विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः ३०१-३०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २९६-३०० विष्णुधर्मोत्तरपुराणम्
अध्यायाः ३०१-३०५
वेदव्यासः
अध्यायाः ३०६-३१० →

3.301
ऋषय ऊचुः ।।
सर्वधर्मभृतां श्रेष्ठ विधिं धर्म्यं प्रतिग्रहे ।।
ब्राह्मणानां समाचक्ष्व त्वं हि वेदमयो निधिः ।। १ ।।
।। हंस उवाच ।। ।।
मृतके सूतके विप्रा न तु देयः प्रतिग्रहः ।।
तत्रापि च तथा देया या स्यादभयदक्षिणा ।। २ ।।
रात्रौ दानं न शंसन्ति विना त्वभयदक्षिणाम् ।।
विद्यां कान्यां द्विजश्रेष्ठा दीपमन्नं प्रतिश्रयम् ।। ३ ।।
रात्रावपि हितं देयं यच्चान्यत्कथितं पुरा ।।
पूजने त्वतिथीनां च पान्थानामपि पूजने ।। ४।।
तच्च रात्रौ तथा ज्ञेयं गवामुक्तं च पूजने ।।
कालः सर्वो विनिर्दिष्टः पात्रः सर्वश्च मानदाः।। ५ ।।
अभयस्य प्रदाने तु नात्र कार्या विचारणा ।।
शुचिर्वाप्यशुचिर्वापि दद्यादभयदक्षिणाम् ।। ६ ।।
शुचिनाऽशुचिना वापि ग्राह्या त्वभयदक्षिणा ।।
कालः स एव ग्रहणे यदा भयमुपस्थितम् ।। ७ ।।
प्रतिग्रहाण्यथान्यानि ग्राह्याणि शुचिना सदा।।
मृतके सूतके चैव न ग्राह्याणि द्विजोत्तमाः ।। ८ ।।
अभ्यक्तेन च धर्मज्ञास्तथा मुक्तशिखेन च ।।
स्नातः सम्यगुपस्पृश्य गृह्णीयात्प्रयतः शुचिः ।। ९ ।।
तोयं दद्यात्तथा दाता दाने विधिरयं स्मृतः ।।
प्रतिग्रहीता सावित्रं सर्वत्रैव तु कीर्तयेत् ।। 3.301.१० ।।
ततस्तु कीर्तयेत्सार्धं द्रव्येण द्रव्यदेवताम् ।।
समापयेत्ततः पश्चात्कार्मस्तुत्या प्रतिग्रहम् ।। ११ ।।
प्रतिग्रहं पठेदुच्चैः प्रतिगृह्य द्विजोत्तमः ।।
मन्दं पठेत्तु राजन्यादुपांशु च तथा विशः ।। १२ ।।
मनसा तु तथा शूद्रात्स्वस्तिवाचनिकं तथा ।।
सोंकारं ब्राह्मणे कुर्यान्निरोंकारं महीपतौ ।। १३ ।।
उपांशु च तथा वैश्ये स्वस्ति शूद्रे प्रकीर्तितम् ।।
अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता ।। १४ ।।
कन्यादानं तथा दासी प्राजापत्याः प्रकीर्तिताः ।।
तथा चैकशफं सर्वं कथितं यमदैवतम् ।। १५ ।।
माहिषं च तथा साम्यं चोष्ट्रं वै नैर्ऋतं भवेत् ।।
रौद्री धेनुर्विनिर्दिष्टा च्छागमाग्नेयमुच्यते ।। १६।।
मेषं तु वारुणं विद्याद्वराहो वैष्णवः स्मृतः।।
आरण्याः पशवः सर्वे कथिता वायुदैवताः ।। १७ ।।
जलाशयानि सर्वाणि वारिधानी कमण्डलुः ।।
