विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २३१-२३५

विकिस्रोतः तः
← अध्यायाः २२६-२३० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २३१-२३५
वेदव्यासः
अध्यायाः २३६-२४० →

3.231
।। ।। हंस उवाच ।। ।।
पाषाणरुक्मरजतसन्नतोयाजवर्मणाम् ।।
पत्रमूलफलानां च तृणानां च तथा द्विजाः ।। १ ।।
वैदलानां च रज्जूनां वारिणा शुद्धिरिष्यते ।।
उष्णेन पात्रचमसस्रुक्स्रुवाणां विधीयते ।। २ ।।
भूशुद्धिर्मार्जनाद्दाहात्कालाङ्गोक्रमाणात्तथा ।।
अम्लोदकेन ताम्रस्य तथा कांस्यस्य भस्मना ।। ३ ।।
निर्मलीकरणाच्छुद्धिः सर्वलोहस्य चेष्यते ।।
स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलाश्मनाम् ।। ४ ।।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ।।
गोमूत्रेण च शृङ्गास्थ्नां तक्षणाद्दारवस्य च ।। ५ ।।
द्रवाणामपि द्रव्याणां शुद्धिरुत्प्लवनात्स्मृता ।।
सोष्णैरुदकगोमूत्रैः शुद्ध्यन्त्याविककौशिकाः ।। ६।।
सश्रीफलैरंशुपट्टं माञ्जिष्ठैः कुतपं तथा ।।
सगौरसर्षपैः क्षौमाः पुनः पाकैर्महीमयम् ।। ७ ।।
मलैर्मद्यैः सुराभिश्च स्पृष्टं पाकान्न शुद्ध्यति ।।
वसाशुक्रमसृङ्मञ्जामूत्रविट्कर्णविण्णखाः ।। ८ ।।
श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः।।
खार्जूरमैक्षवण्टाङ्कं मृद्वीकारसमेव च ।। ९ ।।
मद्यान्येतानि जानीयाच्छुक्तमासवमेव च ।।
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।। 3.231.१० ।।
अमेध्याङ्गस्य मृत्तोयशुद्धिर्गन्धापकर्षणात् ।।
कृत्वा मूत्रपुरीषं च भुक्त्वा सुप्तोत्थितस्तथा ।। ११ ।।
रथ्यामाक्रम्य चाचामेदुपविष्ट उदङ्मुखः ।।
शावं तदङ्गधूपं च चाण्डालं सूतिकां तथा ।। १२ ।।
शवस्पृशं तथा स्पृष्ट्वा कटधूमे समैथुने ।।
स्नानमेतेषु कर्तव्यमश्रुपाते च दुःखजे ।। १३ ।।
सर्वेषां वायुना शुद्धिर्गृहाणां लेपनेन च ।।
आकराः शुचयः सर्वे मुखजायाश्च विप्लुषः ।। १४ ।।
राजा न दुष्टो न तथा च वायुर्दुष्टा द्विजेन्द्रा न च मक्षिका वै ।।
अदुष्टमुक्तं च तथाप्यदृष्टसदृष्टमुक्तं च तथांशुजालम् ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां द्रव्यशुद्धिवर्णनो नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३१ ।।
3.232
हंस उवाच ।।
दशाहं शावमाशौचं सपिण्डेषु विधीयते ।।
ब्राह्मणस्य द्विजश्रेष्ठ द्वादशाहं महीभुजः ।। १ ।।
पक्षं वैश्यस्य शूद्रस्य मासं चैव विधीयते ।।
जनने चैव मरणे नैपुण्याच्छु द्धिमिच्छताम् ।। २ ।।
प्रथमान्ते विशुद्धिः स्यात्समानस्य द्विजोत्तमाः ।।
द्वितीयान्ते तथा ज्ञेया असमानस्य नित्यदा ।। ३ ।।
अव्यतीते दशाहे तु श्रुत्वा मरणजन्मनी ।।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।। ४ ।।
अतीते दशरात्रे तु वर्षस्याभ्यन्तरे तथा ।।
त्रिरात्राच्छुद्धिरुद्दिष्टा स्नातस्य तु ततः परम् ।। ५ ।।
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनम् ।।
आदन्तजन्मनः सद्य आचूडस्याप्यहर्निशम् ।। ६ ।।
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ।।
कन्यानां तु व्रतस्थाने विवाहः परिकीर्तितः ।। ७ ।।
विवाहितासु नाशौचं पितृपक्षे विधीयते ।।
मातामहे त्रिरात्रं स्याद्भार्यास्वन्यगतासु च ।। ८ ।।
परपूर्वासु च स्वासु पुत्रेष्वन्यगतेषु च ।।
आचार्ये च तथा प्रेते निवासवसुधाधिपे ।। ९ ।।
आचार्यपत्निपुत्रेषु शिष्ये सब्रह्मचारिषु ।।
एकरात्रमशौचं स्यादन्नदे तु तथा मृते ।। 3.232.१० ।।
भृग्वग्निनाशकाम्भोभिर्हतानामात्मघातिनाम् ।।
पतितानां च नाशौचं विद्युच्छस्त्रहताश्च ये ।। ११ ।।
छञिव्रतिब्रह्मचारिनृपकोशकदीक्षिताः ।।
नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ।। १२ ।।
अतीत वार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ।।
द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये ।। १३ ।।
गतैः संवत्सरैः षडभिर्मासेन परिकीर्तिता ।।
प्रेतानुगमने स्नानं घृतप्राशश्च शोधनम् ।।१४।।
जननमरणयोर्दशाहेन भवति न शौचविधिर्न विप्रभोज्यम्।।
न च भवति प्रतिग्रहेपि दोषो द्विपदचतुष्पदधान्य दक्षिणासु ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायामाशौचविधिवर्णनो नाम द्वात्रिंशदुत्तरद्विशततमोऽ ध्यायः ।। २३२ ।।
3.233
हंस उवाच ।।
अङ्गुल्यग्रे स्मृतं दैवं पित्र्यं तर्जनिमूलगम् ।।
अङ्गुष्ठमूले ब्राह्मं तु कनिष्ठायाश्च मानुषम् ।। १ ।।
उपस्पृशेत्तु ब्राह्मेण देवा दिव्येन तर्पयेत् ।।
पितॄन्पित्र्येण धर्मज्ञ मानुष्येण तथा पिबेत्।।२।।
