विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २९६-३००
← अध्यायाः २९१-२९५ | विष्णुधर्मोत्तरपुराणम् अध्यायाः २९६-३०० वेदव्यासः |
अध्यायाः ३०१-३०५ → |
3.296
ऋषय ऊचुः ।।
बहिर्वेदित्वमाचक्ष्व पुण्यान्यस्माकमच्युत ।।
त्वया हि ज्ञानदानेन भूय एव स्म वर्धिताः ।। १ ।।
हंस उवाच ।।
पानीयमेतत्सकलं त्रैलोक्यं सचराचरम् ।।
विकारः सलिलस्येदं स्थावरं जङ्गमं तथा ।।२।।
पानीयेन विना वृत्तिर्लोके नास्तीह कर्हिचित् ।।
क्रिमिकीटपतङ्गानां जलमेव परायणम् ।। ३ ।।
यत्रोदकं तत्र सुराः सर्व एव प्रतिष्ठिताः ।।
यत्रोदकं तत्र तथा ऋषयश्च महाव्रताः ।। ४ ।।
दुर्लभं तच्च लोकानां परलोके द्विजोत्तमाः ।।
उदकेन विना वृत्तिर्नास्ति लोकद्वये सदा ।। ५ ।।
तदा जलाशयाः कार्याः पुरुषेण विपश्चिता ।।
अग्निष्टोमसमाः कूपास्त्वश्वमेधसमं सरः ।। ६ ।।
कूपः प्रवृत्तपानीयस्त्वर्धं हरति दुष्कृतम् ।।
कूपकृत्स्वर्गमासाद्य देवभोगान्समश्नुते ।। ७।।
तत्रापि भोगवैकल्यं स्थानाभ्यासाच्च कीर्तितम् ।।
दशकूप समा वापी तथा च परिकीर्तिता ।। ८ ।।
कृत्वा तडागं च तथा वारुणं लोकमश्नुते ।।
दशवर्षसहस्राणि नल्वमात्रं द्विजोत्तमाः ।।९ ।।
तत्रापि पुण्यमाप्नोति स्थानत्यागात्तथा बहु ।।
गवां प्रचारे तत्कृत्वा गोलोकं प्राप्नुयाद् ध्रुवम् ।। 3.296.१० ।।
शक्रलोकमवाप्नोति तडागकरणात्पथि ।।
मरौ तडागे पानीयं यस्य तिष्ठति वै द्विजाः ।।११।।
विमानेनार्कवर्णेन ब्रह्मलोकं स गच्छति ।।
प्रावृट्काले तु पानीयं तडागे यस्य तिष्ठति ।। १२ ।।
अग्निष्टोमफलं तस्य पुरुषस्य प्रकीर्तितम् ।।
द्वादशाहे फलं तस्य शरत्काले तु यस्य वै ।। १३ ।।
गोसवस्य तु हेमन्ते फलं प्राप्नोति मानवः ।।
पौण्डरीकफलं तस्य शिशिरे यस्य तिष्ठति।।१४।।
वाजपेयफलं तस्य वसन्ते यत्र च द्विजाः ।।
अश्वमेधफलं तस्य निदाघे यस्य तिष्ठति ।। १५ ।।
सस्यानां सेचनार्थाय नदीवाहे तथा कृते ।।
अन्नदः प्राणदश्चैव त्राणदश्च तथा भवेत् ।।१६।।
भगीरथस्य लोकांस्तान्समवाप्नोत्यसंशयम् ।।
पानीयशोधनं कृत्वा प्रदेशे देवनिर्मिते।।१७।।
पुरुषः फलमाप्नोति दशगोदानजं द्विजाः ।।
दानपाषाणरचितं सुखसेव्यञ्जलाशयम् ।। १८ ।।
पुराणं मानवः कृत्वा नाकलोके महीयते ।।
प्रणालकानां करणात्तृप्तिमाप्नोत्यनुत्तमाम् ।। १९ ।।
महत्पुण्यमवाप्नोति तथा कृत्वामलं जलम् ।।
तृष्णापनोदनं कृत्वा चैकस्यापीह देहिनः ।। 3.296.२० ।।
महत्फलमवाप्नोति नाकलोके च मोदते ।।
स्वबाहुखातं यः कुर्यात्तडागं मतिमान्नरः ।। २१ ।।
नल्वात्फलमवाप्नोति राजसूयाश्वमेधयोः ।।
