सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २३६-२४०

विकिस्रोतः तः
← अध्यायाः २३१-२३५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २३६-२४०
वेदव्यासः
अध्यायाः २४१-२४५ →

3.236
ऋषय ऊचुः ।।
कर्माणि श्रोतुमिच्छामो यैः पापं विप्रणश्यति ।।
प्राप्नोत्यभ्युदयं चैव पुरुषः पक्षिसत्तम ।। १ ।।
हंस उवाच ।।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।।
त्र्यहं परञ्च नाश्नीयात्प्राजापत्यं चरन्द्विजः ।। २ ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।।
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ।। ३ ।।
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् ।।
त्र्यहं चोपवसेदन्यदतिकृच्छ्रं चरन्द्विजः ।। ४ ।।
तप्तकृच्छ्रं चरन्विप्रो दधिक्षीर घृतानिलान ।।
प्रतित्र्यहं पिबेदुष्णं सकृत्स्नायी समाहितः ।। ५ ।।
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।।
पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ।। ६ ।।
यथाकथञ्चित्पिण्डानां तिस्रोऽशीतिः समाहितः ।।
मासेनाश्नन्हविष्यस्य चन्द्रस्यैति सलोकताम् ।। ७ ।।
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ।।
अहिंसासत्यमक्रोधमार्जवं च समाचरेत् ।। ८ ।।
त्रिरह्नि त्रिर्निशायाञ्च सवासा जलमाविशेत् ।।
स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हिचित् ।। ९ ।।
स्थानासनाभ्यां विहरेदशक्तोऽधःशयीत वा ।।
ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ।। ।। 3.236.१० ।।
सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ।।
सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादितः ।। ११ ।।
कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते ।।
नैनं कुर्याम्पुनरिति निवृत्त्या पूयते तु सः ।। १२ ।।
ख्यापनेनानुतापेन तपसाध्ययनेन च ।।
पामकृन्मुच्यते पापात्तथा दानेन चापरः।।१३।।
यस्मिन्कर्मण्यपि कृते मनसः स्यादलाघवम् ।।
तस्मिँस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत्।।१४।।
पापस्य नाशस्तपसा विधेयो धर्मस्य वृद्धिस्तपसा विधेया ।।
पापप्रणाशे त्वथ धर्मवृद्धौ कामाः समृध्यन्ति नरस्य विप्राः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कृच्छ्रसान्तपनादिप्रायश्चित्तवर्णनो नाम षट्त्रिंशदधिकद्विशततमोऽध्यायः ।।२३६।।
3.237
।। ऋषय ऊचुः ।। ।।
कर्मणा केन पुरुषः किमाप्नोति महामते ।।
एतन्नः संशयं छिन्धि द्विजानां द्विजसत्तम ।। १ ।।
।। हंस उवाच ।।
दानेन भोगी भवति तपसा विन्दते महः ।।
वृद्धोपसेवया विप्राः प्राज्ञो भवति मानवः ।। २ ।।
यज्ञेन लोकानाप्नोति पापनाशं हुतेन च ।।
जप्येन कामानाप्नोति सत्येन च परां गतिम् ।।३ ।।
स्नानेन शुद्धिमाप्नोति प्राणायामाद्विशेषतः ।।
ध्यानेन धारणाभिश्च पदमाप्नोत्यनुत्तमम् ।।४ ।।
दमेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति ।।
शौचेन देवाः प्रीयन्ते प्रीयन्ते चोपवासतः ।। ५।।
