विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३०६-३१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः ३०१-३०५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३०६-३१०
वेदव्यासः
अध्यायाः ३११-३१५ →

3.306
हंस उवाच।।
गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः।।
तास्वायत्तानि यज्ञानि देवतातिथिपूजनम्।।१।।
बलन्तुष्टिश्च पुष्टिश्च तथा श्राद्धक्रिया द्विजाः।।
नासौ सम्पन्नमश्नाति यस्य धेनुर्न विद्यते।।।।
तस्मात्सर्वप्रदानानां गवां दानमनुत्तमम् ।।
हीनाङ्गीं क्षीरपां वृद्धां दुग्धदोहां निरिन्द्रियाम्।।३।।
व्याधितां विषमां व्यालां तथैव प्रपलायिनीम् ।।
मूल्यैस्तथाप्यसंशुद्धैर्हृताश्च द्विजपुङ्गवात्।।४।।
न दातव्या स्मृता धेनुर्दत्त्वा नरकमाप्नुयात् ।।
ब्राह्मणो यस्तु कुरुते गोरसानां तु विक्रयम्।।५।।
गवां च विक्रयं विप्रा विषमो यस्तथा गवाम्।।
अपात्रदोषयुक्तश्च न देया तस्य चाप्यथ।।६।।
नैका बहूनां दातव्या न द्वयोर्द्विजपुङ्गवाः।।
सा तु विक्रयमापन्ना दातुर्नरकदायिनी।।७।।
एकं पात्रमथासाद्य देयास्तु बहवः स्मृताः ।।
गवां प्रदाने यत्नेन परीक्ष्यो ब्राह्मणो भवेत् ।। ८ ।।
यथाकथञ्चिद् दत्त्वा गां धेनुं वाऽधेनुमेव वा ।।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ।।९।।
दत्त्वा वत्सतरीं विप्राः स्वर्गलोके महीयते ।।
गुर्विणीं च तथा दत्त्वा वसूनां लोकमश्नुते ।। 3.306.१० ।।
प्रसूयमानां तां दत्त्वा भूमिदानफलं लभेत् ।।
स्रवंत्यां च तथा दत्त्वा नन्दने मोदते नरः ।।११।।
श्वेतां दत्त्वा सोमलोके रक्तां दत्त्वा विभावसोः ।।
कृष्णां दत्त्वा तथा याम्ये नीलां दत्त्वा च वारुणे ।। १२ ।।
इन्द्रलोके तु शबलामिन्द्रलोके तु रोहिणीम् ।।
वातरेणुसवर्णां तु वायुलोके महीयते ।। १३ ।।
धूम्रवर्णां तथा दत्त्वा वसूनां लोकमश्नुते ।।
आषाढेन सवर्णान्तु लोकं वारुणमाप्नुयात् ।। १४ ।।
सुवर्णवर्णां कौबेरं ताम्रामाङ्गिरसं तथा ।।
पलालधूम्रवर्णाभां पितृलोकं तथैव च।।१५।।
शितिकण्ठाप्रदानेन वैश्वदेवमवाप्नुयात् ।।
गौरीं दत्त्वा भृगूणाञ्च वैराटाभां प्रजापतेः ।। १६ ।।
पाण्डुकम्बलवर्णाभां रुद्राणां लोकमाप्नुयात् ।।
शुक्लबिन्दुचितां कृष्णां गन्धर्वैः सह मोदते ।। १७ ।।
(कपिलाञ्च तथा दत्त्वा यथेष्टं लोकमाप्नुयात् ।।)
गावः प्रकृतिवर्णास्तु कपिलाः परिकीर्तिताः ।। १८ ।।
कृतन्तु वर्णवैचित्र्यं पूर्वं तासान्तु शम्भुना ।।
यथा तु गङ्गा सरितां धेनूनां कपिला तथा ।। १९ ।।
सायं प्रातश्च सततं होमकाले द्विजोत्तमाः ।।
गावो ददति वै हौम्यमृषिभ्यो नात्र संशयः ।। 3.306.२० ।।
दुष्कृतानि दुरिष्टानि दुर्गाणि विषमाणि च ।।