नदीस्नानमवाप्नोति स्नानसेतुर्जलाशये ।।२२।।
वहुखाते ततः (नरः) स्नातो गङ्गास्नानमवाप्नुयात्।।
सरस्तु पुण्यं यः कुर्यात्किञ्चित्तस्य जलाशये।।
पुण्यांशभागी भवति यस्य तद्धि जलाशयम्।।२३।।
प्राप्नोति तृप्तिं परमां मनुष्यो लोकांस्तथाग्र्यान्सलिलाधिपस्य ।।
जलाशयेऽल्पेऽपि कृते द्विजेन्द्रास्तस्मात्तु कार्यं सलिलं नृलोके ।। २४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मा० संवादे मुनीन्प्रति हंसगीतासु जलाशयनिर्माणो नाम षण्णवत्यधिकद्विशततमोऽध्यायः ।। २९६ ।।
3.297
हंस उवाच ।।
वृक्षसंरोपणान्मर्त्यो महत्फलमुपाश्नुते ।।
गुल्मवल्लीलतानां च रोपणात्पुरुषो द्विजाः ।।१।।
प्रत्येकं फलमाप्नोति गोदाने यत्प्रकीर्तितम् ।।
अग्निष्टोममवाप्नोति पुष्पवृक्षस्य रोपणात् ।। २।।
पौण्डरीकमवाप्नोति फलवृक्षस्य रोपणात् ।।
आराममपि यः कुर्यात्परेषां नामकारणात् ।। ३ ।।
तथा हरितकार्थं च सोऽग्निष्टोमफलं लभेत् ।।
पुष्पारामं नरः कृत्वा देवतार्थं मनोहरम् ।। ४ ।।
देवोद्यानेषु सर्वेषु नन्दनादिषु मोदते ।।
यथाकामं विहारी स्यान्नात्र कार्या विचारणा ।। ५ ।।
फलारामं ततः कृत्वा विन्दत्यभ्यधिकं फलम् ।।
कृत्वा द्रुमशतारामं सोश्वमेधफलं लभेत् ।। ६ ।।
फलं दशशतारामे लक्षारामे च कल्पयेत् ।।
चम्पकं मल्लिकां जातीं श्रेष्ठाः पुष्पाकरा मताः ।। ७ ।।
अन्योऽधिकमवाप्नोति दत्त्वैतान्नात्र संक्षयः ।।
गुल्मेषु कथितौ श्रेष्ठौ तथोभौ भव्यदाडिमौ ।। ८ ।।
पथि श्रेष्ठतमौ विप्रा वटाश्वत्थौ प्रकीर्तितौ ।।
नारङ्गदानाद्भवति नरो रूपसमन्वितः ।। ९ ।।
बीजपूरकदानेन सौभाग्यं महदाप्नुयात् ।।
दत्त्वा पालेवताम्रौ तु तृप्तिमाप्नोत्यनुत्तमाम् ।। 3.297.१० ।।
आम्राक्षोटप्रदानेन सर्वकामानवाप्नुयात् ।।
लक्षारामं तु यः कुर्यादाम्राणामिह मानवः ।। ११ ।।
देवोद्यानेषु रम्येषु क्रीडत्यमरसन्निभः ।।
अप्सरोभिः परिवृतो न च तस्मान्निवर्तते ।। १२ ।।
एकोऽपि रोपितो वृक्षः पुत्रकार्यकरो भवेत् ।।
देवान्प्रसूनैः प्रीणाति छायया चातिथींस्तथा ।। १३ ।।
फलैर्मनुष्यान्प्रीणाति नारक्यं नास्ति पादपे ।।
अपि पुष्पफलैर्हीने द्रुमे पान्थस्य विश्रमः ।। १४ ।।
छायायां स्तोककालेन बहुपुण्यं प्रयच्छति ।।
देवे वर्षति यद्वृक्षात्पत्रेभ्यः स्रवते जलम् ।। १५ ।।
तेन तृप्तिमवाप्नोति परलोकगतो ध्रुवम् ।।
तेन नाकमवाप्नोति वृक्षरोपयिता नरः ।। १६ ।।
सेचनादपि वृक्षस्य रोपितस्य परेण तु ।।
महत्फलमवाप्नोति नात्र कार्या विचारणा ।। १७ ।।
वृक्षायुर्वेदविधिना व्याधितन्तु यथाक्रमम् ।।
नीरुजं मानवः कृत्वा स्वर्गलोकमवाप्नुयात् ।। १८ ।।
