस्त्वनन्तरम् ।।
विरूक्षितस्तथा स्नातः सर्वबीजौषधीजलैः ।। १८ ।।
गन्धरत्नफलोपेतैर्घृतेन तदनन्तरम् ।।
स सुवर्णं मुखं दृष्ट्वा तत्प्रदद्याद्द्विजातये ।। १९ ।।
घृतेन स्नपितं विष्णुं शक्त्या सम्पूजयेत्ततः ।।
घृतञ्च जुहुयाद्वह्नौ घृतं दद्याद्द्विजातये ।। 3.319.२० ।।
कर्त्रे वस्त्रयुगं दद्यात्सोपवासः समाहितः ।।
कर्मणानेन धर्मज्ञाः पुष्टिमाप्नोत्यनुत्तमाम् ।। २१ ।।
माघ्यां कृत्वा तिलैः श्राद्धं सर्वपापैः प्रमुच्यते ।।
स्वास्तीर्णं शयनं दत्त्वा फाल्गुन्यां ब्राह्मणस्य तु ।। २२ ।।
रूपद्रविणसंयुक्तां भार्यां पक्षवतीं तथा ।।
नरः प्राप्नोति धर्मज्ञः पुष्टिमाप्नोत्यनुत्तमाम् ।। २३ ।।
तथा नार्यपि भर्तारं नात्र कार्या विचारणा ।।
पौर्णमासीषु चैतासु मासर्क्षसहितासु च ।। २४ ।।
एतेषामेव दानानां फलं दशगुणं भवेत् ।।
महत्पूर्वासु चैतासु फलमक्षय्यमश्नुते ।। २५ ।।
द्वादश्यां चैत्रशुक्लस्य चित्रवस्त्रप्रदो नरः ।।
अक्षयं फलमाप्नोति नाकलोके च गच्छति ।। २६ ।।
वैशाखमासे द्वादश्यां रुक्मदानात्तथैव च ।।
छत्रोपानहयोर्दानाज्ज्येष्ठे मासि द्विजोत्तमाः ।। २७ ।।
स्वास्तीर्णं शयनं दत्त्वा प्रीणयेद्भोगिशायिनम् ।।
आषाढ शुक्लद्वादश्यां श्वेतद्वीपे महीयते ।। २८ ।।
श्रावणे वस्त्रदानेन विष्णुलोके महीयते ।।
गोदः प्रयाति गोलोकं मासि भाद्रपदे द्विजाः ।। २९ ।।
प्रीणयेदश्वशिरसश्चाश्वं दत्त्वा तथाश्विने ।।
विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ।। 3.319.३० ।।
सरोमवस्त्रदानेन कार्तिके दिवमाप्नुयात ।।।
प्रदानं लवणानान्तु मार्गशीर्षे महत्फलम् ।। ३१ ।।
धान्यानाञ्च तथा पौषे दारुणं चाप्यनन्तरे ।।
फाल्गुने सर्वगन्धानां नात्र कार्या विचारणा। ।।३२।।
भाग्यर्क्षसंयुता चैत्री द्वादशी स्यान्महाफला ।।
हस्तयुक्ताथ वैशाखी ज्येष्ठे तु स्वातिना तथा ।। ३३ ।।
ज्येष्ठायाञ्च तथाषाढे मूलोपेता च वैष्णवे ।।
तथा भाद्रपदे मासि श्रवणेन तु संयुता ।। ३४ ।।
आश्विने द्वादशी पुण्या भवत्याजर्क्षसंयुता ।।
कार्तिके रेवतीयुक्ता सौम्ये कृत्तिकया तथा ।। ३५ ।।
पौषे मृगशिरोपेता माघे चादित्यसंयुता ।।
फाल्गुने पुष्यसहिता द्वादशी पावना परा ।। ३६ ।।
नक्षत्रयुक्तास्वेतासु तथा दानमुपोषितः ।।
सर्वकामफलं ज्ञेयमनन्तं द्विजसत्तमाः ।। ३७ ।।
मेषसंक्रमणे भानोर्मेषदानं महाफलम् ।।
वृषसंक्रमणे दानं गवां प्रोक्तं तथैव च।। ३८ ।।
शयनासनदानञ्च मिथुनोपगते रवौ ।।
कर्कप्रवेशे सक्तूनां सितया च तथैव च ।। ३९ ।।
गुडफाणितखण्डानां सितायाश्च तथा द्विजाः ।।
लवणाज्यफलानाञ्च तथा हरितकस्य च ।। 3.319.४० ।।