तरन्ति चैव पापेभ्यो धेनुदानेन मानवाः ।। २१ ।।
एकां गां दशगुर्दद्याद्दश दद्याच्च गोशती ।।
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ।। २२ ।।
शतवर्षसहस्राणि तपस्तप्तं सुदुश्चरम् ।।
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ।। २३ ।।
लोकेऽस्मिन्दक्षिणानाञ्च सर्वा गा वयसोत्तराः ।।
भवे तानि च लिंप्येम दोषेणातिपरन्तपाः ।। २४ ।।
शकृत्तासां पवित्रार्थं कुर्वीरन्देवमानुषाः ।।
तथा सर्वाणि भूतानि स्थावराणि चराणि च ।। ।। २५ ।।
प्रदातारश्च गोलोकान्गच्छेयुरिति मानदाः ।।
एतद्धनं ददौ तासां सर्वमेव पितामहः ।। २६ ।।
सुरभिर्देवधेनुर्या तस्याः पुत्रत्वमागताः ।।
धर्मो वृषभरूपेण महादेवध्वजः स्मृतः ।। २७ ।।
दशधेनुप्रदानेन यथेष्टाङ्गतिमाप्नुयात् ।।
शतञ्च दत्त्वा धर्मज्ञः शक्रलोकमुपागतः ।। २८ ।।
कल्पावशेषं स सुखी मोदत्यप्सरसां गणैः ।।
दत्त्वा सहस्रं धेनूनां सर्वपापैर्विमुच्यते ।। २९ ।।
उक्ष्णां च ये प्रयच्छन्ति शतेन सह यूथपम् ।।
सर्वपापविनिर्मुक्तास्ते प्रयान्त्यमरावतीम् ।। 3.306.३० ।।
कल्पावशेषं त्रिदिवे सुखमुप्य नरोत्तमाः ।।
मानुष्ये धनसंयुक्ता भवन्ति सुखिनस्ततः ।। ३१ ।।
सहस्रेण गवां सार्धं ये प्रयच्छन्ति यूथपम् ।।
अलंकृतं यथाशक्त्या गोलोकं यान्ति ते नराः ।। ३२ ।।
उक्षाणमिन्द्रियोपेतं यस्तु दद्याद्द्विजातये ।।
दशधेनुफलं तस्य नात्र कार्या विचारणा ।। ३३ ।।
गोयुगं ये प्रयच्छन्ति सीरयूपयुतं द्विजाः ।।
सर्वकामसमृद्धस्य प्राप्नुवन्ति फलं नराः ।। ३४ ।।
गोभिश्चतुर्भिः संयुक्तं रथं दत्त्वा द्विजातये ।।
धान्यैर्वस्त्रैर्युतं शक्त्या शक्रलोकं व्रजन्ति ते ।। ३५ ।।
मानुष्यमासाद्य तथा भवन्ति वसुधाधिपाः ।।
शकटस्य प्रदानन्तु विना गोभिर्महाफलम् ।। ।। ३६ ।।
विशेषेण महाभागास्तस्य गोभिर्युतस्य च ।।
ससस्यं शकटं दत्त्वा नाकलोकं महीयते ।। ३७ ।।
दत्त्वा तु धेनुं होमार्थे ब्राह्मणायाहिताग्नये ।।
गोदानफलमाप्नोति होमदानफलं तथा ।। ३८ ।।
स्नपनार्थं तथा दत्त्वा धेनुं रुद्रसुरालये ।।
रुद्रलोकमवाप्नोति कुलञ्चैव समुद्धरेत् ।। ।। ३९ ।।
दत्त्वा सचैलं वृषभं महादेवालये नरः ।।
रुद्रलोकमवाप्नोति कुलमुद्धरते तथा ।। 3.306.४० ।।
धेनूनां कपिला श्रेष्ठा वृषभः श्वेत उच्यते ।।
श्वेतन्तु वृषभं दत्त्वा फलस्यानन्त्यमश्नुते ।। ४३ ।।
दधिक्षीरहितार्थाय वासुदेवसुरालये ।।
दत्त्वा गां मधुपर्कार्थं चानन्तं फलमाप्नुयात् ।। ४२ ।।।
गोप्रदानरता यान्ति गोलोकं मानवोत्तमाः ।।
सहाप्सरोभिर्मुदिता विमानवरमास्थिताः ।। ४३ ।।
अपामधस्ताल्लोको यो तस्योपरि महीधराः ।।
नागानामुपरिष्टाद्भूः पृथिव्युपरि मानवाः ।। ४४ ।।