कुम्भं च करकं चैव वारुणानि द्विजोत्तमाः ।। १८ ।।
समुद्रजानि रत्नानि वारुणानि द्विजोत्तमाः ।।
आग्नेयं कनकं प्रोक्तं सर्वलोहानि चाप्यथ ।। १९ ।।
प्राजापत्यानि सस्यानि पक्वान्नमपि च द्विजाः ।।
ज्ञेयानि सर्वगन्धानि गान्धर्वाणि विचक्षणैः ।। 3.301.२० ।।
बार्हस्पत्यं स्मृतं वासः सौम्यान्यथ रसानि च ।।
पक्षिणश्च तथा सर्वे वायव्या परिकीर्तिताः ।। २१ ।।
विद्या ब्राह्मी विनिर्दिष्टा विद्योपकरणानि च ।।
सारस्वतानि ज्ञेयानि पुस्तकाद्यानि पंडितैः ।।२२।।
सर्वेषां शिल्पभाण्डानां विश्वकर्मा तु देवता ।।
द्रुमाणामथ पुष्पाणां शाकहारितकैः सह ।। २३ ।।
फलानामपि सर्वेषां तथा ज्ञेयो वनस्पतिः ।।
मत्स्यमांसं विनिर्दिष्टं प्राजापत्यं तथैव च ।। २४ ।।
छत्रं कृष्णाजिनं शय्या रथमासनमेव च ।।
उपानहौ तथा यानं यच्चान्यत्प्राणिवर्जितम् ।।२५।।
उत्तानाङ्गिरसे त्वेतत्प्रतिगृह्णीत मानवः ।।
पर्जन्याय तथा सीरं शस्त्रवर्मध्वजादिकम् ।। २६ ।।
रणोपकरणं सर्वं कथितं चक्रदैवतम् ।।
ग्रहन्तु सर्वदैवत्यं यद्यदुक्तं द्विजोत्तमाः ।। २७ ।।
तज्ज्ञेयं विष्णुदैवत्यं सर्वं वा द्विजसत्तमाः ।।
भूमेः प्रतिग्रहं कुर्याद्भूमिं कृत्वा प्रदक्षिणम् ।। २८ ।।
करे गृह्य तथा कन्यां दासीदासौ द्विजोत्तमाः ।।
करन्तु हृदि विन्यस्य धर्म्यो ज्ञेयः प्रतिग्रहः ।। २९ ।।
आरुह्य च गजस्योक्तः कर्णे चाश्वस्य कीर्तितः ।।
तथा चैकशफानां च सर्वेषामविशेषतः ।। 3.301.३० ।।
प्रतिगृह्णीत गां पुच्छे ह्यन्ते कृष्णाजिनं तथा ।।
कर्णेऽजाः पशवश्चान्ये ग्राह्याः पुच्छे विचक्षणैः ।। ३१ ।।
प्रतिग्रहस्त्वथोष्ट्रस्य आरुह्यैव तथा भवेत् ।।
बीजानां मुष्टिमादाय रत्नान्यादाय सर्वतः ।। ३२ ।।
वसुं दशान्तादादद्यात्परिधायाथ वा पुनः ।।
आरुह्योपानहौ मन्त्रमारुह्यैव च पादुके ।। ३३ ।।
ईषाधस्तु रथं ग्राह्यं छत्रं दंडे तु वाचयेत् ।।
द्रुमाणामथ सर्वेषां मूले न्यस्तकरो द्विजाः ।। ३४ ।।
आयुधानि समादाय तथोन्मुच्य विभूषणम् ।।
वर्मध्वजौ तथा स्पृष्ट्वा प्रविश्य च तथा गृहम् ।।३५।।
अवतीर्य तु सर्वाणि जलस्थानानि वै द्विजाः।।
द्रव्याण्यन्यान्यथादाय स्पृष्ट्वा तु ब्राह्मणः पठेत ।। ३६ ।।
कन्यादाने तु च पठेद्द्रव्याणान्तु पृथक्पृथक् ।।
प्रतिग्रहे द्विजश्रेष्ठास्तत्रैवान्तर्भवन्ति ते ।। ३७ ।।