तथा चैवोदकुंभानां दानं ज्ञेयं महाफलम् ।।
सिंहप्रवेशे पात्राणां तैजसानां तथैव च ।। ४१ ।।
कन्याप्रवेशे वस्त्राणां सुरभीणां तथैव च ।।
तुलाप्रवेशे धान्यानां बीजानामपि चोत्तमे ।। ४२ ।।
कीटप्रवेशे वस्त्राणां वेश्मनां दानमेव च ।।
धन्विप्रवेशे वस्त्राणां यानानाञ्च महाफलम् ।। ४३ ।।
मृगप्रवेशे दारूणां दानमग्नेस्तथैव च ।।
कुम्भप्रवेशे दानं तु गवामर्थे तृणस्य तु ।।
मीनप्रवेशे स्थानानां माल्यानामपि चोत्तमम् ।। ४४ ।।
दानान्यथैतानि मया द्विजेन्द्रा. प्रोक्तानि काले तु नरश्च दत्त्वा ।।
प्राप्नोति कामान्मनसा त्वभीष्टांस्तस्मात्प्रशंसन्ति महाप्रदानम्।।४५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु द्वादशपौर्णमासीदानफलनिरूपणं नामैकोनविंशाधिकत्रिशततमोऽध्यायः ।। ३१९ ।।
3.320
ऋषय ऊचुः ।।
पुण्ययज्ञक्रियाः प्रोक्ता ये नरा धनसंयुताः ।।
तथा मध्यमवृत्तानां दानानि विविधानि च ।। १ ।।
कथितान्यल्पवृत्तानां दानानि विविधानि च ।।
ये नरा वित्तरहितास्तेषां धर्मक्रियां वद ।। २ ।।
हंस उवाच ।।
उपवासक्रिया तेषां परमं धर्मकारणम् ।।
वित्तान्वितानाञ्च तथा प्रशस्ता सा महाफला ।। ३ ।।
सायं प्रातस्तु भुञ्जानो नान्तरातूदकम्पिबन् ।।
षड्भिर्वर्षैर्नरो लोकं प्राप्नोति मनसेप्सितम् ।। ४।।
शुभानामुत्तमं चैतद्धन्यं नित्यकृतं भवेत् ।।
यथेष्टलोकदं पुण्यं मानुष्येपि महाफलम् ।। ५।।
उपवासं नरः कुर्वन्मासिमासि द्विजोत्तमाः ।।
उषित्वा सुचिरं लोके मानुष्ये जायते यदा ।। ६ ।।
तदा भवति दीर्घायुर्धनवान्रूपसंयुतः ।।
पक्षेपक्षे तथा कुर्वन्द्विगुणं फलमश्नुते ।। ७ ।।
मासेमासे त्रिरात्रन्तु यः कुर्यान्मानवोत्तमः ।।
गाणपत्यमवाप्नोति स्वर्गलोकपरिच्युतः ।। ८ ।।
पक्षेपक्षे त्रिरात्रन्तु कृत्वा भवति पार्थिवः ।।
स्वर्गलोकात्परिभ्रष्टः सुचिरेण महाबलः ।। ९ ।।
द्विजस्त्रिरात्रं कुर्वीत न तु शूद्रः कथञ्चन ।।
षष्ठकालाशनं तस्य तपः परमिहोच्यते ।। 3.320.१० ।।
शूद्रस्त्रिरात्रं कुरुते विषये यस्य भूपतेः ।।
तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः ।। ११ ।।
तपः कुर्वीत शूद्रस्तु चैकद्विदिवसान्तरम् ।।
यथाशक्ति द्विजश्रेष्ठास्तेन कामानुपाश्नुते ।। १२ ।।
अतः परन्तु वर्णानां मासेमासे द्विजोत्तमाः ।।
एक कालाशनानान्तु शृणुध्वं फलमुत्तमम् ।। १३ ।।
चैत्रन्तु नियतो मासं चैकभक्तेन यः क्षिपेत् ।।
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ।। १४ ।।
निरस्येदेकभक्तेन वैशाखं यो द्विजोत्तमः ।।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ।। १५ ।।