मनुष्यलोकादूर्ध्वन्तु खगानां गतिरुच्यते ।।
आकाशस्योपरि रविर्द्वारं स्वर्गस्य तत्स्मृतम् ।। ।। ४५।।
देवलोकः परस्तस्माद्ब्रह्मलोकस्ततः परम्।।
तत्रोपरि गवां लोको विष्णुलोकस्ततः परम् ।।४६।।
एकस्त्वधो दुष्कृतिनां कर्मिणां पृथिवी मता।।
ब्राह्मे तपसि युक्तानां ब्रह्मलोकः सनातनः ।।४७ ।।
गवामेव हि गोलोको दुरारोहा हि सा गतिः ।।
एकान्तिनो विष्णुभक्ता विष्णुलोकं व्रजन्ति ते । ४८ ।।
गोप्रदानरता यांति गोलोकं सर्वकामदम् ।।
तत्र कामफला वृक्षा नद्यः पायसकर्दमाः ।। ४९ ।।
सुवर्णसिकताश्चान्या विमलाम्बुयुताः शुभाः ।।
यथाकामेप्सितास्तत्र भवन्ति शुभकर्मिणाम् ।। 3.306.५० ।।
देशा मनोहराः शुभ्रा देवारामविभूषणाः ।।
दिव्येन नृत्यगीतेन वादित्रेण मनोहराः ।। ५१ ।।
तत्रेप्सितानां कामानामाप्तिर्भवति नित्यदा ।।
हेमशृङ्गीं रूप्यखुरां मुक्तालांगूलभूषणाम् ।। ५२ ।।
अहताम्बरसंवीतां तथा कांस्योपदोहिनीम् ।।
त्रिरात्रं स्थंडिले सुप्त्वा त्रिरात्रं गोरसाशनः ।। ५३ ।।
तृप्तान्तु तर्पिते दत्त्वा वाससा संवृतां द्विजाः ।।
सदक्षिणां महाभागास्त्रिरात्रं गोरसैस्ततः ।। ५४ ।।
प्राणसंधारणं कृत्वा गवां लोके महीयते ।।
यावन्ति धेनुरोमाणि तावद्वर्षाणि मानवः ।। ५५ ।।
दत्तैवं कपिलां विप्राः प्राप्नोत्यभ्यधिकं फलम् ।।
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।। ५६ ।।
तत्रैककालमश्नन्तो द्वितीयादशनान्नरः ।।
यथोक्तविधिना दद्यात्क्रीत्वा तु कपिलां नरः ।। ५७ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
गवां लोकमवाप्नोति कुलमुद्धरति स्वकम् ।। ५८ ।।
अलंकृतां ततो दत्त्वा गोदानफलमाप्नुयात् ।।
अजामलंकृतां दत्त्वा वह्निलोके महीयते ।। ५९ ।।
तदेव लोकमाप्नोति दत्त्वाजं विधिवन्नरः ।।
वारुणं लोकमाप्नोति दत्त्वा च महिषीं नरः।।3.306.६०।।
महिषस्य प्रदानेन याम्ये लोके महीयते ।।
वारुणं लोकमाप्नोति दत्त्वोरभ्रं नरोत्तमः ।। ६१।
अविप्रदाता शतधा तदेव फलमश्नुते ।।
आरण्यपशुदानेन वायुलोके महीयते ।। ६२ ।।
एतदेव फलं प्रोक्तं प्रदानेन च पक्षिणाम् ।।
शस्त्रपिण्डकि जालादिरुदकादानतस्तथा ।। ६३ ।।
गोरसानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ।।
तत्र वाश्वयुजे मासे यस्तु दद्याद्द्विजातिषु ।। ६४ ।।
आरोग्यं महदाप्नोति यत्रयत्राभिजायते ।।
तथा दध्नः प्रदानेन मङ्गलान्याप्नुते सदा ।। ६५ ।।
क्षीरदस्तृप्तिमाप्नोति सर्वदुःखैर्विमुच्यते ।।
क्षीरेण स्नपनं कृत्वा हरस्य प्रयतो नरः ।। ६६ ।।
मनोऽभितापनिर्मुक्तो रुद्रलोके महीयते ।।
परमान्नप्रदानेन कामानाप्नोति शाश्वतान्।। ६७ ।।
मासि मासि तु रेवत्यां ब्राह्मणान्घृतपायसम् ।।
