विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३११-३१५
← अध्यायाः ३०६-३१० | विष्णुधर्मोत्तरपुराणम् अध्यायाः ३११-३१५ वेदव्यासः |
अध्यायाः ३१६-३२० → |
3.311
हंस उवाच ।।
नरस्त्वासनदानेन स्थानं सर्वत्र विन्दति ।।
शय्यादानेन चाप्नोति भार्यां ब्राह्मणसत्तमाः ।। १ ।।
दत्त्वा द्विजाय शयनं स्वास्तीर्णं सोत्तरच्छदम् ।।
कुले महति सम्भूतां रूपद्रविणसंयुताम् ।।२।।
तथा पक्षवतीं भव्यां प्राप्नोति वशगां तथा ।।
अनेनैव प्रदानेन भार्या पतिमवाप्नुयात् ।। ३ ।।
वितानकप्रदानेन सर्वपापैः प्रमुच्यते ।।
छत्रदश्च तथा विप्रा नात्र कार्या विचारणा ।। ४।।
छत्रं शतशलाकं तु दत्त्वैवातपवारणम् ।।
सर्वतापविनि र्मुक्तः स्वर्गलोके महीयते ।। ५ ।।
याम्यं मार्गं तथा याति सुखेन द्विजसत्तमाः ।।
उपानहे तथा दत्त्वा श्लक्ष्णे स्नेहसमन्विते ।। ६ ।।
रथमश्वतरी युक्तं त्रिदिवं प्रतिपद्यते।।
सर्वपापविनिर्मुक्तो याम्यमार्गं सुखं व्रजेत् ।। ७ ।।
तालवृन्तप्रदानेन सर्वपापैः प्रमुच्यते ।।
पादुकानां प्रदानेन गतिमाप्नोति शोभनाम् ।। ८ ।।
पादपीठप्रदानेन स्थानं सर्वत्र विन्दति ।।
स्थानमेव तथाप्नोति दण्डं दत्त्वा द्विजातये ।। ९ ।।
यज्ञोपवीतदानेन वस्त्रदानफलं लभेत् ।।
उष्णीषदानस्य तथा फलमेतदुदाहृतम् ।। 3.311.१० ।।
दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात् ।।
मृत्तिकायाः प्रदानेन शुचिः सर्वत्र जायते ।। ११ ।।
शौचस्नानोदकं दत्त्वा विरोगस्त्वभिजायते ।।
रोगनाशमवाप्नोति तथाभ्यङ्गप्रदः सदा ।। १२ ।।
तथैवौषधदानेन रोगनाशमुपाश्नुते ।।
स्थानीयानि सुगन्धीनि दत्त्वा सौभाग्यमश्नुते ।। १३ ।।
अनुलेपनदानेन रूपवानभिजायते ।।
कायाग्निदीप्तं प्राकाश्यं गतिञ्चैव तथोत्तमाम् ।। १४ ।।
यस्तु संसाधनार्थाय ब्राह्मणाय प्रयच्छति ।।
स याति वह्निसालोक्यं शत्रुनाशं च विन्दति ।। १५ ।।
तैजसानि तु पात्राणि दत्त्वा सलवणानि च ।।
पात्रतामेति कामानां लावण्यं चाप्नुयान्महत् ।। १६ ।।
तैजसानि तु पात्राणि सतैलानि प्रयच्छतः ।।
आरोग्यमुत्तमं प्रोक्तं लावण्यमपि चोत्तमम् ।। १७ ।।
तैजसानि तु पात्राणि समधूनि प्रयच्छतः ।।
लावण्यमुत्तमं प्रोक्तं सौभाग्यमपि चोत्तमम् ।। ।। १८ ।।
नरश्चन्दनदानेन सर्वपापैः प्रमुच्यते ।।
तथैवागुरुदानेन यशसा भुवि राजते ।। १९ ।।
सौभाग्यकारकं प्रोक्तं प्रदानं कुङ्कुमस्य तु ।।
तथा कर्पूरदानेन सर्वान्कामानवाप्नुयात् ।। 3.311.२० ।।
मृगचर्मप्रदानेन यशसा भुवि राजते ।।
दत्त्वा जातीफलं विप्राः सफलां विन्दते क्रियाम् ।। ।। २१ ।।
स्नानानां मुखवासानां धूपानां च प्रदायकाः ।।
लोके प्रयान्ति प्रियतां भवन्ति च सुगन्धिनः ।। २२ ।।
दत्त्वा पूगफलान्विप्राः सफलां विन्दते क्रियाम् ।।
ताम्बूलस्य प्रदानेन सौभाग्यमपि विन्दति ।। २३ ।।