शीतवातातपक्लेशं तथा च्छेदनभेदने ।।
सहन्ते परमं वृक्षास्तद्धि तेषां महत्तपः ।। १९ ।।
पत्रपुष्पफलैर्नित्यं छायया चैव शाखिनः ।।
परेषामुपयुज्यन्ते तद्धि तेषां महत्तपः ।। 3.297.२० ।।
तेषां सदा दया कार्या भक्तिः कार्या तथैव च ।।
यस्तेषां भक्तिमान्नित्यं तस्य सा वनदेवता ।। २१ ।।
तोषमायाति परमं तथा कामान्प्रयच्छति ।।
वानस्पत्यं तथा लोकं देहभेदे समश्नुते ।। २५२ ।।
वानस्पत्ये शुभे लोके सर्वेषामेव शाखिनाम् ।।
शरीरवत्प्रतिष्ठन्ति देवता नात्र संशयः ।। २३ ।।
याः प्रोक्तास्त्वभिमानिन्यः परां शोभामथास्थिताः ।।
याम्यलोके तथा लोकं वानस्पत्यं प्रकीर्तितम् ।। २४ ।।
यमलोकमुपासन्ते सर्वास्ता द्रुमदेवताः ।।
द्रुमरोपयितारं च परलोकमुपागतम् ।। २५ ।।
दिव्येन गीतनृत्येन रमयन्त उपासते ।।
रोपितस्य द्रुमस्येह यथा भवति देवता ।।२६।।
याम्ये तु फलदा लोके तथा लोके तु वारुणे ।।
देवता स्यान्महाभागाः कृते पुण्ये जलाशये ।। २७ ।।
कृते शास्त्रे तथा सम्यग्ब्रह्मलोके तथा द्विजाः ।।
क्षिप्रमेव महाभागा जायन्ते शास्त्रदेवताः ।। २८ ।।
शास्त्रं जलाशयं वृक्षं सुरवेश्म तथैव च ।।।
मृतस्यापि मनुष्यस्य शरीरमिह कीर्तितम्।।२९।।
कीर्त्यते येन चान्येन मानवः स्वर्गमाप्नुयात् ।।
तत्तत्कार्यं मनुष्येण स्वर्गमक्षय्यमिच्छता।।3.297.३०।।
पुत्राः प्रदिष्टाः पुरुषस्य वृक्षाः स्वयंकृतास्तेषु नरेण भाव्यम् ।।
स्नेहेन नित्यं पुरुषं मृतन्ते कामैस्तु दिव्यैः परितर्पयन्ति ।। ३१ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा०सं० मुनीन्प्रति हंसगीतासु वृक्षारोपणफलनिरूपणो नाम सप्तनवत्यधिकद्विशततमोऽध्यायः ।। २९७।।
3.298
हंस उवाच ।।
जलेन नाशमायाति यत्र सम्यद्विजोत्तमाः ।।
जलौघवारणार्थाय तत्र सेतुं करोति यः ।। १ ।।
भूमिदाने तु ये लोकाः स तान्प्राप्नोति शाश्वतान् ।।
मार्गसेतुं सुखं कृत्वा वह्निष्टोमफलं लभेत् ।। २।।
जलप्रतरणे सेतुं यः करोति नरोत्तमः ।।
स तीर्णः सुखदुःखेभ्यः स्वर्ग लोकं प्रपद्यते ।। ३ ।।
प्रपां पथि तथा कृत्वा नाकलोके महीयते ।।
प्रपास्थानं शुभं कृत्वा स्थानमाप्नोति शाश्वतम् ।। ४ ।।
तस्य स्थानात्तथा त्यागात्फलवृद्धिः प्रकीर्तिता ।।
तस्योपलेपनं कृत्वा सर्वपापैः प्रमुच्यते ।। ५ ।।
दत्त्वा रज्जुमपां स्थाने गोदो भवति मानवः ।।
वारिधानीं तथा दत्त्वा तदेव फलमाप्नुयात् ।। ६।।
कुम्भप्रदानाद्भवति सदा पूर्णमनोरथः ।।
प्रपायाश्च तथा कृत्वा पुरुषं परिचारकम्।।७।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