सदक्षिणं भोजयित्वा रूपमाप्नोत्यनुत्तमम् ।। ६८ ।।
आज्यन्तेजः समुद्दिष्टं चाज्यं पापहरं परम् ।
आज्यं सुराणामाहारश्चाज्ये लोकाः प्रतिष्ठिताः ।। ६९ ।।
आज्येन लिङ्गस्नपनं नरः कृत्वा तु शूलिनः ।।
सर्वदुःखविनिर्मुक्तो रुद्रलोके महीयते ।। 3.306.७० ।।
अलक्ष्मीशमनं प्रोक्तं घृतस्नानं तथा द्विजाः ।।
कल्यमुत्थाय यो गव्यघृते मुखमथात्मनः । ७१ ।।
पश्यते स जहात्येव कृत्वा पापमहर्निशम् ।।
अलक्ष्मीर्नश्यते चास्य क्षिप्रमेषा करीषिणी ।। ७२ ।।
घृतदानान्नरो याति स्वर्गलोकमसंशयम् ।।
मासे चाश्वयुजे नित्यं घृतं यस्तु प्रयच्छति ।। ७३ ।।
कल्यमुत्थाय विप्रेभ्यः प्रीणयेच्च तथाश्विनौ ।।
स रूपं महदाप्नोति तथा रोगैश्च मुच्यते ।।
एवं महाफलं दानं गोरसानां तथा गवाम् ।। ७४ ।।
प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम् ।।
तैस्तैर्गुणैः कामदुघा च भूत्वा नरं प्रदातारमुपैति सा गौः ।। ७५ ।।
यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता ।।
पुत्रांश्च पौत्रांश्च कुलञ्च सर्वमासप्तमं तारयते परत्र।।७६।।
इति श्रीविष्णुधर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु गोदानफलनिरूपणो नाम षडधिकत्रिशततमोऽध्यायः ।। ३०६ ।।
3.307
हंस उवाच ।।
घृतधेनुप्रदानञ्च निबोधत द्विजोत्तमाः ।।
गव्यस्य सर्पिषः कुम्भं पूर्णन्तु परिकल्पयेत् ।।१।।
कलशञ्च तथा पूर्णन्तस्या वत्सं प्रकल्पयेत् ।।
कांस्यापिधानसच्छन्नसितवस्त्रयुतन्तथा ।। २ ।।
हिरण्यगर्भौ कर्तव्यावनुलिप्तौ च बाह्यतः ।।
इक्षुयष्टिमयान्पादान्खुरान्रूप्यमयाँस्तथा ।। ३ ।।
सौवर्णे चाक्षिणी कार्ये शृङ्गे चागुरुकाष्ठजे ।।
सप्तधान्यश्च कर्तव्ये तस्य पार्श्वे पृथक्कृते ।। ४ ।।
तस्य पट्टं च कर्तव्यं कम्बलं च द्विजोत्तमाः ।।
कुर्यात्तुरुष्करं दूरे प्राणे हेममयांस्तनान् ।। ५ ।।
तद्वच्छर्करया जिह्वां गुडक्षीरमयं मुखम् ।।।
क्षौमसूत्रेण लांगूलं रोमाणि सितसर्षपैः ।। ६ ।।
ताम्रपत्रमयं पृष्ठं कुर्याच्छ्रद्धासमन्वितः ।।
एतद्विरचनं कृत्वा घृतक्षीराभिषेचनैः ।। ७ ।।
हरिर्घृतार्चिषेत्येवं नाम्ना सम्पूजयेद्विभुम् ।।
ततस्तु गन्धपुष्पान्नधूपवस्त्रादिभिर्नरः ।। ८ ।।
घृतेन दीपं दद्याच्च तथैव च घृतं दिशः ।।
होमं विप्रा यदा धेनुं दद्याद्विप्राय शक्तितः ।। ९ ।।
घृताची प्रीयते विप्रं कल्पयित्वा घृतार्चिषम् ।।
एकरात्रञ्च तां दत्त्वा घृताहारी भवेन्नरः ।। ।। 3.307.१० ।।
विमुक्तः सर्वपापेभ्यो लोकमाप्नोति शाश्वतम् ।।
अनेन विधिना स्नात्वा सोपवासो नरः शुचिः ।। ११ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
विमानेनार्कवर्णेन गवां लोके महीयते ।। १२।।