अविकार्ये तथा जप्ये यजने याजने तथा ।।
अध्यापने चाध्ययने भवेन्नान्यमना नरः।।३।।
एतेष्वेव तु कार्येषु गुरूणामपि सन्निधौ ।।
उद्धरेद्दक्षिणं पाणिं गृह्णीयान्न च पादुके ।।४।।
अग्निकार्यं देवकार्यमुपस्पर्शनमेव च ।।
भोजनं पितृकार्यं च बहिर्जानु न कारयेत् ।।५।।
न नाम दीक्षितस्येह गृह्णीयाद् वृष्टयः क्वचित् ।।
गुरोर्न केवलं नाम गृहीतव्यमथापि च।।६।।
याचमानं यथाशक्त्या न कुर्याद्विमुखं क्वचित् ।।
दैवं पूर्वाह्णिकं कार्यं त्वपराह्णे तु पैतृकम् ।। ७ ।।
अतिथीनां तथा पूजा सर्वकालं विधीयते ।।
यद्विशिष्टतमं लोके यच्चास्ति दयितं गृहे ।। ८ ।।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ।।
प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा ।। ९ ।।
प्रतिश्रुतं प्रयत्नेन दातव्यमृषिसत्तमाः ।।
अप्रयच्छंस्तदाप्नोति मूर्तीष्टकृतसंशयम् ।। 3.233.१० ।।
नरकं महदाप्नोति शृगालश्चैव जायते ।।
माता पिता गुरुश्चैव ज्येष्ठो भ्राता तथा स्वसा ।। ११ ।।
पितृव्यो मातुलश्चैव तथा मातृष्वसा द्विजाः ।।
पितृष्वसा तथा श्वश्रूर्गुरुभार्या तथैव च।। ।। १२ ।।
मातामहश्च श्वशुरः पूजनीयाः प्रयत्नतः ।।
प्रत्युत्थानश्च कर्तव्यं तेषां पूर्वाभिवादनम् ।। १३ ।।
मातुलश्च पितृव्यश्च यदा स्यातां कनी यसौ ।।
नाभिवाद्यास्तु ते पूर्वं प्रत्युत्थानं तु कारयेत् ।। १४ ।।
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ।।
पूर्वां सन्ध्यां जपंस्तिष्ठेदासीनश्चैव पश्चिमाम् ।। १५ ।।
मध्यन्दिने निशाकाले त्वर्धरात्रे विशेषतः ।।
चतुष्पथं न सेवेत उपसन्ध्ये तथैव च ।। १६ ।।
नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् ।।
द्वेषस्तम्भातिमानौ च तैक्ष्ण्यं चैव विवर्जयेत ।। १७ ।।
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् ।।
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडनं स्मृतम् ।। १८ ।।
न ब्राह्मणं परिवदेन्नक्षत्राणि न निर्दिशेत् ।।
तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ।। १९ ।।
प्रागस्तशायी न भवेन्न चाभ्युदयशायिकः ।।
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ।। 3.233.२० ।।
अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन ।।
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्।।२१।।
वर्जयेच्च तथा प्राज्ञाश्चासनाकर्षणं सदा ।।
स्नात्वा तु नावमाजेत गात्राणि तु विचक्षणः ।। २२।।
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः ।।
तथा नान्यधृतं धार्यं न चापदशमेव च ।। २३ ।।
अन्यदेव भवेद्वासः शयनीये द्विजोत्तमाः ।।
अन्यद्रथ्यासु देवानां त्वर्चायामन्यदेव तु ।। २४ ।।
उपवासं तु कुर्वीत स्नातः शुचिरलंकृतः ।।
पर्वकालेषु सर्वेषु ब्रह्मचारी तथा भवेत् ।। २५ ।।
पिप्पलं च वटञ्चैव शणशाकं तथैव च ।।
उदुम्बरं न खादेत भव्यार्थी पुरुषः सदा ।।२६ ।।
पुत्रमांसोपमं मांसं पृष्ठमांसं च वर्जयेत् ।।
पाणौ च लवणं रात्रौ दधिसक्तूंस्तथैव च ।। २७ ।।
सायं प्रातश्च भुञ्जीत नान्तराले कदाचन ।।
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।। २८ ।।
भूमौ सदैव चाश्नीयान्न चासीनो च शब्दवत् ।।
तोयपूर्णं यदा पानमतिथिभ्यो द्विजोत्तमाः ।। २९ ।।
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ।।
न धावेद्वर्षमाणे तु नदीं मत्तां न लङ्घयेत् ।।3.233.३०।।
गां चरन्तीं पिबन्तञ्च वत्सकं न निषेधयेत ।।
समानमेकपङ्क्त्यां तु देयमन्नं तथा भवेत्।।३१।।
पङ्क्त्यान्तु विषमं दत्त्वा नरकं प्रतिपद्यते ।।
विषं हालाहलं भुङ्क्ते यो प्रदाय सुहृज्जने ।। ३२ ।।
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ।।
नित्योच्छिष्टो भवेद्यः स नेहायुर्विन्दते महत् ।। ३३ ।।
परं ज्ञेयमनायुष्यं परदाराभिमर्शनम् ।।
उदक्यागमनं ज्ञेयमलंघ्यं परमं सुखम् ।। ३४ ।।
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन ।।
उदक्यया तु संभाषां न तु कुर्वीत कर्हिचित् ।। ३५ ।।
नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः ।।
अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ।। ३६ ।।
त्रीणि तेजांसि नोच्छिष्टो नालभेत कदाचन ।।
अग्निं गां ब्राह्मणं चैव तथा ह्यायुर्न रिष्यते ।। ३७ ।।
त्रीणि तेजांसि चोच्छिष्टो नोदीक्षेत कदाचन ।।
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ।। ३८ ।।
नावमन्येत धर्मज्ञ त्रीणि तेजांसि पण्डितः ।।
अग्निं च कुलपुत्रं च ब्राह्मणञ्च द्विजोत्तमाः ।। ३९ ।।