वर्धमानानि यो दद्यात्प्रपायां द्विजसत्तमाः ।। ८ ।।
त्रिविधां वृद्धिमाप्नोति तेजसा यशसा श्रिया ।।
लवणस्य प्रदानेन रसानाप्नोति शाश्वतान् ।। ९ ।।
तत्र हरितदानेन गवां लोकमवाप्नुयात् ।।
फलप्रदानेन तथा वह्निष्टोमफलं लभेत् ।। 3.298.१० ।।
सक्तूनां च प्रदानेन गोसवस्य फलं नरः ।।
गोरसानां प्रदानेन गवां लोकमवाप्नुयात् ।। ११ ।।
शय्याश्च विविधाः कृत्वा प्रपायामासनानि च ।।
स्वर्गलोकमवाप्नोति मानुष्ये स्थानमेव च ।। १२ ।।
कृत्वा निवातं शरणं प्रपास्थाने मनोहरम् ।।
स्वारक्षं लोकमाप्नोति वसूनां नात्र संशयः ।। १३ ।।
तत्र वह्निं तथा कृत्वा शीतत्राणाय मानवाः ।।
कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं च तथाप्नुयात् ।। १४ ।।
इन्धनानां प्रदानेन रिपुभिर्नाभिभूयते ।।
तत्रापि योग्यभाण्डानां दानात्स्वर्गमवाप्नुयात ।। १५ ।।
चन्द्रलोकमवाप्नोति स्थापनात्तुहिनस्य तु ।।
शर्करालोष्टपाषाणकण्टकाँश्च तथा नरः ।। ।। १६ ।।
मार्गादपास्य यत्नेन गोदानफलमाप्नुयात् ।।
श्रान्तसंवाहनं कृत्वा तदेव फलमश्नुते ।। १७ ।।
वीजयित्वा परिश्रान्तं तालवृन्तेन मानवः ।।
स्कन्धेन श्रान्तमृढ्वापि वाजपेयफलं लभेत् ।। १८ ।।
वाहनेनाथ यानेन स्वेन श्रान्तं तथा नयन् ।।
साध्यानां लोकमासाद्य देवभोगानुपाश्नुते ।। १९ ।।
श्रान्तस्य भोजनं दत्त्वा कामानाप्नोति शाश्वतान् ।।
श्रान्तस्तु तर्पितस्तोयैस्तृप्तिमाप्नोति मानवः ।। ।। 3.298.२० ।।
उपानहाभ्यां छत्रेण श्रान्तं संयोज्य मानवः ।।
स्वाभ्यां विषमदेशेषु क्षणाद्बहुफलं लभेत् ।। २१ ।।
भारश्रान्तात्तथा भारं गृहीत्वा वहते च यः ।।
कर्मणा तेन विप्रेन्द्राः स्वर्गलोकमुपाश्नुते ।। २२ ।।
मूल्येन वाहयित्वापि परभारं विचक्षणः ।।
तस्य मूल्यस्य दानेन फलं दशगुणं लभेत् ।। २३ ।।
रक्षणं पथि यः कुर्यात्पान्थानां मानवोत्तमः ।।
प्राप्ताद्वृत्तिमयाद् घोराद्रुद्रलोके महीयते ।। २४ ।।
नदीतीरेषु सन्तार्य पान्थान्पथि तथा नरः ।।
शीघ्रं तरति दुर्गाणि क्षुरधाराँश्च पर्वतान् ।। २५ ।।
सदा शौचं तथा नावं यः करोति नदीतटे ।।
अश्वमेधफलं तेन नरः प्राप्नोति कर्मणा ।। २६ ।।
सभास्थानानि रम्याणि यः करोति विचक्षणः ।।
उद्यानानि विचित्राणि शक्रलोके महीयते ।।२७ ।।
प्रेक्षणीय प्रदानेन स्मृतिं मेधां च विन्दति।।
पान्थानां हि दया कार्या कर्मणा येन केनचित्।।२८।।
कृपास्थानं परं पान्थः स्वगृहाद्यो विनिस्सृतः।।
लिङ्गी चाप्यथवा वर्णी पान्थं प्रति विचक्षणैः।।
अपेक्षा नैव कर्तव्या पान्थाः पूज्यास्तु सर्वशः।।२९।।