द्रव्याणामथ सर्वेषां द्रव्यसंश्रवणान्नराः ।।
वाचयेज्जलमादाय करेणाथ प्रतिग्रहम् ।। ३८ ।।
प्रतिग्रहस्य यो धर्मं न जानाति द्विजो विधिम् ।।
द्रव्यस्तैन्यसमायुक्तो नरकं प्रतिपद्यते ।। ३९ ।।
निष्क्रीणाति तु तद्द्रव्यं ब्राह्मणस्तु प्रतिग्रहात् ।।
विधिं तु धर्म्यं विज्ञाय ब्राह्मणस्तु प्रतिग्रहे ।। 3.301.४० ।।
आत्मनः श्रेयसा योगं कुर्याद्दाता तथैव च ।।
भुवं धेनुमथाश्वं च रत्नानि कनकं तथा ।। ४१ ।।
तिलानि कुञ्जरं दद्यान्नाविज्ञाय गुणागुणान् ।।
आनृशंस्येन सर्वस्य दद्यादन्नं विचक्षणः ।।४२।।
वासश्च दद्यात्सर्वस्य सर्वसाधारणे हिते ।।
विधिं धर्म्यमविज्ञाय यस्तु कुर्यात्प्रतिग्रहम् ।। ४३ ।।
दात्रा सह तरत्येव नैव दुर्गाण्यसौ द्विजाः ।।
तस्मात्सर्वप्रयत्नेन विधिर्ज्ञेयः प्रतिग्रहे ।। ४४ ।।
प्रतिग्रहो यो विधिना गृहीतो द्वयोस्तु योगं परमेण कुर्यात् ।।
परत्र संभृत्य तथेह लोके स श्रेयसे नात्र विचारमस्ति ।। ।। ४५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मा० सं० मुनीन्प्रति हंसगीतासु प्रतिग्रहविधिवर्णनो नामैकोत्तरत्रिशततमोऽध्यायः ।। ३०१ ।।
3.302
ऋषय ऊचुः ।।
पृथक्पृथक् त्वमाचक्ष्व दानानां फलमुत्तमम् ।।
सर्वधर्मभृतां श्रेष्ठ सर्वज्ञस्त्वं मतो हि नः ।। १ ।।
।। हंस उवाच ।। ।।
अभयस्य प्रदानाद्धि नान्यद्दानं विशिष्यते ।।
सर्वेषामेव दानानां प्राणदानं विशिष्यते ।। २ ।।
ग्राह्यं प्राणप्रदानन्तु चण्डालात्पुक्कसादपि ।।
जीवन्सर्वमवाप्नोति जीवन्धर्मं करोति च ।। ३ ।।
जीवमानस्तु पुरुषः कामानां भाजनं भवेत् ।।
भाजनेन तु सर्वं वै भाजनत्वं विनश्यति ।। ४ ।।
शरीरधर्मसर्वस्वं रक्षणाय प्रयत्नतः ।।
शरीरात्स्रवते धर्मं पर्वतात्सलिलं यथा ।। ५ ।।
अभयस्य प्रदानेन नरः स्यात्सर्वकामदः ।।
अश्वमेधफलं तस्य यो रक्षेच्छरणागतम् ।। ६ ।।
शरणागतं तु सन्त्यज्य यो नरः पुरुषाधमः ।।
बहून्यब्दसहस्राणि नरकं प्रतिपद्यते ।। ७ ।।
नरकाच्च तथा मुक्तस्तिर्यग्योनिषु जायते ।।
तत्रापि च तथाप्नोति वधबन्धान्यनेकशः ।। ८ ।।
दैवान्मानुष्यमासाद्य चण्डालत्वमवाप्नुयात् ।।
व्याधिबन्धवधैर्घोरैस्तत्रापि स च युज्यते ।। ९ ।।
परित्राणं तु यः कुर्याद्भीतस्य शरणैषिणः ।।
स एकः पुरुषो लोके सर्वधर्मभृतां वरः ।। 3.302.१० ।।
वधभीतस्य यः कुर्यात्परित्राणं नरोत्तमः ।।