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः ।।
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ।। 3.233.४० ।।
नाध्यापयेदथोच्छिष्टो नाधीयीत कदाचन ।।
सर्वं च तिलसंबद्धन्नाद्यादस्तमिते रवौ ।। ४१ ।।
ऊर्ध्वप्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति ।।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ।। ४२ ।।
अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् ।।
कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ।। ४३ ।।
नासीत चासने भिन्ने भिन्नं कास्यं च वर्जयेत् ।।
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नानमर्हति ।। ४४ ।।
गुरुणा वैरनिर्बन्धो न कर्त्तव्यः कदाचन ।।
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो विजानता ।। ४५ ।।
दूरादावसथान्मूत्रं दूरादात्मावसेचनम् ।।
उच्छिष्टोन्मार्जनं चैव दूरात्कार्यं विजानता ।। ४६ ।।
उपानहो च वस्त्रं च धृतमन्यैर्न धारयेत् ।।
पादं पादेन नाक्रामेन्न कण्डूये्न शौचयेत् ।। ४७ ।।
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्विगर्हितान् ।।
रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ।। ४८ ।।
भुञ्जानो ब्राह्मणश्रेष्ठो नैव शङ्कां समाचरेत् ।।
दधि चाप्यनुपानं च न कर्त्तव्यं भवार्थिना ।। ४९ ।।
आचम्य चैव हस्तेन परिस्राव्यं तथोदकम् ।।
अङ्गुष्ठचरणस्याग्रे दक्षिणस्य तथोपरि ।। 3.233.५० ।।
परापवादं न ब्रूयान्नाप्रियश्च कदाचन ।।
न मन्युः कस्यचित्कार्यः कदाचिदपि वै द्विजः ।। ५१ ।।
होमश्चानुदिते सूर्ये दातव्यो द्विजपुङ्गवाः ।।
तावद्भवति वह्निस्थो यावन्नोदेति भास्करः ।। ५२ ।।
परीप्सितं च वह्निस्थः सम्यग्दत्तामथाहुतिम् ।।
तदा भासयते सर्वं त्रैलोक्यं सचराचरम् ।। ५३ ।।
पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् ।।
संसर्गं न च गच्छेत्तु तथास्यायुर्न रिष्यते ।। ५४ ।।
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रं च कुलोद्गतम् ।।
गृहे वासयितव्यानि धन्यानि मुनिसत्तमाः ।। ५५ ।।
ब्राह्मणस्य पदाभ्यां तु वसेत्पूजितमालयम् ।।।
सन्ध्यास्वध्ययनं वर्ज्यं भोजनं स्वपनक्रिया ।। ५६ ।।
नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् ।।
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ।। ५७ ।।
अनिमन्त्रितो न गच्छेत्तु यज्ञं गच्छेत्तु दर्शकः ।। ५८।।
चरितानि पुराणानां श्रोतव्यानि पुनःपुनः ।।
श्रुतिस्मृत्युदितं धर्मं त्वनुतिष्ठेत्तथा सदा ।। ५९ ।।
सुखी स्यात्तत्प्रसक्तस्तु इह लोके परत्र च ।। 3.233.६० ।।
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तथा स्मृतिः ।
ते सर्वार्थेषु मीमांस्ये ताभ्यां धर्मो हि निर्बभौ ।। ६१ ।।
योऽवमन्येत भूतेभ्यो हेतुशास्त्राश्रयाद्द्विजाः ।।
साधुभिः स बहिष्कार्यो नरकाग्नेस्तु भाजनम् ।। ६२।।
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।।
एतच्चतुर्विधं प्राहुः साधूनां धर्मलक्षणम् ।।६३।।
चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते ।।
स म्लेच्छविषयो ज्ञेय आर्यावर्त्तमतः परम् ।।६४।।
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।।
तं देवविहितं देशं ब्रह्मावर्तं प्रचक्षते ।। ६५ ।।
यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः ।।
वर्णानां सान्तरालानां स सदाचार उच्यते ।। ६६ ।।
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।।
कार्याः शरीरसंस्काराः पावनाः प्रेत्य चेह च।।६७।।
गार्भैः कृत्यैर्जातकर्मचौलमौञ्जीनिबंधनैः ।।
वैजिकं गार्भिकं चैनो द्विजानामपहन्यते ।। ६८ ।।
स्वाध्यायेन व्रतैहोंमैस्त्रैविद्येनेज्यया सुतैः ।।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः।।६९।।
गर्भाष्टमेब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।।
गर्भादेकदशे राज्ञो गर्भात्तु द्वादशे विशः।।3.233.७०।।
आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते।।
आद्वाविंशात्क्षत्त्रबन्धोराचतुर्विजतेर्विशः।।७१।।
अत ऊर्ध्वं त्रयोप्येते यथाकालमसंस्कृताः।।
सावित्रीपतिता व्रात्या भवन्ति च विगर्हिताः।।७२।।
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा।।
स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यते ।। ७३ ।।
इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।।
संशये यत्नमातिष्ठेद्विद्वान्यन्तेव वाजिनाम् ।। ७४ ।।
वशीकृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ।।।