पान्थस्य पूजां पुरुषस्तु कृत्वा स्थानं समासाद्य पुरंदरस्य।।
प्राप्नोति पुण्यान्दिवि देवभोगान्पान्थास्ततः पूज्यतमा नृलोके ।।3.298.३०।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु प्रपाप्रशंसा नामाष्टनवत्युत्तरद्विशततमोऽध्यायः ।। २९८ ।।
3.299
।। हंस उवाच ।। ।।
चतुर्धा सर्वपुण्यानां फलमुक्तं मनीषिभिः ।।
कृतानि विधिहीनानि वञ्चनार्थं परस्य वा ।। १ ।।
क्रोधलोभाभिभूतेन तामसानि विनिर्दिशेत् ।।
कृतानि परमानेन राजसानि भवन्ति तु ।। २ ।।
सात्त्विकानि भवन्तीह श्रद्धया परया द्विजाः ।।
गुणान्तराणि विज्ञाय विधिकामं कृतानि तु ।। ३।।
तामसानां फलं भुंक्ते तिर्यक्त्वे मानवः सदा ।।
वर्णसंकरभावेन वार्धक्ये यदि वा पुनः ।। ४ ।।
बाल्ये वा दासभावे वा नात्र कार्या विचारणा ।।
अतोऽन्यथा तु मानुष्ये राजसानां फलं लभेत् ।। ५ ।।
सात्त्विकानां फलं भुंक्ते देवत्वे नात्र संशयः ।।
गुणोत्तरकृतानाञ्च फलमोक्ष उदाहृतः ।। ६ ।।
कर्मणां धनसाध्यानां धनञ्च त्रिविधं स्मृतम् ।।
कृष्णश्च शबलश्चैव शुक्लश्च द्विजसत्तमाः ।। ७ ।।
त्रिविधस्य फलं तस्य त्रिविधं परिकीर्तितम् ।।
कृष्णेन यत्कृतं किञ्चित्तिर्यक्त्वे तद्धि भुज्यते ।। ८ ।।
वर्णानां हि धनं शुक्लमर्जितं यत्स्वकर्मणा ।।
शबलन्तु समुद्दिष्टं तथानन्तरकर्मणा ।। ९ ।।
वर्णोत्तमस्य हीनस्य कर्मणा कृष्णमुच्यते ।।
तथापि शुक्लं वक्ष्यामि वर्णानान्तु द्विजोत्तमाः ।।3.299.१ ० ।।
प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस्तथा ।।
गुणान्वितेभ्यो विप्रस्य शुक्लं तत्त्रिविधं धनम् ।। ११ ।।
युद्धोपलब्धं कारञ्च दण्डाच्च व्यवहारतः ।।
क्षत्त्रियस्य धनं शुक्लं त्रिविधं परिकीर्तितम् ।। १२ ।।
कृषिवाणिज्यगोरक्षाः कृत्वा शुक्लं तथा विशः ।।
द्विजशुश्रूषया लब्धं शुद्धं शूद्रस्य कीर्तितम् ।।१३।।
न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम् ।।
वृषलः कर्म वा ब्राह्मं पतनीयेतरेतरम् ।। १४।।
(उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते ।।
मध्यमे कर्मणी हित्वा सर्वसाधारणे हिते।।१५।।
सर्वेषामेव वर्णानां वक्ष्यामि विविधं धनम्।।)
पार्श्विक द्यूतचौर्यात्तु प्रतिरूपकसाहसैः ।। १६ ।।
व्याजेनोपार्जितं यत्तत्सर्वेषां कृष्णमुच्यते ।।
शिल्पानुवृत्त्या यत्प्राप्तं कुसीदेन तथा धनम् ।। १७ ।।
कृतोपकारादाप्तं च शबलं समुदाहृतम् ।।
क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।। १८ ।।
अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम् ।।
शुक्लेन वित्तेन कृतं पुण्यं बहुफलं भवेत् ।।१९।।