शक्रलोकः स्मृतस्तस्य यावदिन्द्राश्चतुर्दश ।। ११ ।।
तमःप्रवेशभीतस्य परित्राणेन मानवः ।।
ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ।। १२ ।।
वधादपि परं पापं चक्षुषा तु वियोजयेत् ।।
पार्थिवेन न तत्कार्यं कदाचिदपि कस्यचित् ।। ।। १३ ।।
तमःप्रवेशनं कृत्वा परेषां पुरुषाधमः ।।
अन्धत्वं ध्रुवमाप्नोति यत्रयत्राभिजायते ।। १४ ।।
अपि कल्पसहस्राणि तमसा न वियुज्यते ।।
अङ्गच्छेदनभीतस्य कृत्वा त्राणमनिन्दिताः ।। १५ ।।
रुद्रलोकमवाप्नोति कल्पशेषमिति श्रुतिः ।।
कल्पादिसर्गे भवति ज्ञानयुक्तो नरस्ततः ।। १६ ।।
कृत्वा बन्धनभीतस्य परित्राणन्नरोत्तमः ।।
सर्वबन्धविनिर्मुक्तो वायुलोके महीयते ।। १७ ।।
आसेवनाद्धि भीतस्य त्राणं कृत्वा तथा नरः ।।
सर्वदुःखविनिर्मुक्तः साध्यानां लोकमाप्नुयात् ।। १८ ।।
ताडनाद्यस्तु भीतस्य परित्राणं समाचरेत् ।।
सर्वबन्धविनिर्मुक्तो भृगूणां लोकमश्नुते ।। १९ ।।
विवासनाच्च भीतस्य त्राणं कृत्वा तथा नरः ।।
स्वर्गलोकमवाप्नोति मानुष्ये स्थानमुत्तमम् ।। ।। 3.302.२० ।।
धनापहारभीतस्य त्राणं कृत्वा नरोत्तमः ।।
स्वर्गलोकमवाप्नोति पूजां देवगणात्तथा ।। २१ ।।
नरः कृतपरित्राणः पुण्यं किञ्चिद्यदाचरेत् ।।
भागी तस्य परित्राता नरः पुण्यस्य कर्मणः ।। २२ ।।
पशूनाञ्च मृगाणाञ्च पक्षिणाञ्च तथा द्विजाः ।।
तृणद्रुमलतानाञ्च त्राणाद्भवति नाकभाक् ।। २३ ।।
वधकस्य हस्तगतं पशुं क्रीत्वा नरोत्तमः ।।
नाकलोकमवाप्नोति सुखी सर्वत्र जायते ।। २४ ।।
यावन्ति पशु रोमाणि तावद्वर्षाणि मानवः ।।
स्वर्गलोकमवाप्नोति यश्च त्राणं करोत्यसौ ।।२५।।
अपि कीटपतङ्गस्य त्राणात्सर्वमुपाश्नुते ।।
बहून्यब्दसहस्राणि नात्र कार्या विचारणा ।।२६।।
चौरग्रस्तं नृपग्रस्तं रिपुग्रस्तं तु मोक्षयेत् ।।
व्यालग्रस्तं तथा विप्राः सोऽश्वमेधफलं लभेत्।।२७।।
विषमे तु तथा दुर्गे सलिले वा हुताशने।।
निमग्नं यः परित्रायेत्सोऽश्वमेधफलं लभेत्।।२८।।
व्याधितस्यौषधं दत्त्वा प्राणदानफलं लभेत्।।
रोगार्तं परिचर्याथ प्राणदानफलं लभेत् ।। २९ ।।
उपचारं तथा कृत्वा भिषङ् मूल्यं विना द्विजाः ।।
प्राणदानफलं तस्य नाकलोके महीयते।।3.302.३०।।
ये रक्ष्यमाणा निहता मनुष्या भीरुङ्गतास्ते त्रिदशेन्द्रलोकम् ।।