उपवासप्रतप्तानां कामावाप्तिर्ध्रुवं भवेत् ।।
ददाति विपुलान्भोगान्संग्रामेष्वपलायिनाम् ।। ६ ।।
मधुमांसनिवृत्तोऽपि परं सौख्यमुपाश्नुते ।।
अहिंसया त्वरोगी स्याद्दीर्घायुश्चाप्यहिंसया।।७।।
रूपलावण्यसौभाग्यधनधान्ययुतः सदा ।।
तीर्थानुसरणाद्विप्राः पापनाशमवाप्नुयात्।८।।
सर्वकल्मषहीनश्च याँल्लोकान्मनसेच्छति ।।
प्रतिश्रयप्रदानेन स्थानमाप्नोत्यनुत्तमम् ।।९।।
पूज्यपूजयिता विप्रा यशसा युज्यते नरः ।।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।।3.237.१०।।
समं कृत्वा विवर्धन्ते कीर्तिरार्युयशो बलम् ।। ११ ।।
ऋतुकालादृते भार्या तथैव परिवर्जयेत् ।।
सर्वकामानवाप्नोति ब्रह्मलोकं च गच्छति ।। १२ ।।
उभौ कालौ तु भुञ्जानस्त्वन्तरा परिवर्जयेत् ।।
पानीयमपि विप्रेन्द्रा ब्राह्मं लोकं प्रपद्यते ।। १३ ।।
अनेनैव विधानेन देशकालाशनो नरः ।।
सर्वान्कामानवाप्नोति गतिमाप्नोत्यभीप्सिताम् ।। १४ ।।
तथा भोजनकाले तु मौनं यस्तु समाचरेत् ।।
उपवासफलन्तस्य प्रत्यहं भोजने स्मृतम् ।। १५ ।।
सर्वान्कामानवाप्नोति मौनी नक्ताशनस्सकृत् ।।
नाप्नोति नारकं दुःखं नित्यस्नायी नरो बहिः ।।१६।।
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते ।।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ।। १७ ।।
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् ।।
दद्यादतिथिपूजार्थं यज्ञाः पञ्च सुदक्षिणाः।। १८ ।।
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् ।।
अनुव्रजेदुपासीत यज्ञाः पञ्च सुदक्षिणाः ।।१९।।
स्थण्डिलेषु शयानानां गृहाणि शयनानि च ।।
चीर वल्कलसंवीत वासांस्याभरणानि च ।।3.237.२०।।
वाहनासनयानानि योगात्मनि तपोधने ।।
अग्नीनुपशयानस्य राजपौरुषमुच्यते ।। २१।।
रसानां प्रति संहारे सौभाग्यमधिगच्छति ।।
आमिषप्रतिसंहारे सर्वान्कामानवाप्नुयात् ।।२२।।
अर्वाक्शिरास्तु यो लम्बेत्तोयवासं च यो वसेत् ।।
सततं चैकशायी च लभते चेप्सितां गतिम् ।।२३।।
वीरासनं वीरशय्यां वीरस्थानमुपासतः ।।
अक्षयास्तस्य वै लोकाः सर्वकामप्रदाः स्मृताः ।। २४ ।।
धनं भवति दानेन मौनेनाज्ञां प्रयच्छति ।।
उपभोगाँश्च तपसा ब्रह्मचर्येण जीवितम् ।। २५ ।।
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।।
फलं फलाशिनां राज्यं स्वर्गः पर्णाशिनां फलम् ।।२६।।
पुष्पाशिनां तथैश्वर्यं धनं शाकाशिनां महत् ।।
पयोभक्ष्या दिवं यांति अब्भक्ष्याश्चामितां गतिम् ।।२७ ।।
दंतोलूखलिको विप्रो यश्चाप्युञ्छेन जीवति ।।
कापोतीञ्चाश्रितो वृत्तिं यथेष्टाङ्गतिमाप्नुयात् ।। २८ ।।
प्रायोपवेशनाद्राज्यं सर्वत्र फलमश्नुते।।
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ।। २९ ।।
गवोढाः शाकदीक्षायाः स्वर्गकामी तृणाशनः ।।3.237.३०।।
त्र्यहस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ।।
यज्ञयाजी तथाप्नोति याँल्लोकान्मनसेच्छति ।। ३१ ।।