न्यायागतेनाथ धनेन विद्वान्पुण्यानि कृत्वा दिवि देवभोगान् ।।
चिरं समश्नाति महानुभावो न्यायेन तस्माद्धनमजर्नीयम् ।।3.299.२०।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु धनविचारो नाम नवनवत्युत्तरद्विशततमोऽध्यायः ।।२९९।।
3.300
हंस उवाच ।।
दानं देवाः प्रशंसन्ति मनुष्याश्च तथा द्विजः ।।
दानेन कामानाप्नोति यान्काँश्चिन्मनसेच्छति ।। १ ।।
अदत्तदानात्कृपणा दृष्ट्वेह परतन्त्रकान् ।।
पारत्रिकं धनं कुर्याद्दानं विप्रेषु मानवः।।२।।
अमनुष्ये समं दानं गोषु ज्ञेयं महाफलम् ।।
द्विगुणं च तदेवोक्तं तथा वै वर्णसङ्करे ।। ।। ३ ।।
शूद्रे चतुर्गुणं प्रोक्तं विशि चाष्टगुणं भवेत् ।।
क्षत्त्रिये षोडशगुणं ब्रह्मबन्धौ तदेव तु ।। ४ ।।
द्वात्रिंशता स्मृतं दानं वेदाध्ययनतत्परे ।।
शतधा तद्विशिष्टं तु प्राधीते लक्षसम्मितम् ।। ५ ।।
अनन्तं च तदेवोक्तं ब्राह्मणे वेदपारगे ।।
आत्मनस्तु भवेत्पात्रं नान्यस्य तु पुरोहितः ।। ६ ।।
पुरोहिते तु स्वं दत्तं दानमक्षयमुच्यते ।।
याजके ऋत्विजे चैव गुरावपि च मानवः ।। ७ ।।
वर्णापेक्षा न कर्तव्या मातरं पितरं प्रति ।।
मातृष्वसां स्वसां चैव तथैव च पितृष्वसाम् ।। ८ ।।
मातामहीं भागिनेयीं भागिनेयं तथैव च ।।
दौहित्रं विट्पतिं चैव तेषु दत्तमथाक्षयम् ।। ९ ।।
श्रीभ्रष्टे यत्तथा दत्तं तदप्यक्षयमुच्यते ।।
स्थानभ्रष्टस्य यः कुर्याद्भूयस्त्वारोपणं नरः ।। 3.300.१० ।।
नाकलोकमवाप्नोति चिरन्तेनेह कर्मणा ।।
भूपालं यश्च्युतं राज्यात्स्वराज्ये स्थापयेत्पुनः ।। ११ ।।
स याति शक्रसालोक्यं यावच्छक्राश्चतुर्दश ।।
ततो मानुष्यमासाद्य राजा भवति धार्मिकः ।। १२ ।।
तस्माद्दानं श्रीविहीनं दातव्यं भूतिमिच्छता ।।
श्रीविहीनेषु यद्दत्तं तदनन्तं प्रकीर्तितम् ।। १३ ।।
काले पात्रे तथा देशे धनं न्यायागतं तथा ।।
यद्दत्तं ब्राह्मणश्रेष्ठास्तदनन्तं प्रकीर्तितम् ।। १४ ।।
द्वादशीषु तु यद्दत्तं शुक्लासु तु विशेषतः ।।
श्रवणेन तु युक्तासु तत्रापि द्विजसत्तमाः ।। १५ ।।
विशेषाद्बुधयुक्तासु पक्षान्तेषु च यत्तथा ।।
तृतीयासु तु शुक्लासु सर्वासु च विशेषतः ।। १६ ।।
वैशाखशुक्लपक्षे तु विशेषेण च मानदाः ।।
आषाढे कार्तिके चैव फाल्गुने च विशेषतः ।। १७ ।।
तिस्रस्त्वेताः पौर्णमास्यो दाने विप्रा महाफलाः ।।
व्यतीपातेषु यद्दत्तं जन्मर्क्षे तु द्विजोत्तमाः ।। १८ ।।
ग्रहसंक्रमकाले तु त्यागे च मिथुनस्य तु ।।
रत्रेर्महाफलं दत्तन्तेभ्योऽपि स्यान्महाफलम् ।। १९ ।।
यदा प्रविशते भानुर्मकरं द्विजसत्तमाः ।।