च्यवन्ति नाद्यापि च ते नृवीराः कालेऽपि तेषां च्यवनं न चास्ति ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतास्वभयदानप्रशंसावर्णनो नाम द्व्यधिकत्रिशततमोऽध्यायः ।। ३०२ ।।
3.303
।। हंस उवाच ।।
विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्त्मम् ।।
विद्यादानात्परं दानं न भूतं न भविष्यति ।। १ ।।
विद्यावान्सर्वकामानां भाजनं पुरुषो भवेत् ।।
तस्माद्विद्यां हि ददता सर्वं दत्तं भवेदिह ।। २ ।।
पराध्यापनतः क्लेशं पुरुषस्तु यदश्नुते ।।
तपस्तत्परमं तस्य ब्रह्मलोकं परं स्मृतम् ।। ३ ।।
दानानामुत्तमं लोके तपसा च तथोत्तमम् ।।
विद्यादानं महाभागाः सर्वकामफलप्रदम् ।। ४ ।।
वेददानादवाप्नोति सर्वयज्ञफलं नरः ।।
उपवेदप्रदानेन गन्धर्वैः सह मोदते ।। ५ ।।
वेदाङ्गानां च दानेन शक्रलोकमवाप्नुयात् ।।
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते ।। ६ ।।
सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयम् ।।
शास्त्राणि दत्त्वा चान्यानि नरो नाके महीयते ।। ७ ।।
विद्यादानादवाप्नोति प्रदानात्पुस्तकस्य च ।।
शिल्पानि शिक्षयेद्यस्तु पौण्डरीकफलं लभेत् ।। ८ ।।
शिक्षयित्वा धनुर्वेदमश्वमेधफलं लभेत् ।।
शिल्पभाण्डप्रदानेन शिल्पदानफलं लभेत् ।।९ ।।
अहितेषु प्रवृत्तस्य तथा कृत्वा निवारणम् ।।
विद्यादानफलं प्रोक्तं नात्र कार्या विचारणा।।3.303.१०।।
पापप्रवृत्तस्य तथा नरः कृत्वा निवारणम् ।।
विद्यादानफलं प्राप्य स्वर्गलोके महीयते ।। ११ ।।
शिक्षयेत्पुरुषः कर्म कर्मणा येन जीवति ।।
शिक्षयित्वा महाभागाः स्वर्गलोके महीयते ।। १२ ।।
येन जीवति भाण्डेन तस्य भाण्डस्य दायकः ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।। १३।।
अन्तर्वन्तीह दानानि सर्वाण्येव द्विजोत्तमाः ।।
एकं महाफलं ज्ञेयं विद्यादानमनन्तकम् ।। १४ ।।
विद्यां यथेष्टां पुरुषस्य दत्त्वा मन्त्रं शुभं वाप्यथ वापि शिल्पम् ।।
शिल्पस्य भाण्डं यदि वा द्विजेन्द्राः प्राप्नोति लोकं मनसा त्वभीष्टम्।।१५।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु विद्यादानफलनिरूपणो नाम त्र्यधिकत्रिशततमोऽध्यायः।।३०३।।
3.304
हंस उवाच ।।
ब्रह्मदेयां तु यः कन्यां पुरुषस्य प्रयच्छति ।।
सप्तातीतान्भविष्याँश्च स्वकुले सप्त मानवान् ।।१।।
तेन कन्याप्रदानेन तारयिष्यत्यसंशयम् ।।
लोकमाप्नोति च तथा दक्षस्येह प्रजापतेः ।। २ ।।