उपवासं च दीक्षां चाप्यभिषेकं च वै द्विजाः ।।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ।।३२।।
अधीत्य सर्वान्वेदान्वै सर्वदुःखैर्विमुच्यते ।।
मानसं हि धनं धर्मः स्वर्गलोकमवाप्नुयात् ।।३३।।
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः।।
प्रीणाति मातरं येन पृथिवी तेन पूजिता।। ३४।।
येन प्रीणात्युपाध्यायन्तेन स्याद्ब्रह्म पूजितम्।।
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः।।३५।।।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ।।
गुरुशुश्रूषया विद्या नित्यं श्राद्धेषु सन्ततिः।।३६।।
नित्यस्नायी भवेद्दक्षः संध्ये तु द्वे जपन्सदा।।
द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ।।३७ ।।
देवशुश्रूषया कामान्यथेष्टान्प्राप्नुयान्नरः ।।
सान्त्वदः सर्वभूतानां सर्वशोकैः प्रमुच्यते ।। ३८ ।।
केशश्मश्रून्वारयतः त्वग्र्या भवति सन्ततिः ।।
गन्धमाल्यान्निवृत्त्या तु कीर्तिर्भवति पुष्कला ।। ३९ ।।
परिचर्यारतः सम्यङ् न रोगैस्त्वभिभूयते ।।
गोलोकमाप्नोति तथा गवाञ्च परिचर्यया ।। 3.237.४० ।।
देवमाल्यापनयनात्पादशौचाद्द्विजस्य तु ।।
श्रान्तसंवाहनाद्विप्राः सुखमत्यन्तमश्नुते ।। ४१ ।।
जले सप्तसहस्राणि एकादश हुताशने ।।
भृगुप्रपाते च दश संग्रामे विंशतिस्तथा ।। ४२ ।।
नरो वर्षसहस्राणि तनुं त्यक्त्वा तु मोदते ।
अनाशके तु धर्मज्ञाः परिसंख्या न विद्यते ।। ४३ ।।
मेरौ साधयते राज्यं यथेष्टं भुवि जायते ।।
महाप्रस्थानमाविश्य यथेष्टां गतिमाप्नुयात् ।। ४४ ।।
वह्निप्रवेशनियतममीष्टं लोकमश्नुते ।।
वारुणं लोकमाप्नोति त्यक्त्वाम्भसि तनुं नरः।।४५।।
अनार्तो व्याधिरहितो न त्यजेदात्मनस्तनुम् ।।
असूर्या नाम ते लोका अन्धेन तमसा वृताः ।।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।।४६।।
अनिष्टैरात्मनो ज्ञात्वा मृत्युकालमुपस्थितम् ।।
व्याधितो भिषजा त्यक्तः पूर्णे चायुषि वासके ।। ।।४७।।
यथागमानुसारेण संत्यजेदात्मनस्तनुम् ।।
तस्मिन्काले तनुत्यागाद्यथोक्तं फलमाप्नुयात् ।।४८।।
आयुषस्तु परं दृष्टं मरणं ब्राह्मण द्वयोः ।।
क्षत्रियस्य तु सङ्ग्रामे मृते भर्तरि योषितः ।।४९।।
ब्राह्मणार्थे गवार्थे वा यस्त्यजेदात्मनस्तनुम् ।।
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः ।। ।। 3.237.५० ।।
शष्पं मृगखरोत्सृष्टं यो मृगैः सह सेवते ।।
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ।। ५१ ।।
रोवलं शीर्णपर्णं वा तद्व्रतं यो निषेवते ।।
शान्तो यो मनसा नित्यं स गच्छेत्परमाङ्गतिम् ।। ५२ ।।
वायुभक्ष्योम्बुभक्ष्यो वा फलमूलाशनोपि वा ।।
यक्षेशैश्वर्यमादाय मोदतेऽप्सरसाङ्गणैः ।। ५३ ।।
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा ।।
तीर्त्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः ।। ५४ ।।
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् ।।
व्रतं संसाध्य काले तु राजा भवति पार्थिवः ।। ५५ ।।
