सामग्री पर जाएँ

विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २४१-२४५

विकिस्रोतः तः
← अध्यायाः २३६-२४० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २४१-२४५
वेदव्यासः
अध्यायाः २४६-२५० →

3.241
।। हंस उवाच ।। ।।
कामानुसारी पुरुषः कामादनु विनश्यति ।।
यस्तु केवलकामात्मा सोऽचिराद्भ्रश्यते श्रियः ।। १ ।।
कामानुसारी धर्मार्थौ न तिष्ठति चिरं नरः ।।
तस्मात्कामं न सेवेत नरो धर्मार्थवर्जितम् ।। २ ।।
क्षयो धर्मार्थयोः कामे ध्रुवं भवति सेविते ।।
कामान्धेन विजानाति कर्तव्यं किञ्चिदेव तु ।। ३ ।।
परदारे त्वगम्ये वा प्रपातं नावबुध्यते ।।
ध्रुवं प्राणवियोगेऽपि क्रीडामीत्येव मन्यते ।। ४ ।।
यस्तु केवलकामात्मा धर्मार्थपरिवर्जितम् ।।
काममासेवते नित्यं विज्ञेयः पुरुषाधमः ।। ५ ।।
धर्मे क्षीणे तथैवार्थे काममासेविते द्विजः ।।
ध्रुवं नरकपातः स्यान्नात्र कार्या विचारणा ।। ६ ।।
धर्मार्थयुक्तं पुरुषस्तु कामं संसेवमानो हि न जातु कामैः ।।
वियोगमाप्नोति ततस्तु विद्वान्धर्मार्थयुक्ते सततं निषेवेत् ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु कामकृत्यवर्णनोनामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४१।।
3.242
हंस उवाच ।।
नात्यर्थहर्षः कार्यस्तु कदाचिदपि पण्डितैः।।
अत्यर्थहृष्टः पुरुषः कार्यं वेत्ति न किञ्चन ।। १ ।।
सम्पदञ्चञ्चलां प्राप्य हर्षं प्राज्ञो विवर्जयेत् ।।
दृष्टा हि बहवो नष्टा लोके सम्पत्प्रलम्बिताः ।। ।। २ ।।
सम्पत्तौ वा विपत्तौ वा स्वभावं न त्यजेद्बुधः ।।
चञ्चलाः सम्पदः सर्वाः स्वभावादेव वै द्विजाः ।। ३ ।।
कस्तासां विश्वसेत्प्राज्ञो वेश्यास्स्त्रीणां यथा तथा ।।
संसर्गान्मोहमाप्नोति तासां प्राप्नोति मानवः ।। ४ ।।
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ।। ५ ।।
न प्रज्ञा धनलाभाय न जाड्यमसमृद्धये ।।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ।। ६ ।।
प्राज्ञस्तु सम्यक्चपलां विदित्वा तां प्राप्य हर्षं परिवर्जयेत ।।
सम्पद्विनाशे न च दुःखमीयाद्यद्भावि तद्भावि न तस्य नाशः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे हंसगीतासु प्रहर्षदोषवर्णनो नाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः।।२४२।।
3.243
हंस उवाच।।
मानं विवर्जितं सद्भिर्वर्जनीयं सदा बुधैः।।
मानेन नष्टा बहवो राजानः सपरिच्छदाः।।।
ब्राह्मण्याच्च परिभ्रष्टा ब्राह्मणा बहवो द्विजाः।।
सर्वदोषास्पदं मानं लोकद्वयविवातकम् ।। २ ।।
युक्तायुक्तं न जानाति मानेन पुरुषाधमः ।।
मानग्रस्तो नरो लोके गुरूनप्यवमन्यते ।। ।। ३ ।।
करोत्यकार्यं पुरुषो मानेन च तथा ध्रुवम् ।।
मानग्राहगृहीतस्य नास्ति मोक्षः कथञ्चन ।। ४ ।।
कामः क्रोधश्च लोभश्च सर्वजन्तु विनाशकाः ।।
मानग्रस्तं तु पुरुषमाविशन्ति द्विजोत्तमाः ।। ५ ।।
मानाभिभूतश्च तथा नरकं प्रतिपद्यते ।।
अप्रतिष्ठन्नरश्रेष्ठास्तस्मात्तं परिवर्जयेत् ।। ६ ।।
शत्रुर्न मानेन समोऽस्ति पुंसो मानेन नाशं व्रजतीह जन्तुः ।।
मानो हि तस्मात्परिवर्जनीयो बुधैस्तु नित्यं नरकस्य मार्गः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मानदोषवर्णनो नाम त्रिचत्वारिंशदुत्तरद्विशत तमोऽध्यायः ।। २४३ ।।
3.244
हंस उवाच ।।
मदो विवर्जितः सद्भिर्वर्जनीयः प्रयत्नतः ।।
मदे तु बहवो दोषा लोकद्वयविवातकाः ।। १ ।।
मत्तः कार्यं न जानाति गुरूनप्यवमन्यते ।।
मत्तस्य नरकद्वारं नित्यं विप्रास्त्वपावृतम् ।। २ ।।
मत्तो भयं न जानाति मरणेऽप्यतिकुत्सिते ।।
मत्तो मोहसमापन्नो न विजानाति किञ्चन ।। ३ ।।
मदानामपि सर्वेषां ज्ञेयः पानमदोऽधमः ।।
तेनाभिभूतः पुरुषो न मृतादतिरिच्यते ।। ४ ।।
अज्ञानतुल्यं न हि दोषमस्ति हेतुश्च तस्येह परो मदः स्यात् ।।
तस्मात्प्रयत्नेन मदस्य हेतुर्नरेण पानं परिवर्जनीयम्।।५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मददोषवर्णनो नाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४४ ।।
3.245
।। हंस उवाच ।। ।।
लुब्धो दोषान्न जानाति लुब्धः पापं न बुध्यते ।।
नरो लोभसमाविष्टो वशमेति तथापदाम् ।। १ ।।
जीर्यन्ति जीर्यतः केशा नखा जीर्यन्ति जीर्यतः ।।
जीर्यन्ति जीर्यतो दन्तास्तृष्णा त्वेका न जीर्यते ।। २ ।।
तृष्णाखुनिरगाधेयमपूर्वा द्विजपुङ्गवाः।।
पूर्यमाणापि सततं खन्यतेऽभ्यधिकं तया ।। ३ ।।
न तां पूरयितुं शक्तः कदाचिदपि कश्चन ।।
न तां पूरयितुं शक्ताः सर्वे सन्तोषमाश्रिताः ।। ४ ।।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।।
नालमेकस्य पर्याप्तमिति मत्वा शमं व्रजेत ।। ५ ।।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ।। ६ ।।
लुब्धस्य बन्धुर्न सुतो गुरुर्वा लुब्धस्य लोका न च लोकयात्रा ।।
लुब्धस्य दोषाः सकलाः प्रदिष्टा लोकद्वये दुःखकराः सुरौघाः ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु लोभदोषवर्णनो नाम पञ्चचत्वारिंशदुत्तरद्विशततमोऽध्यायः ।। २४५ ।।