सर्वान्संसाधयत्यर्थानक्षिण्वन्योगतस्तनुम् ।। ७५ ।।
न जातु कामः कामानामुपभोगेन शाम्यति ।।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।।७६।।
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।।
यासौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ।।७७।।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ।। ७८ ।।
इन्द्रियाणां प्रसङ्गेन दोषमन्वेत्यसंशयम् ।।
संनियम्य तु तान्येव ततः सिद्धिं स गच्छति ।। ७९ ।।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।।
चत्वारि संप्रवर्धन्ते ह्यायुर्मेधा यशो बलम् ।। 3.233.८० ।।
ब्राह्मणं कुशलं पृच्छेत्क्षत्त्रबन्धुमनामयम् ।।
वैश्यं क्षेमं समागम्य शूद्रं त्वारोग्यमेव च ।। ८१ ।।
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ।। ८२ ।।
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।। ८३ ।।
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां च वीर्यतः ।।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ।। ८४ ।।
अहिंसयैव भूतानां कार्यं श्रेयोऽनुपालनम् ।।
वाक् चैव मधुरा ह्यस्याः प्रयोज्या धर्मकांक्षिणा ।। ८५ ।।
यस्य वाऽङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ।।
स वै सर्वमवाप्नोति वेदान्तगमनात्फलम् ।।८६।।
वेदमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमाः ।।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ।। ८७ ।।
योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ।।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ।। ८८ ।।
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धनम् ।।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ।। ८९ ।।
न ह्यस्मिन्सज्जते कर्म किञ्चिदामौञ्जिबन्धनात ।।
नाभिव्याहारयेद्ब्रह्म स्वधानियमनादृते ।।। 3.233.९० ।।
शूद्रेण हि समस्तावद्यावद्वेदं न जानते ।।
कृतोपनयनस्यास्य व्रतादेशनमिष्यते ।। ९१ ।।
गुरोर्यत्र परीवादो निन्दा चापि प्रवर्तते ।।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ।।९२।।
खरो भवेत्परीवादी श्वा वै भवति निन्दकः ।।
परिभोक्ता क्रिमिर्भवति कीटो भवति मत्सरी ।।९३।।
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।।
एकासनस्थो न भवेदापन्नोऽपि कदाचन।। ९४।।
गोश्वोष्ट्रयानप्रासादस्वस्तरेषु कटेषु च ।।
नासीत गुरुणा सार्धं शिलाफलकनौषु च ।। ९५ ।।
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।।
अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ।। ९६ ।।
न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम ।।
गुरुवत्प्रतिपूज्यास्तु सवर्णा गुरुयोषितः।।९७।।
असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ।।
अभ्यञ्जनं स्थापनं च गात्रोत्सादनमेव च।।९८।।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्।।
गुरुपत्नी च युवतिर्नाभिवाद्येह पादयोः।।९९।।
पूर्णा विंशतिवर्षेण गुणदोषौ विजानता।।
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्।।3.233.१००।।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ।।
विप्रोष्य पादग्रहणं त्वन्वहञ्चाभिवादनम् ।।१०१।।
गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ।।
स्त्रियो रत्नान्यथो विद्या धर्मस्सत्यं सुभाषितम्।।१०२।।
शिल्पानि चाप्यदुष्टानि समादेयानि सर्वतः।।
अब्राह्मणादध्ययनं चापत्काले विधीयते।।१०३।।
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरौ ।।
नाब्राह्मणगुरौ शिष्यो वासमात्यन्तिकं वसेत् ।। १०४ ।।
ब्राह्मणे वाननूचाने काङ्क्षन्गतिमनुत्तमात् ।।
पितृभिर्मातृभिर्नार्यः पतिभिर्देवरैस्तथा।।१०५।।
भूष्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः।।
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।। १०६ ।।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ।।
सन्तुष्टो भार्यया भर्ता भार्या भर्त्रा तथैव च ।। १०७ ।।
यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै धुवम् ।।
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च ।। १०८ ।।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ।।
शिल्पेन व्यवहारेण शूद्रापुत्रैश्च केवलैः ।।१०९ ।।
गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ।।
अयाज्य याजनाच्चैव नास्तिक्येन च कर्मणा ।। 3.233.११०
कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ।।
मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।। ।। १११ ।।
कुलसंख्यान्तु गच्छन्ति कर्षन्ति च महद्यशः ।।
ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।। ११२ ।।
आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ।।
स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि ।। ११३ ।।
पितॄञ्छ्राद्धेन नॄनन्नैर्भूतानि बलिकर्मणा ।।
दद्यादहरहः श्राद्धमन्नाद्येनोदकेन च ।। ११४ ।।
पयोमूलफलैर्वापि पितृभ्यः प्रीतिमाहरन् ।।
एकमप्याशयेद्विप्र पित्रर्थे पाञ्चयज्ञिके ।। ११५ ।।
न चैवात्राशायेत्कञ्चिद्वैश्वदेवं प्रति द्विजम् ।।
वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् ।। ११६ ।।
स्वसूत्रविहितं कुर्याद्वैश्वदेवमतन्द्रितः ।।
प्रणीते वाप्राणीते वा हुतोत्सृष्टे जलेऽपि वा ।। ११७ ।।
वैश्वदेवं ध्रुवं कार्यं ब्राह्मणेन विपश्चिता ।।
परं स्थानमवाप्नोति कृत्वैवं सततं गृही ।।
भोजयेदतिथिं पश्चाद्भिक्षां दद्याच्च भिक्षवे ।। ११८ ।।
यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरौ ।।
तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा यथार्चिताम् ।। ११९ ।।
विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।।
निस्तारयति दुर्गेषु भवत्यक्षयमेव च ।। 3.233.१२० ।।
संप्राप्ताय त्वतिथये प्रदद्यादासनोदकम् ।।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ।। १२१ ।।
शिलान्यप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ।।
सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ।। १२२ ।।
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।।
एतान्यपि सतां गेहे नोच्छिद्यंते कदाचन ।। १२३ ।।
एकरात्रन्तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।।
नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा।।१२४।।
उपासते ये गृहस्थाः परपाकमबुद्धयः ।।
तेन ते प्रेत्य पशुतां व्रजन्त्यन्नाद्यदायिनाम् ।।।।२९।।
अप्रीणन्योतिथिः सायं सूर्यान्ते गृहमेधिना ।।
काले प्राप्तस्त्वकाले वा नास्यानश्नन्गृहे वसेत ।। १२६ ।।
न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ।।
धन्यं यशस्यमायुष्यं स्वर्ग्यञ्चातिथिपूजनम् ।।१२७ ।।
वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् ।।
तथा चान्नं यथाशक्ति प्रदद्याच्च बलिं हरेत् ।। १२८ ।।
न भोजनार्थे स्वे विप्रः कुलगोत्रे निवेदयेत् ।।
भोजनार्थे तु शंसन्वा वान्ताशीत्युच्यते बुधैः ।। १२९ ।।
यदि त्वतिथिधर्मेण क्षत्त्रियो गृहमाव्रजेत् ।।
भुक्तवत्सु च विप्रेषु कामं तमपि पूजयेत् ।।3.233.१३०।।
वैश्यशूद्रावपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ।।
भोजयेत्सह भृत्यैस्तानानृशंस्यं प्रयोजयन् ।।१३१।।
सख्यादीन्भार्यया सार्धं भोजयेद्गृहमागतान् ।।
पतितश्वपचेभ्यस्तु श्वभ्यस्तु भुवि निर्वपेत् ।। १३२ ।।
सुवासिनीः कुमारांश्च रोगिणो गर्भिणीस्तथा ।।
अतिथिभ्योऽग्र एवैनान्भोजयेदविचारयन् ।। १३३ ।।
अदत्त्वा तु य एतेभ्यः पूर्वं भुंक्ते विचक्षणः ।।
स भुञ्जानो न जानाति श्वगृद्धैर्जग्धमात्मनः ।। १३४।।
भुक्तवत्सु तु विप्रेषु स्वेषु भृत्येषु चैव हि ।।
भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ।। १३५।।
गृहस्थैर्धार्यते विप्रास्तैर्लोक्यं सचराचरम् ।।
पाकः कार्यो गृहस्थेन भूतोद्धरणकाम्यया ।। १३६ ।।
अघं स केवलं भुंक्ते यः पचत्यात्मकारणात्।।
विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ।।१३७।।
विघसं भुक्तशेषं तु यज्ञशेषं तथामृतम् ।।
राजर्षिस्नातकाचार्यप्रियश्वशुरमातुलान् ।।१३८।।
अर्हयेन्मधुपर्केण परिसंवत्सरोषितान् ।।
द्वौ कालौ गृहिणः पाको वैश्वदेवश्च कीर्त्यते ।। १३९ ।।
वेदोदितं स्वकं कर्म नित्यं कुर्यादतंद्रितः ।।
सर्वान्समुत्सृजेदर्थास्वान्ध्यायस्य विरोधिनः ।।3.233.१४०।।
बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।।
नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ।।१४१।।
ऋषियज्ञं देवयज्ञं भूतयज्ञं तथैव च ।।
नृयज्ञं पितृयज्ञं च पञ्चयज्ञान्न हापयेत् ।।१४२।।
अग्निहोत्रं च जुहुयादाद्यंते द्युनिशोः सदा ।।
दर्शेन चार्धमासांते पौर्णमासे तथैव च ।।१४३।।
तयोः कालः स्मृतः क्षीणे पूर्णे च शशलक्षणे ।।
पशुनाप्यायनान्ते च मासान्ते सौमिकैर्मखैः।।१४४।।
नानिष्ट्वा नवसस्येष्ट्या पशुना वाग्निमान्द्विजः।।
नवान्नमद्यान्मासं वा दीर्घमायुर्जिजीविषुः।।१४५।।