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः ।।
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ।। ५६ ।।
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च ।।
गृहाणि शयनार्हाणि चन्द्रशुभ्राणि ब्राह्मणः ।। ५७ ।
आत्मानमुपजीवन्यो नियतो नियताशनः ।।
देहं चानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ।। ५८ ।।
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।।
अश्मना चरणौ हत्वा गुह्यकेषु च मोदते ।। ५९ ।।
साधयित्वात्मनात्मानं निर्द्वन्द्वो निष्परिग्रहः ।।
तीर्त्वा द्वादशवर्षाणि दीक्षामेकांमनोगताम् ।।
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ।। 3.237.६० ।।
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ।।
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ।। ६१ ।।
यस्तु विप्रो यथान्यायं दीक्षितो नियतेन्द्रियः ।।
आत्मन्यात्मानमादाय निर्द्वन्द्वो धर्मलालसः ।। ६२ ।।
चीर्त्वा द्वादश वर्षाणि दीक्षामेतां मनोगताम्।।
अरणीसहितः स्कन्धे बद्ध्वा गच्छत्यनावृतम् ।। ६३ ।।
वीराद्ध्वानमनानीत्य वीरासनरतस्सदा ।।
वीरस्थायी च सततं स वीरगतिमाप्नुयात् ।। ६४ ।।
धीरलोकगतो वीरो वीरयोगवहः सदा ।।
सत्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ।।
शक्रलोकगतः श्रीमान्मोदते दिवि देववत् ।। ६५ ।।
उपवासव्रतैर्दान्ता अहिंसासत्यवादिनः ।।
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ।। ६६ ।।
मण्डूकयोगशयना यथास्थानं यथाविधि ।।
दीक्षां चरति धर्मात्मा स नागैः सह मोदते ।। ६७ ।।
आर्द्रवासास्तु शिशिरे व्रतं वहति यो नरः ।।
द्वादशाब्दानि नियतं राजा भवति पार्थिवः ।।६८।।
वर्षरात्रे तथा यश्च भवत्याकाशसाधकः ।।
अनपस्तीर्थशायी च राजा भवति पार्थिवः।।६९ ।।
त्यक्त्वा वनगताः प्राणान्सप्तपूर्वांस्तथापरान् ।।
नरांस्तारयिता दुःखादात्मानं च विशेषतः ।। 3.237.७० ।।
येनयेन शरीरेण यद्यत्कर्म करोति यः ।।
तेनतेन शरीरेण तत्तत्फलमुपाश्नुते ।। ७१ ।।
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् ।।
तस्यां तस्यामवस्थायां तत्फलमुपाश्नुते ।। ७२ ।।
नरेण हि कृतं कर्म सदा पञ्चेन्द्रियैरिह ।।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ।। ७३ ।।
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।।
एवमेतत्कृतं कर्म कर्त्तारमनुविन्दति।।७४।।
अवश्यं हि कृतं कर्म भोक्तव्यं द्विजपुङ्गवाः ।।
सुकृतं दुष्कृतं वापि तस्मात्सुकृतमाचरेत् ।।७५।।
अचोद्यमानानि यथा पुष्पाणि च फलानि च ।।
स्वकालं नातिवर्तन्ते तथा कर्म पुरा कृतम् ।। ७६ ।।
यन्मन्त्रे भवति वृथाभियुज्यमाने यत्सत्ये भवति वृथाभिपूयमाने ।।
यच्चाग्नौ भवति वृथाभिहूयमाने तत्सर्वं भवति वृथाभिधीयमाने ।। ७७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कर्मफलविवेको नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः ।।२३७।।
3.238
ऋषय ऊचुः ।।