घृतक्षीरवहा सद्यो यत्र पायसकर्दमाः ।।
यत्र कामफला वृक्षा यत्र सिद्धिस्तु मानसी ।। १३ ।।
गन्धर्वाप्सरसां यत्र सततं गीतनर्तनम् ।।
तत्रास्ते सुचिरं लोके यावदिन्द्राश्चतुर्दश ।। १४ ।।
मानुष्यमासाद्य भवत्यरोगः शीलेन रूपेण धनेन युक्तः ।।
मनोभिरामः प्रमदाप्रियश्च धनान्वितः सर्वसुखोपपन्नः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय वज्रसंवादे मुनीन्प्रति हंसगीतासु घृतधेनुकल्पवर्णनो नाम सप्ताधिकत्रिशततमोऽध्यायः ।। ३०७ ।।
3.308
।। हंस उवाच ।।
तिलधेनुं प्रवक्ष्यामि सर्वपापभयापहाम् ।।
धेन्वाकारान्तु तां कुर्यादाविके कम्बले बुधः ।। १ ।।
तिलषोडशभिः प्रस्थैश्चतुर्भिर्वत्समेव तु ।।
तिलप्रसारणं कुर्याद्धेन्वा धेनुप्रमाणतः ।। २ ।।
ततस्तु रचयेद्धेनुं रत्नैर्वक्ष्याम्यहं द्विजाः ।।
हेमशृङ्गीं रूप्यखुरां गन्धघ्राणवतीं शुभाम् ।। ३ ।।
मिष्टान्नजिह्वां कुर्वीत गुडास्यां सूत्रकम्बलाम् ।।
इक्षुपादां ताम्रपृष्ठां कुर्यान्मुक्ताफलेक्षणाम् ।। ४ ।।
प्रशस्तपत्रश्रवणां फलदन्तवतीं शुभाम् ।।
स्रग्दामपुष्पां कुर्वीत नवनीतस्तनान्विताम् ।। ५ ।।
फलैमर्नोहरैर्भक्ष्यैर्मणिमुक्ताफलान्विताम् ।।
शुभ्रवस्त्रयुगच्छन्नां चारुच्छत्रसमन्विताम् ।। ६ ।।
कांस्योपदोहनां कृत्वा वासुदेवन्तु पूजयेत् ।।
गन्धमाल्यनमस्कारधूपदीपान्नसम्पदा ।। ७ ।।
जुहुयाच्च तिलानेव नाम्ना तस्यैव मानवः ।।
तमेव प्रीणयेद्दद्याद्धेनुन्तामाहिताग्नये ।। ८ ।।
त्रिरात्रं यस्तिलाहारस्तिलधेनुं प्रयच्छति ।।
दत्त्वैकरात्रञ्च पुनस्तिलानत्ति द्विजोत्तमाः ।। ९ ।।
चान्द्रायणादभ्यधिकं शस्तन्तत्तिलभक्षणम् ।।
सर्वपापविनिर्मुक्तः पितरं सपितामहम् ।। 3.308.१० ।।
तस्यापि पितरं चैव तारयेद् दुष्कृतान्नरः ।।
आत्मानं पुत्रपौत्रांश्च प्रपौत्रमपि तारयेत् ।। ११ ।।
सुहृदं वाप्यथोद्दिश्य तिलधेनुप्रदो नरः ।।
तारयेद् दुष्कृतात्तञ्च यमुद्दिश्य प्रयच्छति ।। १२ ।।
यश्च गृह्णाति विधिवद्दीयमानाञ्च पश्यति ।।
सोऽपि पापविनिर्मुक्तः स्वर्गलोके महीयते ।। १३ ।।
महापातकसंयुक्तो युक्तो यश्चोपपातकैः ।।
तिलधेनुप्रदानेन सोऽपि पावनमाप्नुयात् ।। १४ ।।
सलोकमासाद्य नरो वसूनान्तत्रापि भुक्त्वा त्रिदशेन्द्रभोगान्।।
मानुष्यमासाद्य भवत्यरोगो धनान्वितो रूपसुखोपपन्नः ।।१५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु तिलधेनुदानविधिवर्णनो नामाष्टोत्तरत्रिशततमोऽध्यायः ।। ३०८ ।।
3.309
हंस उवाच ।।
जलधेनुं प्रवक्ष्यामि प्रीतये जलशायिनः ।।
जलकुम्भं द्विजश्रेष्ठाः सुवर्णरजतान्वितम् ।। १ ।।
कल्पयेद्रत्नगर्भञ्च स्थापयेत्तं यवोपरि ।।
सर्वधान्यैस्तथा ग्राम्यैः समन्तात्परिवारयेत् ।। २ ।।