नवेनानर्चितो ह्यस्य पशुहव्येन चाग्नयः।।
प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्द्धिनः।।१४६।।
आसनाशनशय्याभिरद्भिर्मूलफलेन वा।।
नास्य कश्चिद्वसेद्गेहे शक्तितो ऽनर्चितोऽतिथिः।।१४७।।
पाषण्डिनो विकर्मस्थान्वैडालव्रतिकाञ्शठान्।।
हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्।।१४८।।
न दानं यशसे दद्यान्नो भयान्नोपकारिणे ।।
न नृत्तगीतशीलेभ्यो हासकेभ्यश्च धार्मिकः ।। १४९ ।।
वेदविद्याव्रतस्नाताञ्श्रोत्रियान्गृहमेधिनः ।।
पूजयेद्धव्यकव्येषु विपरीताँस्तु वर्जयेत् ।। 3.233.१५० ।।
शक्तितो यजमानस्य दातव्यो गृहमेधिनः ।।
संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ।। १५१ ।।
राजतो धनमन्विच्छेत्संसीदन्स्नातकः क्षुधा ।।
याज्यान्तेवासिनो वापि न त्वन्यत इति स्थितिः ।। १९२ ।।
न जीर्णमलवद्वासा भवेच्च विभवे सति ।।
स्वाध्याये नित्ययुक्तः स्यान्नित्यमात्महितेषु च।।१५३।।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ।। १५४ ।।
शुक्लवासा भवेन्नित्यं परिमृष्टपरिच्छदः ।।
न चैव प्रलिखेद्भूमिं नात्मनोपहरेत्स्रजम् ।। १५५ ।।
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।।
अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ।। १५६ ।।
एतान्येव तथा वह्नौ निक्षिपेन्नैव च द्विजः ।।
नैकः शून्यगृहे स्वप्याच्छयानं नैव बोधयेत् ।। १५७ ।।
न दिवीन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः ।।
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते ।। १५८।।
न पाषण्डिजनाकीर्णे नोपसृष्टे न पर्वते ।।
वैद्यसांवत्सरैर्हीने तथा प्रबलनायके ।। १५९ ।।
न कुर्वीत वृथा चेष्टां न वार्यञ्जलिना पिबेत् ।।
नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली ।। 3.233.१६० ।।
न नृत्येदथ वा गायेद्वादित्राणि न वादयेत् ।।
नास्फोटयेन्न च क्ष्वेडेन्न च रक्तां विरागयेत्।।१६१।।
न पादौ धावयेत्कांस्ये न च पादौ प्रतापयेत् ।।
न च्छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ।। १६२ ।।
पादयोर्नैव कुर्वीत दर्भेषु परिमार्जनम् ।।
पालाशमासनं वर्ज्यं पादुके दन्तधावनम् ।। १६३ ।।
न कर्मविफलं कुर्यादायत्यां वा सुखोदयम् ।।
न विगर्ह्यकथाः कुर्याद्बहिर्माल्यं न धारयेत्।।१६४।।
अद्वारेण न चातीयाद्ग्रामं वा वेश्म चैव वा।।
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ।।१६९।।
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संवि शेत ।।
न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।।१६६।।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ।।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः।।१६७।।
नरकाणि च सर्वाणि दद्याद्राजप्रतिग्रहः ।।
दशसूनासमश्चक्री दशचक्रसमो ध्वजी।।१६८।।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ।।
एतद्विज्ञाय वै राज्ञां न प्रगृह्णन्ति साधवः ।। १६९ ।।
उपाकर्मणि चोत्सर्गे त्रिरात्रं न पठेद् द्विजः ।।
वेदाङ्गानि पठेत्कृष्णे शुक्ले वेदमतन्द्रितः ।। ।। 3.233.१७० ।।
नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ।।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्।।१७१।।
सायं निशीथे नाध्ययनं वादित्रे न च वाद्यति।।
अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम्।।१७२।।
पशुमण्डूकमार्जारश्वसर्पनकुलादिभिः।।
कृतेऽन्तरालगमने रुधिरे च तथा स्रुते।।१७३।।
द्वावेतौ वर्जयेन्नित्यमनध्यायौ द्विजोत्तमः ।।
स्वाध्यायभूमिं चाशुद्धां चात्मानमशुचिं द्विजाः ।।१७४।।
देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा।।
नाक्रमेत्कामतश्छायां बभ्रुणो दीक्षितस्य च।।१७५।।
नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः।।
आमृत्योः श्रियमन्विच्छेन्न तां मन्येत दुर्लभाम्।।१७६।।
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ।। १७७ ।।
भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।।
शुष्कवैरं विवादं च न कुर्यात्केनचित्सह ।। १७८ ।।
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः ।।
गणान्नं गणिकान्नं च सूतकान्नं च वर्जयेत् ।।
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।।१७९।।
सावित्रशान्तिहोमांश्च कुर्यात्सर्वत्र नित्यशः ।।
पितृंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ।। 3.233.१८० ।।
मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम् ।।