दृष्टारिष्टस्य भवता देहत्यागः प्रकीर्त्तितः ।।
तस्मादस्माकमाचक्ष्व त्वरिष्टानि महामते ।। १ ।।
हंस उवाच ।।
प्रवृत्तेर्विकृतिर्नॄणां बुद्धीन्द्रियशरीरजा ।।
अकस्माद्दृश्यते येषां तेषां मरणमादिशेत् ।। २।।
एतत्समासात्कथितं विस्तरोऽयमतः परम् ।।
सूक्ष्मारिष्टावबोधार्थं तथा स्पष्टार्थमेव च ।।३।।
न तु कर्मणि यो व्यभ्रे प्रभाकर्म निशाभृतः ।।
छायां चन्द्रार्कयोर्वापि तयोश्च गमनं तथा ।। ४।।
देवमार्गे प्रभा वह्नेर्ध्रुवं तारामरुन्धतीम् ।।
पश्यत्यदृष्टामन्यैर्वा मृत्युः स्यात्तस्य वत्सरात् ।।५ ।।
सप्रभानामथान्येषां प्रभां यस्तु न पश्यति ।।
तस्यैकादशमे मासे मरणं परिकीर्तितम् ।। ६ ।।
सुवर्णं रजतं मूत्रं पुरीषं वमते निशि ।।
स्वप्ने स मासे दशमे प्रयाति यममन्दिरम् ।। ७ ।।
रक्षःप्रेतपिशाचानां यक्षाणामपि दर्शनात् ।।
अतीन्द्रियाणामन्येषां नवमे मरणं धुवम् ।। ८ ।।
दौर्बल्यं जायते यस्य बहुसम्पन्नभोजिनः ।।
अनश्नन्तोऽपि पीनत्वमष्टमे स्यात्स मृत्युभाक् ।। ९।।
पदं चासकलं यस्य खण्डं विकृतमेव वा ।।
पांसुकर्दमयोर्दृश्येत्सप्तमे मासि मृत्युभाक् ।।3.238.१०।।
क्रव्यादाः पक्षिणो यस्य मूर्ध्नि लीयन्ति वै द्विजाः।।
काकश्येनादयस्तस्य पष्ठे मरणमादिशेत्।। ।। ११।।
यस्य गोमयचूर्णाभं शरीरान्मृज्यते रजः ।।
स्वदेहच्छायाविकृतिः पञ्चमे स तु मृत्युभाक्।। १२ ।।
अनभ्रे विद्युतं दृष्ट्वा चतुर्थे म्रियते ध्रुवम्।। ।। १३ ।।
शक्रचापं जले दृष्ट्वा गगनं वा द्विजोत्तमाः ।।
अविद्यमानं धर्मज्ञस्तृतीये म्रियते ध्रुवम् ।। १४ ।।
अवघट्टनं नेत्रस्य विना रोगं यदा भवेत् ।।
एकस्य यदि वा दृश्येत्स्थानभ्रंशो विधीयते ।। १५ ।।
मासेन विकृता नासा वक्रा च मरणप्रदा ।। १६ ।।
अर्धमासेन दुर्गन्धप्रभवं स्वशरीरतः ।।
परचक्षुषि यश्छायामात्मनस्तु न पश्यति।।
स पश्यति महाभागा द्वादशाहेन वै यमम्।।१७।।
निर्वाणदीपगन्धं तु यस्तु नाघ्राति मानवः ।।
सप्ताहेन तु धर्मज्ञाः पश्यत्यर्कसुतं ध्रुवम् ।।१८।।
सद्यः स्नातानुलिप्तस्य हृत्पादशिरसा भवेत् ।।
क्षिप्रं संशोषणं तस्य त्र्यहान्मरणमादिशेत् ।।१९।।
गण्डयोस्तिलकान्रक्तान्वर्णवैकृतमेव च ।।
अहोरात्रेण मरणं पुरुषस्य समादिशेत् ।।3.238.२०।।
अङ्गुलिभ्यान्तु पिहिते श्रोत्रे तु न शृणोति यः ।। २१ ।।
शब्दं न पश्येत्तु मुखं निर्मले दर्पणे तथा ।।
पश्येच्च पुरुषान्प्राप्तान्सद्यो मरणमादिशेत् ।। २२ ।।
मूर्धधूमविनाशे तु जलार्द्राद्वा तदुद्भवेत् ।।
नासाभङ्गेन धर्मज्ञा द्व्यहान्मरणमादिशेत् ।। २३ ।।
स्पर्शदृष्टिरसप्राणशब्दचेष्टाविपर्ययः ।।
दृश्यते तु मुमूर्षूणां स्वस्थातुरशरीरिणाम् ।। २४ ।।
श्लक्ष्णं खगं वरं लक्ष्म शीतोष्णस्य विपर्ययः ।।
अकस्माद्वेत्ति यो देही दुर्लभं तस्य जीवितम् ।।२५।।
तोयवन्मेदिनीं तोयं मेदिनीमिव पश्यति ।।
अतीन्द्रियं निरीक्षेत न वीक्षेत करस्थितम् ।। २६ ।।
पृथिवीमिव चाकाशं चाकाशमिव मेदिनीम् ।।
आकाशमिव चात्मानं पूर्णमिन्दुमथातिथौ ।। २७ ।।