समुद्रजानां भाण्डानां शङ्खादीनां प्रदायकः ।।
पात्री भवति कामानां यशसश्च न संशयः ।। २४ ।।
कङ्कतस्य प्रदानेन परां वाचं प्रमुञ्चति ।।
शय्याप्रदानो लोकेषु तथा स्थानकरं परम् ।। २५ ।।
अर्थिने यदभीष्टं स्यात्स्वल्पं वा यदि वा बहु ।।
तद्दत्त्वा पुण्यमाप्नोति राजसूयाश्वमेधयोः ।। २६ ।।
किम्च्छिकैः पूजकैर्ब्राह्मणानां लोकं गत्वा ब्रह्मणो ब्राह्मणेभ्यः ।।
देवैर्विप्रैः पूज्यमानः सुखी स्यात्तस्माद्देयं प्रार्थितं ब्राह्मणेभ्यः ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेवज्रसंवादे मुनीन्प्रति हंसगीतास्वनेकवस्तुदानप्रशंसावर्णनो नामैकादशाधिकत्रिशततमोऽध्यायः ।। ३११ ।।
3.312
।। हंस उवाच ।। ।।
नृवाहान्पुरुषो यस्तु द्विजे सम्यक्प्रयच्छति ।।
अश्वमेधफलं तस्य कथितं द्विजसत्तमाः ।। १ ।।
शिबिकायाः प्रदानेन वह्निष्टोमफलं तथा ।।
दासं कर्मकरं दत्त्वा गोसवस्य फलं लभेत् ।। २ ।।
स याति शक्रसालोक्यं यस्तु योधं प्रयच्छति ।।
यस्तु कर्मकरीं दासीं ब्राह्मणाय प्रयच्छति ।। ३ ।।
लोकास्तु सुभगास्तस्य वसूनां समुदाहृताः ।।
तरुणीं रूपसम्पन्नां दासीं यस्तु प्रयच्छति ।। ४ ।।
सोप्सरोभिर्मुदायुक्तः क्रीडते नन्दने वने ।।
उष्ट्रं वा गर्दभं विप्रा यो यच्छति द्विजातये ।।५।।
अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ।।
दानानामुत्तमं प्रोक्तं प्रदानं तुरगस्य तु ।।६ ।।
वडवायाः प्रदानेन तथा बहुफलं स्मृतम् ।।
तुरङ्गं ये प्रयच्छंति सूर्यलोकं व्रजन्ति ते ।। ७ ।।
यावन्ति तस्य रोमाणि तावद्वर्षशतानि च ।।
शुक्लं तुरङ्गमं दत्त्वा फलं दशगुणं लभेत् ।। ८ ।।
गौर्यथा कपिला श्रेष्ठा तथैव तुरगस्य तु ।।
तुरङ्गमं सपर्याणं सालङ्कारं प्रयच्छति ।। ९ ।।
पुण्डरीकफलं प्रोक्तं नात्र कार्या विचारणा ।।
चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम् ।। 3.312.१० ।।
रथं द्विजाये दत्त्वा राजसूयफलं लभेत् ।।
प्रदाय करिणीं सम्यगेतदेव फलं लभेत् ।। ११ ।।
कुञ्जरस्य प्रदानेन स्वर्गलोके महीयते ।।
राजा भवति लोकेस्मिन्यशोविक्रमसंयुतः ।। १२ ।।
सुवर्णकक्ष्यं मातङ्गं दत्त्वा विप्राय वै द्विजाः ।।
राजसूयाश्वमेधाभ्यां फलं विन्दत्यसंशयम्।। १३ ।।
चतुर्भिः कुञ्जरैर्युक्तं रथं दत्त्वा द्विजातये ।।
समग्रभूमि दानस्य फलं प्राप्नोत्यसंशयम् ।। १४।।
भूमिः सशैला सवना सतोया दत्ता हि लोके भवतीह तेन ।।
इष्टाँश्च लोकान्पुरुषः प्रयाति सम्पूज्यमानस्त्रिदशैर्महात्मा ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु वाहनदानविधिवर्णनो नाम द्वादशाधिकत्रिशततमोऽध्यायः ।। ३१२ ।।
3.313
हंस उवाच ।।
दानानामुत्तमं लोके वस्त्रदानं प्रकीर्तितम् ।।
वासो हि सर्वदैवत्यं सर्वप्रायोज्यमश्नुते ।।१ ।।
वस्त्रदाता सुवेशः स्याद्रूपद्रविणसंयुतः ।।