सितवस्त्रयुगच्छन्नं दूर्वापल्लव शोभितम् ।।
कुष्ठमांसीमुरोशीरवालुकामलकैर्युतम् ।। ३ ।।
प्रियङ्गुपत्रसहितं सितयज्ञोपवीतिनम् ।।
सच्छत्रोपानहञ्चैव सोष्णीषं परिकल्पयेत् ।। ४ ।।
तिलपात्रैर्युतं कृत्वा सहिरण्यैश्चतुर्दिशम् ।।
दध्योदनयुतेनाथ पात्रेण स्थगितं मुखे।। ५ ।।
कल्पयेदेवमेवन्तु वारिधानीं तु वत्सकम् ।।
उपोषितः समभ्यर्च्य देवेशं जलशायिनम् ।। ६ ।।
पुष्पधूपोपहारैस्तु यथाविभवमाश्रितः ।।
अहताम्बरवीताय दद्याद्विप्राय भक्तिमान्।। ७ ।।
जलशायी जगद्योनिः प्रीयतां मम केशवः ।।
इति चोच्चार्य तं दद्यात्प्रीणयेच्च द्विजोऽपि तम्।।८।।
अहोरात्रोषितो दद्याद्यथाविधि मयेरितम् ।।
अपक्वान्नाशिना स्थेयमहोरात्रमतः परम् ।। ९ ।।
अनेन विधिना दत्त्वा जलधेनुं द्विजोत्तमान् ।।
सर्वाह्लादमवाप्नोति कामानाप्नोति शाश्वतान् ।।3.309.१०।।
मोक्षमाप्नोति सर्वेभ्यस्तपोभ्यः स तथा नरः ।।
सौभाग्यं महदाप्नोति रूपञ्च परमं तथा ।।११।।
पुरुषः स तथा याति यस्य यस्य च दर्शनम् ।।
करोति परमाह्लादं तस्य तस्य द्विजोत्तमाः ।। १२ ।।
नित्याभितृप्तो भवति तथैव च निरामयः ।।
सर्वबाधाप्रशमनं प्राप्नोति गतकल्मषः ।। ।। १३ ।।
वारुणं लोकमाप्नोति सकृद्दाता द्विजोत्तमः ।।
दत्त्वा तामसकृद्विप्रा लोकमाप्नोति वैष्णवम् ।। १४ ।।
आह्लादहेतोः परमं पवित्रं दानं मयेदं कथितं द्विजेंद्राः ।।
धन्यं यशस्यं दुरितापहारि कामप्रदं लोकहितं प्रशस्तम्।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु जलधेनुवर्णनो नाम नवोत्तरत्रिशततमोऽध्यायः।।३०९।।
3.310
हंस उवाच ।।
सुवर्णमुत्तमं रत्नं धनानामपि चोत्तमम्।।
लोहानामुत्तमञ्चैव सर्वेषामपि चोत्तमम्।।१।।
अग्नेरपत्यं प्रथमं पवित्रं मङ्गलं परम्।।
धारणात्सर्वपापघ्नं दातुस्त्रिदशलोकदम्।।२।।
मुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा।।
धार्यते यत्सदा देवैः पवित्रत्वाद्द्विजोत्तमाः।।३।।
जाम्बूनदं तद्देवानामिन्द्रगोपकसन्निभम् ।।
पितॄणाञ्चन्द्ररश्म्याभं दैत्यानां शबलोपमम् ।। ४।।
नागानां तच्छुकाभं स्यान्नारीणां पीतमुच्यते ।।
दत्त्वा कृष्णलमात्रन्तु नरः पापात्प्रमुच्यते।।५।।
दत्त्वा च माषकं तस्य पुण्यं फलमुपाश्नुते ।।
सुवर्णमाषकं दत्त्वा सूर्यस्योदयनं प्रति ।। ६ ।।
हुत्वाग्निं सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ।।
त्रेताग्निव्रतमेतत्तु कीर्तितं तस्य नित्यदा ।। ७ ।।
दिनमध्यगते सूर्ये हुत्वाग्निं यः प्रयच्छति ।।
तस्याग्निनित्यदाने च महत्फलमुदाहृतम् ।। ८ ।।
सूर्यस्यास्तमये वह्निं हुत्वा तद्वै प्रयच्छति ।।
पुण्यं महत्समाप्नोति नित्यदानेन वै द्विजाः ।। ९ ।।