ज्येष्ठामूलं तु यो मासमेकभक्तेन वर्तयेत् ।।
ऐश्वर्यमतुलं श्रेष्ठं पुमांस्त्री वाभिजायते ।। १६ ।।
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ।।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ।। १७ ।।
श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् ।।
यत्र तत्राभिषेकेन युज्यते ज्ञातिवर्धनः ।। १८ ।।
प्रोष्ठपादन्तु यो मासं यः कुर्यादेकभोजनम् ।।
धनाढ्यः स्फीतमतुलं चैश्वर्यं प्रतिपद्यते ।। १९ ।।
तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् ।।
मेधावी वाहनाढ्यश्च बहुपुत्रश्च जायते ।। 3.320.२० ।।
कार्तिकन्तु नरो मासं यः कुर्यादेकभोजनम ।।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ।। २१ ।।
मागर्शीर्षन्तु वै मासमेकभक्तेन यः क्षिपेत् ।।
कृषिभागी बहुधनो बहुधान्यश्च जायते ।। २२ ।।
पौषमासन्तु विप्रेन्द्रा भक्तेनैकेन यः क्षिपेत्।।
सुभगो दर्शनीयश्च यशोभागी च जायते ।। २३ ।।
माघन्तु नियतं मासमेकभक्तेन यः क्षिपेत् ।।
कृषिभागी बहुधनो धान्यवानभिजायते ।। २४ ।।
भगदैवन्तु यो मासमेकभक्तेन यः क्षिपेत् ।।
श्रीसत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ।।२५।।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ।।
यथोक्तफलदाश्चैते वर्षैर्द्वादशभिः स्मृताः ।।२६।।
यस्तु संवत्सरं पूर्णं चैकाहारो भवेत्सदा ।।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोति मानवः।।२७।।
तथा संवत्सरं पूर्णमेकान्तरितभोजनः ।।
यज्ञं बहुसुवर्णाख्यं ध्रुवमाप्नोति वै द्विजाः ।।२८।।
अब्दमेकं तृतीयेह्नि भुंजानश्च तथा नरः ।।
वाजपेयस्य यज्ञस्य कथितं द्विजसत्तमाः ।। २९ ।।
एककालं तु भुञ्जानस्त्वब्दमेकं तु पञ्चमे ।।
स्वर्गे द्वादशपद्मानि वर्षाणां स च मोदते।।3.320.३०।।
षष्ठेषष्ठे तथैवाब्दं त्वश्नानः प्रयतो नरः ।।
अष्टादशैव पद्मानि वर्षाणां दिवि मोदते ।। ३१ ।।
दिवसे सप्तमे चाब्दं भुञ्जानस्त्वेकभोजनम् ।।
षट्त्रिंशत्स तु पद्मानि वर्षाणां दिवि मोदते ।। ३२ ।।
अष्टमे दिवसे चाब्दं भुञ्जानः प्रयतः सदा ।।
पद्मानि नाके पञ्चाशद्वर्षाणां दिवि मोदते ।। ३३ ।।
यस्तु संवत्सरं भुङ्क्ते दशमे दशमेऽहनि ।।
कल्पमेकं स विप्रेन्द्र देववद्दिवि मोदते ।। ३४ ।।
एकादशे तु दिवसे यः प्राप्ते प्राप्नुते हविः ।।
शतकल्पद्वयं नाके मोदते देववद्दिवि ।। ३५ ।।
दिवसे द्वादशे यस्तु प्राप्ते वै प्राश्नुते हविः ।।
त्रीणि कल्पान्यसौ नाके भुङ्क्ते देवसुखान्वितः ।। ३६ ।।
त्रयोदशे तु दिवसे यः प्राप्ते प्राप्नुते हविः ।।
तस्य कल्पानि चत्वारि गतिर्नाके प्रकीर्तिता ।। ३७ ।।