दत्त्वा दैवेन विधिना कुलं त्रिपुरुषं नरः ।।
समुद्धरति दुर्गेभ्यो दक्षलोकं च गच्छति ।।३ ।।
प्राजापत्येन विधिना दत्त्वात्मानं समुद्धरेत् ।।
महत्पुण्यमवाप्नोति स्वर्गलोकं च गच्छति ।। ४ ।।
भूकरीन्द्राश्वदानानि गोदानञ्च तथैव च ।।
अन्तर्भवन्ति वै यस्मिन्किं दानमधिकं ततः ।। ५ ।।
दत्त्वा तां वर्णहीनाय घोरे तमसि मज्जति ।।
बहून्यब्दसहस्राणि तथैवाशुचिभुङ्नरः।।६।।
समवर्णाय यो दद्यात्स तूक्तफलभाग्भवेत ।।
दत्त्वा चाधिकवर्णाय द्विगुणां त्रिगुणां तथा ।। ७ ।।
द्विजपुत्रमनाथं यः संस्कुर्याद्यश्च कर्मभिः ।।
चूडोपनयनाद्यैश्च सोऽश्वमेधफलं लभेत् ।। ८ ।।
अनाथां कन्यकां दत्त्वा सदृशे वाधिके वरे ।।
द्विगुणं फलमाप्नोति कन्यादाने यदीरितम् ।। ९।।
विवाहे समनुप्राप्ते कृत्वौपकरणानि च ।।
नाकलोकमवाप्नोति कर्मस्वन्येष्वपि द्विजाः ।। 3.304.१० ।।
वस्त्रं पत्रमलङ्कारं विवाहार्थं प्रयच्छति ।।
महत्फलमवाप्नोति नाकलोके महीयते ।। ११ ।।
कन्यया सह यद्दत्तं द्रविणं वह्निमूलके ।।
सफलाद्द्विगुणं तस्य फलमुक्तं पुरातनैः ।। १२ ।।
कन्यादानादवाप्नोति दक्षलोकं नरोत्तमः ।।
विष्णुपूजासमं पुण्यं तत्पत्युः पूजया भवेत् ।। १३ ।।
विमानमारुह्य मनोभिरामं सुराङ्गनागीतविलासहृद्यम् ।।
प्राप्नोति लोकांस्त्रिदशोत्तमानां कन्याप्रदो नात्र विचारणास्ति ।।१४ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु कन्यादानफलनिरूपणो नाम चतुरधिकत्रिशततमोऽध्यायः ।। ३०४ ।।
3.305
हंस उवाच ।।
भूमिर्धात्री विधात्री च भूमौ सर्वं प्रतिष्ठितम् ।।
भूमिर्हि माता सर्वस्य सर्वकामप्रदा वरा ।। १ ।।
तदुद्भूतेन हविषा तृप्तिमायान्ति देवताः ।।
भूमिर्हि धारणी विप्रास्त्रैलोक्यस्य निगद्यते ।। २ ।।
भूमौ हि सर्वं भवति भूमौ सर्वं प्रतिष्ठितम् ।।
सर्वकामप्रदं ज्ञेयं भूमिदानं नरोत्तम ।। ३ ।।
हस्तमात्रां तु यो दद्याद्भुवं पुरुषसत्तम ।।
तेनैव ध्रुवमाप्नोति भूमिदानफलं नरः ।। ४ ।।
यदुत्पन्नमथाश्नाति नरः संवत्सरं द्विजाः ।।
एकं गोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः ।। ५ ।।
ब्राह्मणाय ततो दत्त्वा वसूनां लोकमाप्नुयात् ।।
शाकभूमिं ततो दत्त्वा लोकमाङ्गिरसं व्रजेत् ।। ६ ।।
आरामभूमिं दत्त्वा च मारुतं लोकमश्नुते ।।
जलाशयार्थं यो दद्याद्वारुणं लोकमाप्नुयात् ।। ७ ।।