जपतां जुह्वतां चैव विनिपातो न विद्यते ।। १८१ ।।
न पादपाणिचपलो न नेत्रचपलो द्विजः ।।
न स्याद्वाक्च पलश्चैव न परद्रोहकर्मधीः ।। १८२ ।।
येनास्य पितरो याता येन याताः पितामहाः ।।
तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यते ।। १८३ ।।
ऋत्विक्पुरोहिताचार्यमातुलातिथिसंश्रितैः ।।
बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः ।। १८४ ।।
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ।।
दुहित्रा दासवर्गेण विवादं न समाचरेत् ।। १८५ ।।
एतैर्विवादं सन्त्यज्य सर्वांल्लोकाञ्जयेद् गृही ।।
तस्मादेतैरधिक्षिप्तः सहेतासंज्वरं सदा ।। १८६ ।।
प्रतिग्रहणसमर्थोऽपि प्रसंगं तत्र वर्जयेत् ।।
प्रतिग्रहेण विप्राणां ब्राह्मं तेजो विनश्यति ।। १८७ ।।
न च द्रव्यमविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।।
प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ।। १८८।।
अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः ।।
अम्भस्य संप्लवेनैव सह तैनैव मज्जति ।। १८९ ।।
तस्मान्न विद्वान्गृह्णीयाद्यस्मात्तस्मात्प्रतिग्रहम् ।।
अल्पकेनाप्यविद्वांस्तु पङ्के गौरिव सीदति ।। 3.233.१९० ।।
प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।।
ये लोका दानशीलानां स तानाप्नोति शाश्वतान् ।। १९१ ।।
गुरून्भृत्यानुज्जिहीषुरर्चिष्यन्देवतातिथीन् ।।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ।। १९२ ।।
गुरुष्वभ्यवतीतेषु विना वातैर्गृहे वसन् ।।
आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा ।। १९३ ।।
धर्मध्वजोऽथ वा लुब्धश्छद्मस्थो लोकनिन्दकः ।।
वैडालव्रतिको ज्ञेयो हिंस्रः सर्वातिसाधकः ।। १९४ ।।
अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।।
शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ।। १९५ ।।
ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।।
ते पतन्त्यन्धतामिस्रं सह पापेन कर्मणा ।। १९६ ।।
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।।
व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम ।।
प्रेत्येह तादृशो विप्रो गृह्यते ब्रह्मवादिभिः ।। १९७ ।।
छद्मना चरितं तच्च व्रतं रक्षांसि गच्छति ।।
अलिङ्गो लिङ्गिवेशेन यो वृत्तिमुपजीवति ।। १९८ ।।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ।।
परकीयनिपानेषु न स्नायाद्धि कदाचन ।।
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ।। १९९ ।।
यानं शय्यासनं वस्त्रं कूपोद्यानगृहाणि तु।।
अदत्तान्युपभुञ्जानो ह्येनसः स्यात्तुरीयभाक् ।।3.233.२००।।
यमान्सेवेत सततं न नित्यं नियमान्बुधः ।।
यमान्संत्यज्य कुर्वाणो नियमान्केवलान्भजन् ।।२०१।।
शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः ।।
व्रतोपवासो मौनं च स्नानं च नियमा दश ।।२०२ ।।
आनृशंस्यं क्षमा सत्यमहिंसा च दमः स्पृहा ।।
ध्यानं प्रसादो माधुर्यं चार्जवं च यमा दश ।।२०३।।
नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा ।।
स्त्रिया क्लीबेन च हुते भुञ्जीयाद्ब्राह्मणः क्वचित् ।।२०४।।
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।।२०५।।
आयुर्विप्रापवादेन दानं च परिकीर्त्तनात् ।।
धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव पुत्तिकाः ।। २०६ ।।
परलोकसहायार्थं परपीडां विवर्जयेत् ।।
उत्तमैरुत्तमैर्निऽत्यं सम्बन्धानाचरेत्सह ।।२०७ ।।
निनीषुः कुलमुत्कर्षमधमानधमाँस्त्यजेत् ।।
एधोदकं मूलफलमन्नमभ्युद्धृतं च यत् ।। २०८ ।।
सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ।।
आहृत्याभ्युद्यतां भिक्षां गृह्णीयादप्रचोदिताम् ।।
अन्यत्र कुलटाषण्ढपतितस्तेनविद्विषः ।। २०९ ।।
शय्यां गृहाञ्शुभान्गन्धानापः पुष्पमणीर्दधि ।।
धाना मत्स्याः पयो मांसं शाकं चैव तु निर्णुदेत ।। 3.233.२१० ।।
योऽन्यथासन्तमात्मानमन्यथा सत्सु भाषते ।।
किं तेन न कृतं पापं चौरेणात्मापहारिणा ।। २११ ।।
वाच्यर्था नियतास्सर्वे वाङ्मूला वाग्विनिस्सृताः ।।
तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ।। ।। २१२ ।।
सन्तानिकं यक्ष्यमाणमध्वगं सर्ववेदगम् ।।
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थमतापिनः ।। २१३ ।।
न चैतान्स्नातकान्विन्द्याद्ब्राह्मणान्धर्मभैक्षुकान् ।।
निःस्वेभ्यो देयमेतेभ्यो दानं विद्या विशेषतः ।। २१४ ।।
एतेभ्यो हि द्विजाग्रेभ्यो देयमन्नं सदक्षिणम् ।।