त्रिसन्ध्यं कनकं यस्तु हुत्वा वह्निं प्रयच्छति ।।
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ।। 3.310.१० ।।
सकृत्कृष्णलदानेन स्वर्गे वर्षं सुखी वसेत् ।।
तथा च पञ्चवर्षाणि स्वर्गे दत्त्वैव माषकम् ।। ११ ।।
यः सुवर्णं सुवर्णस्य ब्राह्मणाय प्रयच्छति ।।
निर्दोषः स्यात्स नाके तु मोदत्यब्दशतं ध्रुवम् ।। १२ ।।
आत्मतुल्यं सुवर्णस्य यः प्रयच्छति वै द्विजाः ।।
सर्वपापविनिर्मुक्तो यथेष्टाङ्गतिमाप्नुयात् ।। १३ ।।
ब्रह्मघ्नो वा सुरापो वा स्तेनो वा गुरुतल्पगः ।।
सर्वपातकयुक्तोऽपि तेन दानेन मुच्यते ।। १४ ।।
श्रद्धानामुत्तमञ्चैतद्दानानामुत्तमोत्तमम् ।।
रुक्मं दत्त्वा ब्राह्मणाय सुखी सर्वत्र जायते ।। १५ ।।
चिरान्नाकपरिभ्रष्टो रूपसौभाग्यसंयुतः ।।
तासां कुले तु सुस्फीते गुणैः सर्वैर्युतो नरः ।। १६ ।।
रुक्मपात्रप्रदानेन पुत्री भवति मानवः ।।
सर्वेषामेव कामानां यशसस्त्रिदिवस्य च ।। १७ ।।
रूप्यदो रूपमाप्नोति भोगमाप्नोति ताम्रदः ।।
लोहारकूटयोर्दानात्कुप्यमाप्नोत्यसंशयम् ।। १८ ।।
त्रपुसीसकयोर्दानाद्वह्निवृद्धिमवाप्नुयात् ।।
यथेष्टं लोहपात्रञ्च यः प्रदद्याद्द्विजातये ।। १९ ।।
पात्रं भवति कामानां विशेषश्चास्य लोहतः ।।
शिल्पभाण्डानि यो दद्याल्लोहानि विधिवद्द्विजाः ।। 3.310.२० ।।
विद्यादानफलं तस्य कथितं नात्र संशयः ।।
चर्मदाता नरो नित्यं रक्षां समधिगच्छति ।। २१ ।।
आयुधानां प्रदानेन रिपुनाशमवाप्नुयात् ।।
राजलिङ्गप्रदानेन राजा भवति भूतले ।। २२ ।।
रत्नानां च प्रदानेन राजैवेह प्रजायते ।।
रत्नदानस्य यल्लोकं तद्भुक्त्वा सुचिरं द्विजाः ।। २३ ।।
वज्रदः शक्रलोकन्तु पद्मरागप्रदो रवेः ।।
सद्यो मरकतं दत्त्वा विष्णुलोके महीयते ।। २४ ।।
मुक्ताफलप्रदानेन वारुणं लोकमश्नुते ।।
वैदूर्यस्य प्रदानेन द्वीपानां सप्त मोदते ।। २५ ।।
रत्नान्यन्यानि दत्त्वा च राजराजस्य च द्विजाः ।।
सर्वेषामेव रत्नानां कनकं श्रेष्ठमुच्यते ।। २६।।
धारणं कीर्तनं दानं कनकस्य प्रशस्यते ।।
दुःस्वप्रशमनं दानं दुरिष्टस्य च नाशनम् ।। २७ ।।
परं पापहरं ज्ञेयमलक्ष्मीशमनं तथा ।।
दत्त्वा सुवर्णं लोकेषु यथेष्टेषु च मोदते ।।२८।।
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ।।
देवरामागणाढ्येन कामगेन विहायसा।।।।।
भुक्त्वा दिवि चिरं भोगान्मानुष्ये सुखमाप्नुयात् ।।
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी ब्रह्मसुताश्च गावः ।।
सर्वं हि दत्तं भवतीह तेन यः काञ्चनं गाञ्च महीञ्च दद्यात् ।। 3.310.३० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सुवर्णदानविधिनिरूपणो नाम दशाधिकत्रिशततमोऽध्यायः ।। ३१० ।।