यस्य दत्त्वा तु वेश्मार्थं तस्य देवस्य सोऽश्नुते ।।
यस्तत्र विद्यते नित्यं लोको द्विजवरा ध्रुवम् ।। ८ ।।
उद्यानभूमिं दत्त्वा च गन्धर्वैः सह मोदते ।।
रत्नाकरं तु वै दत्त्वा शक्रलोके महीयते ।।९।।
दत्त्वा कनकभूमिं च वह्निलोके महीयते ।।
अन्येषामाकरभुवं लोहानां यः प्रयच्छति ।। 3.305.१० ।।
तस्यापि मतिरुद्दिष्टा लोके हौताशने द्विजाः ।।
धान्याकरभुवं दत्त्वा नाकलोके महीयते ।। ११ ।।
अञ्जनाकरभूमिं तु यः प्रयच्छति वै द्विजाः ।।
पितृभिर्यमलोकस्थः पूज्यतेऽसौ नरोत्तमः ।। १२ ।।
लवणाकरभूमिं च सोमलोके महीयते ।।
शिम्बिसस्यप्ररोहां तु भुवं दत्त्वा नरोत्तमः ।। १३ ।।
साध्यानां लोकमाप्नोति नात्र कार्या विचारणा ।।
इन्धनाकरभूमिं तु नासत्यैः सहितस्तथा।।१४।।
शूकधान्यभुवं दत्त्वा रुद्रलोके महीयते ।।
केदार भूमिं धर्मज्ञा यः प्रयच्छति धर्मतः ।। १५ ।।
स महत्पुण्यमाप्नोति ब्रह्मलोकं च गच्छति ।।
इक्षुभूमिं नरो दत्त्वा द्राक्षाभूमिमथापि च ।। १६ ।।
सोमलोकमवाप्नोति सर्वकामाँश्च विन्दति ।।
सोपरा तस्कराकीर्णा तथा व्याडवती च भूः।।१७।
न दातव्या द्विजश्रेष्ठा या च सन्धिषु वै द्विजाः ।।
गुल्मपुष्पप्रदां यस्तु लतां वा संप्रयच्छति।।१८।।
विमाने नन्दने सोऽथ क्रीडत्यप्सरसां गणैः।।
पुष्पदं फलदं वृक्षं दत्त्वा विप्राय भक्तितः।।१९।।
स्वर्गलोकपरिभ्रष्टो नगराधिपतिर्भवेत्।।
ब्राह्मणाय गृहं दत्त्वा वसूनां लोकमश्नुते।।3.305.२०।।
आराममथ सोद्यानं नन्दने क्रीडते वने।।
धनधान्ययुतं स्फीतं गृहोपकरणैर्युतम्।।२१।।
शय्यासनयुतं रम्यं गोजाश्वावियुतं तथा।।
गृहं दत्त्वा द्विजेन्द्राय तावत्स्वर्गमुपाश्नुते ।।२२।।
यावत्कल्पावसाने तु कल्पादौ पार्थिवो भवेत्।।
ग्रामप्रदः स्यान्नृपतिस्तथा ह्यशनदो नृपः ।। २३ ।।
समग्रवसुधेशः स्याच्चक्रवर्ती च राज्यदः ।।
स्वदत्तां परदत्तां वा न हरेत वसुन्धराम् ।। २४ ।।
भूमेरङ्गुलमात्रं तु हृत्वा नरकमृच्छति ।।
बहून्यब्दसहस्राणि धर्मेऽपि पुरुषो रतः ।। २५ ।।
विष्ठाकृमित्वमाप्नोति पितृभिः सहितस्तथा ।।
तस्माद्भूमिं न हिंसेत दद्यादेव विचक्षणः ।। २६ ।।
भूमिदानात्परं दानं नान्यल्लोकेषु विद्यते ।।
भूमिं युद्धजितां दद्याद्ब्राह्मणेषु महीपतिः ।। २७ ।।
परं राष्ट्रं समासाद्य प्राग्दत्तं नैव हिंसयेत् ।।