आषाढेऽश्वयुजे पौषे चैत्रे शुक्ले तथैव च ।। 3.300.२० ।।
द्वादशीप्रभृति प्रोक्तं पुण्यं दिनचतुष्टयम् ।।
मिथुनं च तथा कन्या धन्विनं मीनमेव च ।। २१ ।।
प्रविष्टे भास्करे पुण्यं प्रत्येकं कथितं द्विजाः ।।
षडशीतिमुखं नाम दाने दिनचतुष्टयम् ।। २२।।
अच्छिन्ननाड्यां यद्दत्तं पुत्रे जाते द्विजोत्तमाः ।।
संस्कारेषु च पुत्रस्य तदक्षय्यं प्रकीर्तितम् ।। २३ ।।
चन्द्रे वा यदि वा सूर्ये दृष्टे राहौ महाग्रहे ।।
अक्षयं कथितं दत्तं तत्राप्येकं विशेषतः ।। २४ ।।
पुष्करेषु प्रयागे च प्रभासे नैमिषे तथा ।।
धर्मारण्ये गयायाञ्च तथैवामरकण्टके ।। २५ ।।
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।।
तथा कनखले तीर्थे शालिग्रामे तथैव च ।। २६ ।।
वाराणस्यां सरस्वत्यां गङ्गासागरसङ्गमे ।।
सिन्धुसागरसन्धौ च त्रितकूपे तथानघाः ।। २७।।
प्लक्षप्रस्रवणे पुण्ये चमसोन्मज्जने तथा ।।
महालयेऽथ केदारे भृगुतुङ्गे तथैव च ।। २८ ।।
मानसे च तथा पुण्ये तथैवोत्तरमानस ।।
एतेष्वन्येषु च तथा दधितीर्थेषु यद्भवेत् ।। २९ ।।
निम्नगानां च तीरेषु ज्ञेयं बहुफलं हि तत् ।।
दीनान्धकृपणानाथवाग्विहीनेषु यत्तथा ।। 3.300.३० ।।
विकलेषु तथान्येषु जडवामनपङ्गुषु ।।
रोगार्त्तेषु च यद्दत्तं तत्स्याद्बहुफलं धनम् ।। ३१ ।।
यद्दत्तं धर्मसाहाय्ये क्रियमाणे तथा क्रतौ ।।
विवाहकरणार्थाय तदक्षय्यं प्रकीर्तितम् ।। ३२ ।।
यत्प्राप्तेन तु वित्तेन नरः स्यादुत्सवे सुखे ।।
उत्सवानां स भागी स्याद्यत्र तत्राभिजायते ।। ३३ ।।
यद्दत्तेन च वित्तेन व्यसनादुत्तरेत्पुरः ।।
न स किञ्चिदवाप्नोति व्यसनं मनुजोत्तमः ।। ३४ ।।
स्त्रियं मेषमजं चैव गामश्वं तुरगन्नरम् ।।
एकमेकं तु दातव्यमेकस्य बहवोऽपि वा ३५ ।।
एकं बहूनां तद्दत्तं ध्रुवं नरकमृच्छति ।।
आदातुर्नरकाय स्यात्तदा दातुर्द्विजोत्तमाः ।। ३६ ।।
विक्रयं तु समापन्ना यो दत्त्वा जीवदक्षिणाम् ।।
एवं काले च पात्रे च देशे शुद्धागमं धनम् ।। ३७ ।।
दत्त्वा धनमवाप्नोति देवब्राह्मणक्षत्त्रियान् ।।
धनं बहिश्चराः प्राणा धने सर्वं प्रतिष्ठितम् ।। ३८ ।।
धनादन्नं तथान्नेन सर्वो जीवति वै जनः ।।
यावन्ति लोके पुण्यानि तेभ्यो दाता विशिष्यते ।।
दानेन तदवाप्नोति यत्किञ्चिन्मनसेप्सितम् ।। ३९ ।।
दानेन लोके प्रियतामुपैति दानेन नाकं पुरुषः प्रयाति ।।
मानुष्यमासाद्य च दानशीलो भोगानवाप्नोति मनोभिरामान् ।। 3.300.४० ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखंडे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दानप्रशंसा नाम त्रिशततमोऽध्यायः ।। ३०० ।।