चतुर्दशे तु दिवसे यः प्राप्ते प्राप्नुते हविः ।।
सप्त तस्य तु कल्पानि गतिर्नाके प्रकीर्तिता ।। ३८ ।।
संवत्सरं तु भुञ्जानो नरः पञ्चदशे हविः ।।
नाके वसति धर्मात्मा देशे कल्पान्यसंशयम् ।। ३९ ।।
अब्दमेकं तथाऽश्नानः पक्षे दिनयुतेन यः ।।
स तु कल्पशतं विप्रा देववद्दिवि मोदते ।। 3.320.४० ।।
दिने सप्तदशे प्राप्ते यः प्राशेदेकभोजनम् ।।
स्वर्गे स मोदते विप्राः पञ्च कल्पशतानि च ।। ४१ ।।
अष्टादशे च दिवसे यः प्राशेदेकभोजनम् ।।
नाके कल्पे सहस्रं तु नरः कर्ताभिमोदते ।। ४२ ।।
एकोनविंशे दिवसे यो भुंक्ते चैकभोजनम् ।।
स तु कल्पसहस्रन्तु सार्धं नाके च मोदते ।।४३।।
एककालं च भुञ्जानः प्राप्ते विंशतमे दिने ।।
कल्पानां तु सहस्रे द्वे नाकस्थः पूज्यते सुरैः ।।४४।।
एकविंशे तु दिवसे यः कुर्यादेकभोजनम् ।।
त्रीणि कल्पसहस्राणि तस्य नाके गतिर्भवेत् ।। ४५ ।।
द्वाविंशे दिवसे प्राप्ते यो भुंक्ते चैकभोजनम् ।।
चत्वारि स च कल्पानां सहस्रं प्राप्नुयाद्दिवि ।। ४६ ।।
त्रयोविंशे च दिवसे यः प्राशेदेकभोजनम् ।।
पञ्च कल्पसहस्राणि स्वर्गस्थः स तु मोदते ।। ।। ४७ ।।
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् ।।
सप्त कल्पसहस्राणि नाकस्थः स तु मोदते ।। ४८ ।।
पञ्चविंशत्तमे चाह्नि यः प्राशेदेकभोजनम् ।।
दश कल्पसहस्राणि स्वर्गस्थः स तु मोदते ।। ४९ ।।
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् ।।
स तु कल्पसहस्राणि चतुर्विंशः नरो भवेत् ।। 3.320.५० ।।
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् ।।
स तु कल्पसहस्राणि नाकस्थोपि च मोदते ।। ५१ ।।
अष्टाविंशे तु दिवसे यः प्राशेदेकभोजनम् ।।
स तु कल्पसहस्राणि चत्वारिंशत्सु मोदते ।। ५२ ।।
एकोनविंशे दिवसे यः प्राशेदेकभोजनम् ।।
स तु कल्पस्रहस्राणां पञ्चाशन्नाकगो भवेत् ।। ५३ ।।
यस्तु त्रिंशद्दिने प्राप्ते चाश्नीयादेकभोजनम् ।।
स तु कल्पसहस्राणां नाकस्थः पूज्यते शतम् ।। ५४ ।।
मासेमासे गते प्रायः प्राश्नीयादेकभोजनम् ।।
पौरुषं स दिनं नाके देववन्मोदते सदा ।। ५५ ।।
सर्वे व्रतास्तु कव्याय वर्षमेकं सुखावहाः ।।
वर्षे तु फलदाः प्रोक्ता नात्र कार्या विचारणा ।। ५६ ।।
स्नानं सर्वेषु कर्तव्यं कार्यो होमस्तथैव च ।।
न भोक्तव्यं तथा मासं व्रतस्य फलमश्नुते ।। ५७ ।।
आश्रित्य तीर्थं यदि वापि देवं व्रतान्यथैतानि महाफलानि ।।
कार्याणि नैतान्यधिकास्तु मासास्ततः परं नानशनं प्रदिष्टम् ।। ५८ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतासूपवासविधिवर्णनं नाम विंशत्यधिकत्रिशततमोऽध्यायः ।। ३२० ।।