स्वराष्ट्रे परराष्ट्रे वा देवब्राह्मणसात्कृतम् ।। २८ ।।
चिरं नरकमाप्नोति हृत्वा भूमिपतिर्भुवम् ।।
दत्ता न हिंसनीया स्याद्रिपुणापि वसुन्धरा ।। २९ ।।
भूमिहर्ता परं दुःखं प्रेत्य चेह तथाश्नुते ।।
भूमिं क्रीत्वा तु यः कुर्याद्देवब्राह्मणसान्नरः ।। 3.305.३० ।।
स्वर्गलोकमवाप्नोति पुरुषोऽपि सुदारुणः ।।
षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ।। ३१ ।।
आच्छेत्ता चानुमन्ता च तावन्ति नरके वसेत् ।।
पक्वसस्यां वसुमतीं योऽलङ्कृत्य प्रयच्छति ।। ३२ ।।
कामगेन विमानेन ब्रह्मलोकं स गच्छति ।।
यथा भवति विप्रेन्द्राः फलं भूमौ पुनःपुनः ।। ३३ ।।
तथा भूमिकृतं दानं सस्यैरिव विवर्धते ।।
यस्तु राजा द्विजातिभ्यः सम्यग्भूमिं प्रयच्छति ।।
पुनस्तु जननं प्राप्य राजैव भुवि जायते ।। ३४ ।।
शस्त्रं भद्रासनं वस्त्रं नराश्ववरवारणाः ।।
भूमिदानस्य पुष्पाणि फलं स्वर्गः प्रकीर्तितः ।। ३५।।
संग्रामे ये हताः शूरास्तथा ये यज्ञयाजिनः ।।
वनेषु ये मृतास्ते च नातिक्रामन्ति भूमिदम् ।। ३६ ।।
नास्ति विष्णुसमस्त्राता नास्ति गङ्गासमा नदी ।। ३७।।
होममन्त्रस्तथा नास्ति महाव्याहृतिभिः समः ।।
गायत्रीसदृशो जप्यो यथा नास्ति द्विजोत्तमाः।।३८।।
अन्तर्जले तथा नास्ति मन्त्रोऽन्योऽप्यघमर्षणात् ।।
विधिर्मानसमो नास्ति तपो नानशनात्परम् ।।३९।।
गुरुर्मातृसमो नास्ति नास्ति भार्यासमः सखा ।।
नीचावमाननाद्दुःखाद्दुःखं नास्ति यथा परम् ।। 3.305.४० ।।
यथा च नास्ति लोकेषु सुखं शत्रुजयाधिकम्।।
चक्षुर्ज्ञानसमं नास्ति सुहृद्धर्मसमस्तथा ।। ४१ ।।
भूमिदानात्परं दानं तथा नास्ति द्विजोत्तमाः ।।
भूमिदानात्परं नास्ति विमानैः कामगैरिह ।। ४२ ।।
देवस्त्रीनृत्यबहुले वीणामुरजनादिते ।।
किंकिणीजालनिर्घोषे मनोरथफलद्रुमे ।।४३।।
मुख्याभिर्देवरामाभिर्वीज्यमानास्तु चामरैः।।
संगीयमाना गन्धर्वैः स्तूयमानास्तथैव च ।।४४।।
बहून्यब्दसहस्राणि देवभोगांस्तु ते नराः ।।
स्वर्गे भुक्त्वा यदा यान्ति मानुष्यं कालपर्ययात् ।।
भवन्ति सर्वभोगाढ्याः सर्वदुःखविवर्जिताः।।४५।।
विख्यातशब्दाश्च जनाभिरामाः प्रतप्तचामीकरभूषिताङ्गाः ।।
सुगन्धिगन्धैश्च तथानुलिप्ता भवन्ति लोके च सुखैरुपेताः ।।४६।।
इति श्रीविष्णुधमोत्तरे तृ० खं० मा० सं० मुनीन्प्रति हंसगीतासु भूमिदानवर्णनो नाम पञ्चाधिकत्रिशततमोऽध्यायः।।३०५।।