युक्तो लावण्यसौभाग्यैर्विरोगश्च तथा द्विजाः ।। २ ।।
नीलं रक्तं तथा जीर्णं न देयं ब्राह्मणस्य तु ।।
देयं वरञ्चाङ्गिरसं क्षौमं दत्त्वा बृहस्पतेः ।।३।
दत्त्वा कार्पासिकं वस्त्रं स्वर्गलोके महीयते ।।
दत्त्वा सरोमं तदपि फलं दशगुणं भवेत् ।। ४।।
आविकं वसनं दत्त्वा भृगूणां लोकमाप्नुयात् ।।
छागं दत्त्वा चाङ्गिरसं क्षौमं दत्त्वा बृहस्पतेः ।। ५ ।।
वसूनां लोकमाप्नोति कुशकौशेयवाससी। ।।
क्रिमिजञ्च ततो दत्त्वा सोमलोके महीयते ।। ६ ।।
अग्निष्टोममवाप्नोति दत्त्वैव मृगलोमिकाम् ।।
दत्त्वा वल्कलजं वासो वसूनां लोकमाप्नुयात् ।। ७ ।।
सुमेरकदल्यादीनां दत्त्वा चैव तथाजिनम् ।।
वारवाणं शिरस्त्राणं हस्तत्राणं तथैव च ।। ८ ।।
पादत्राणं च ददतः पृथग्यफलं स्मृतम् ।।
वस्त्रदानं पवित्रन्तु पितॄणामपि तारणम् ।।९।।
कौसुंभरक्तं दत्त्वा तु सौभाग्यं महदाप्नुयात् ।।
दानात्कुङ्कुमरक्तस्य लावण्यं महदाप्नुयात् ।।3.313.१० ।।
रङ्गैरन्यैरनीलैश्च रक्तं दत्त्वा सुखी भवेत् ।।
यथायथा तु वस्त्रस्य भवतीह महर्घता ।। ११ ।।
यथायथा शुभ्रता च तथा पुण्यफलं लभेत्।।
अन्येषामपि दानानामेतदेव प्रकीर्तितम् ।। १२ ।।
सर्वदो वस्त्रदः प्रोक्तो यतः सर्वत्र वस्त्रवान् ।।
पूजामाप्नोति धर्मज्ञास्तद्धि तस्माद्विशिष्यते ।। १३ ।।
वस्त्रदः सुचिरं कालं भुक्त्वा देवसुखान्दिवि ।।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।। १४ ।।
मानुष्यमासाद्य भवत्यरोगः शौचान्वितः सौख्यपरो विनीतः ।।
जनाभिरामश्च तथा सुवेशः पूज्यश्च लोके विदुषां सदैव ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे भार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु वस्त्रदानप्रशंसावर्णनो नाम त्रयोदशाधिकत्रिशततमोऽध्यायः ।। ३१३ ।।
3.314
हंस उवाच ।।
धान्यानामुत्तमं दानं कथितं द्विजपुङ्गवाः ।।
धान्येभ्योऽपि परं धान्यं रक्तशालिः प्रकीर्तितः ।। १ ।।
रक्तशालिं नरो दत्त्वा सूर्यलोके महीयते ।।
दत्त्वा तथा सुगन्धाँश्च गन्धर्वैः सह मोदते ।। २ ।।
कलमानां प्रदानेन शक्रलोके महीयते ।।
महाशालेः प्रदानेन वसूनां लोकमाप्नुयात् ।। ३ ।।
काष्ठशालिं तथा दत्त्वा अलकायां प्रसीदति ।।
व्रीहीनां चान्यधान्यानां दानात्स्वर्गमवाप्नुयात् ।। ४ ।।
यव प्रदानेन नरः शक्रलोके महीयते ।।
तथा गोधूमदानेन वसूनां लोकमाप्नुयात् ।। ५ ।।
प्रियो भवति लोकस्य प्रियङ्गुं यः प्रयच्छति ।।
ददाति यस्तु श्यामाकं तस्य प्रीयन्ति देवताः ।। ६ ।।
अन्येषां शूकधान्यानां प्रदानाभिरतो नरः ।।
स्वर्गलोकमवाप्नोति नात्र कार्या विचारणा ।। ७ ।।
मुद्गदः शक्रलोकन्तु यमलोकन्तु माषदः ।।
यथेष्टं लोकमाप्नोति तथा विप्रास्तिलप्रदः ।। ८ ।।
षष्टिकानां प्रदानेन लोकं नैर्ऋतकं लभेत् ।।
सचीणचणकं दत्त्वा लोकं वारुणमाप्नुयात् ।। ९ ।।