शुक्लकृष्णविपर्यासं स्थूलसूक्ष्मविपर्ययम् ।।
विपर्यासं सदसतां दृश्यते जीवितक्षये ।। २८ ।।
षण्णां रसानां पर्यास इष्टानिष्टविपर्ययः।।
सर्वथा ग्रहणं पश्यन्निग्रहातीन्द्रियग्रहः ।। २९ ।।
अभक्ष्यलौल्यमत्यर्थं मरणायोपजायते ।।
शोभनाशोभनघ्रेयग्रहणे तु विपर्ययः ।। 3.238.३० ।।
इष्टैरनिष्टैः संयोगोऽनिष्टैरिष्टसमागमः ।।
भयधैर्यविपर्यासो जायते प्राणसंक्षये ।। ३१ ।।
अतिदीर्घोऽतिह्रस्वो वा सतमस्कोऽतिशीतलः ।।
उच्छ्वास प्राणसन्त्यागे गतासूनां प्रजायते ।। ३२ ।।
अनाहतानां शब्दः स्यादाहतानामशब्दता ।।
आहतानामशब्दत्वं मुमूर्षूणां नृणां गृहे ।। ३३ ।।
उदक् प्रवृत्ते दिवसस्य नाथे पुण्ये दिने मोहविवर्जितस्य ।।
नारायणे चेतसि संस्थिते वा मृत्युर्भवेत्पुण्यवतो द्विजेन्द्राः ।। ३४ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मार्कण्डेयवज्रसंवादे ऋषीन्प्रति हंसगीतास्वरिष्टयोगवर्णनो नामाष्टत्रिंशदधिकद्विशततमोऽध्यायः ।। २३८ ।।
3.239
ऋषय ऊचुः ।।
के दोषाः पापशमना मनुष्याणां विनाशकाः ।।
के गुणाश्च महादेव नित्यमभ्युदयात्मकाः ।। १ ।।
हंस उवाच ।।
सर्वेषामेव दोषाणामज्ञानः परमो मतः ।।
अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।। २ ।।
कामः क्रोधस्तथा लोभो हर्षो मानः सदैव च ।।
अज्ञानेनावृतं जन्तुं निविशन्ते द्विजोत्तमाः।।३।।
अज्ञानादेव पापानि विचिनोत्यविचक्षणः ।।
अज्ञानादुत्पथं गत्वा नरकं प्रतिपद्यते ।। ४ ।।
अज्ञानेनावृतो जन्तुः शुभे मार्गे न तिष्ठति ।।
अज्ञानशमने यत्नस्ततः कार्यो विजानता ।। ५ ।।
शास्त्रान्ववेक्षणं तस्य वृद्धसेवा तथैव च ।।
तथा च गुरुशुश्रूषा त्वज्ञानशमनी मता ।। ६ ।।
लोकद्वये नास्ति महानुभावा अज्ञानतुल्यः पुरुषस्य शत्रुः ।।
अतो हि लोकद्वितयं सुखार्थी ज्ञाने तु कुर्यात्पुरुषः प्रयत्नम् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ज्ञानवर्णनो नामैकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २३९ ।।
3.240
।। हंस उवाच ।। ।।
पापेन सर्वदुःखानां नरो भवति भाजनम् ।।
पापेन नरकं याति द्वेष्यश्चेह तथा भवेत् ।। ।। १ ।।
नरः पापसमाचारः पापादपि विनश्यति ।।
पापमेकं परं दुःखं सर्वेषां द्विजपुङ्गवाः ।।२।।
कृतपुण्योऽपि यः पापं करोति पुरुषः क्वचित् ।।
स्वर्गेऽपि न सुखं तस्य तद्भयादुपजायते ।। ३ ।।
स एकः पुरुषो लोके यस्य पापं न विद्यते ।।
दीनान्धकृपणानाथांस्तथा च परमार्भकाः ।। ४।।
तिर्यग्योनिगताश्चान्ये नरकेषु तथा परे ।।
स्थावरासु च योनीषु तिर्यग्योनिषु चाप्यथ ।। ५ ।।
व्याधिबन्धवधक्लेशताडनान्यप्यनेकशः।।
नरः प्राप्नोति धर्मज्ञस्तथा पापेन कर्मणा ।। ६ ।।
ये पापहीनाः पुरुषाः प्रधानास्तेषां न दुःखं भवतीह किञ्चित् ।।
तस्मात्प्रयत्नेन विवर्जनीयं पापं बुधैः पुण्यचयश्च कार्यः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पापनिदर्शनवर्णनो नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४० ।।