वायव्यञ्च मसूराणि राजमाषाणि धानदम् ।।
अन्येषां शिंबिधान्यानां दानात्स्वर्गमवाप्नुयात् ।। 3.314.१० ।।
इक्षुमृद्वीकयोर्दानात्परं सौभाग्यमाप्नुयात् ।।
गुडप्रदस्तथारोग्यं सितादः काममीप्सितम् ।। ११ ।।
फाणितस्य प्रदानेन परां तृप्तिमवाप्नुयात् ।।
खण्डप्रदश्च सौभाग्यं सर्वान्कामान्मधुप्रदः ।। १२ ।।
घृतदो जीवितं दीर्घं चारोग्यं तैलदस्तथा।।
सर्वान्कामानवाप्नोति लवणं यः प्रयच्छति ।। १३ ।।
सक्तुदस्तृप्तिमाप्नोति सिकतादस्तथा श्रियम् ।।
अकीर्तितानामन्येषां दानात्स्वर्गमवाप्नुयात् ।। १४ ।।
पक्वान्नदानात्फलदं नृलोके शुष्कान्नमुक्तं हि तदाप्य यस्मात्।।
यजन्ति यज्ञैः सततं द्विजेन्द्रास्तस्माच्च तत्पुण्यतमं प्रदिष्टम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धान्यदानप्रशंसा नाम चतुर्दशाधिकत्रिशततमोऽध्यायः ।। ३१४ ।।
3.315
।। हंस उवाच ।।
सर्वेषामेव दानानामन्नदानं विशिष्यते ।।
अन्नदानात्परं दानं न भूतं न भविष्यति ।।१।।
नात्र पात्रपरीक्षा स्यान्न कालनियमस्तथा ।।
न च देशः परीक्ष्योऽत्र देयमन्नं सदैव तत्।।२।।
श्वभ्यश्च श्वपचेभ्यश्च पतितेभ्यस्तथैव च ।।
क्रिमिकीटपतङ्गानां देयमन्नं सदैव तु ।।३।।
अन्नं हि जीवितं लोके प्राणाश्चान्ननिबन्धनाः ।।
अन्नदः प्राणदो लोके सर्वदश्च तथान्नदः ।। ४।।
भुक्त्वा तथा च यस्यान्नं सन्ततिः स्याद्द्विजोत्तमाः ।।
ज्ञातव्यं ब्राह्मणश्रेष्ठा यस्यान्नं तस्य सन्ततिः।।५।।
दातव्यं सर्ववर्णेभ्यो भोक्तव्यं ब्राह्मणस्य च ।।
यस्यान्नेनोदरस्थेन ब्राह्मणो म्रियते द्विजाः ।।६।।
तान्तु योनिमवाप्नोति नात्र कार्या विचारणा ।।
भक्ष्यदः स्वर्गमाप्नोति शक्रलोकन्तु भोज्यदः ।। ७ ।।
लेह्यदोप्सरसां लोकं वसूनामपि चोष्यदः ।।
वारुणं लोकमाप्नोति तथा पानप्रदो नरः ।। ८ ।।
पानकानि सुगन्धीनि शीतलानि प्रयच्छतः ।।
सर्वकामसमृद्धः स्यान्नात्र कार्या विचारणा ।। ९ ।।
परमान्नप्रदानेन तृप्तिर्भवति शाश्वती ।।
पिपासमानो म्रियते गवां लोके महीयते ।।3.315.१०।।
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।।
श्रान्तायादृष्टपूर्वाय तस्य पुण्य फलं महत् ।। ११ ।।
सहस्रपरिवेष्यन्तु नरकं स न गच्छति ।।
विमानेनार्कवर्णेन स्वर्गलोके महीयते ।। १२।।
अपहन्यात्तथा विप्रा एकस्यार्त्तस्य यत्क्षुधा ।।
तेनासौ कर्मणा प्रेत्य महत्फलमुपाश्नुते।।१३।।
यद्यदिष्टतमं लोके यश्चास्य दयितं गृहे।।
तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता।। १४ ।।
दानान्यनेकानि फलञ्च तेषां बहुप्रकारं पुरुषः समीक्ष्य ।।
श्रद्धान्वितो ब्राह्मणसात्प्रकुर्याद्भूयस्तदेवाप्तमना नृलोके ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वन्नदानप्रशंसा नाम पञ्चदशाधिकत्रिशततमोऽध्यायः ।। ३१५ ।।