इतरेभ्यो बहिर्वेद्यां कृतान्नं देयमुच्यते ।। २१५ ।।
कृतदारोऽपरान्दारान्भिक्षित्वा योऽधिगच्छति ।।
रतिमात्रं फलं तस्य द्रव्यदातुस्तु सन्ततिः ।। २१६ ।।
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।।
अधिकं वापि विद्येत स सोमं पातुमर्हति ।। २१७ ।।
अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।।
स पीतसोमपूर्वोऽपि तस्य नाप्नोति तत्फलम् ।। २१८ ।।
सक्तः परजने दाता स्वजने दुःखजीविनि ।।
मध्वापीतौ विषास्वादः स धर्मप्रतिरूपकः।। २१९ ।।
भृत्यानामुपरोधेन यः करोत्यौर्ध्वदैहिकम् ।।
तद्भवत्यमुखोदर्कं जीवतोऽस्य मृतस्य वा ।। 3.233.२२० ।।
न यज्ञार्थे द्विजः शूद्राद्भिक्षां लिप्सेत धर्मवित् ।।
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ।। २२१ ।।
यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।।
स याति भासतां विप्रः काकतां वा शतं समाः ।। २२२ ।।
देवस्वं ब्राह्मणस्वं च यो लोभान्नोपजीवति ।।
स पापात्मा परे लोके गृद्ध्रोच्छिष्टेन जीवति ।। २२३ ।।
इष्टिं वैश्वानरीं विप्रो निर्वपेदब्दपर्यये ।।
कृतानां पशुसोमानां निष्कृत्यर्थमसम्भवे ।। २२४ ।।
आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः ।।
समाप्नोति फलं तस्य परत्रेति विचारितम् ।। २२५ ।।
प्रभुः प्रथमकल्पस्य योऽनुकल्पेषु वर्तते ।।
धर्मेण योगं नाप्नोति नरकं चैव गच्छति ।। २२६ ।।
क्षत्त्रियो बाहुवीर्येण तरेदापदमात्मनः ।।
धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजातयः ।। २२७ ।।
न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः ।।
होता स्यादग्निहोत्रेषु नार्तो नासंस्कृतस्तथा ।। २२८ ।।
प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् ।।
अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ।।२२९।।
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।।
न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथंचन ।। 3.233.२३० ।।
हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ।।
बालातपं न सेवेत न दिवा मैथुनं व्रजेत् ।। २३१ ।।
प्रायश्चित्तीयतां प्राप्य प्रायश्चित्तं समाचरेत् ।।
मातुः स्वसारं वा पुत्रीं परभार्यां प्रकीर्तयेत् ।।२३२।।
नदीं तरेन्न बाहुभ्यां वर्जयेत्कूपलङ्घनम् ।।
यथाकथंचिन्नोदीक्षेदादित्यं तेजसां निधिम् ।। २३३ ।।
न क्रुद्धस्य गुरोर्वक्त्रं नैवादर्शममार्जितम् ।।
स्नानभोजनपानानि वाहेभ्यो नाचरेत्पुनः ।। २३४ ।।
यत्नेन बिभ्रियाद्दारान्वाग्मिनोऽकृपणान्द्विजान् ।। २३५ ।।
बद्धङ्गवादिकं यस्तु यवसेनोदकेन च।।
प्रतिजागर्ति नो विप्रः स याति नरकं महत् ।। ।। २३६ ।।
नारोहेद्विषमं शैलं नावं संशयितांस्तरून् ।।
न पातयेत लोष्टेन न काष्ठेन फलं द्रुमात् ।। २३७ ।।
शिरःस्नातस्तु तैलेन नाङ्गं किञ्चिदपि स्पृशेत् ।।
वहेन्न भारं शिरसा युगपन्नाग्निवारिणी ।। ३३८ ।।
न तोयं प्रक्षिपेद्वह्नौ वह्निं तोये तथैव च ।।
वर्जयेदतिसौहार्दं भोज्यान्नस्य च कुत्सनम् ।। २३९ ।।
राजद्विष्टं गणद्विष्टं लोकद्विष्टं विवर्जयेत् ।।
सायं प्रातश्च विदुषां शृणुयात्पुष्कला गिरः ।। 3.233.२४० ।।
संस्कृतं पायसं नित्यं यवाग्वां कृसरं वदेत् ।।
श्मश्रुकर्मणि चायुष्यं जीवितेन तथा कृतिः ।। २४१ ।।
व्याधितानां तु सर्वेषामायुषः प्रतिनन्दनम् ।।
श्रान्तस्य विश्रमश्चेति चाढ्यतां सीरिणस्तथा ।। २४२ ।।
आसीनस्य सुखं चापि पुण्याहमपि गच्छतः ।।
देवकर्मप्रवृत्तस्य प्रासादं परिकीर्तयेत् ।। २४३ ।।
न जातु त्वमिति ब्रूयादापन्नोपि महत्तरम् ।।
त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते ।। २४४ ।।
अवराणां समानानां शिष्याणाञ्चैतदिष्यते ।।
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् ।। २४५ ।।
अर्चेद्देवान्न दम्भेन सेवेतामायया गुरून् ।।
निधिं विदध्यात्पारक्यं यत्रार्थः शब्दवानिति ।। २४६ ।।
कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ।।
वृद्धान्नाति वदेज्जातु न तु सम्प्रेषयेत्क्वचित् ।।२४७।।
न वेगितोऽन्यकार्यः स्यान्नादित्वान्नानि कुत्सयेत्।।
मुक्तकेशो न गच्छेत्तु स्वप्नाहारसभास्त्रियः।।२४८।।
पाणिनालभ्य निष्क्रामेद्रत्नपूज्याज्यमण्डलम् ।।
प्रदक्षिणन्तु कुर्वीत मंगल्यं सर्वदा यतिः।।२४९।।
सूनाञ्च बन्धनागारं नृपनृत्यगृहे तथा ।।
अन्तः पुरं च ऋषयो दूरतः परिवर्जयेत् ।। 3.233.२५० ।।
त्रिः पक्षस्य कृतश्मश्रुर्नखलोमानि कल्पयेत् ।।
न प्रतिस्फालयेदम्बु पाणिना चरणेन वा ।। २५१ ।।
नासंवृतमुखः कुर्यात्क्षुतमंगविजृम्भणम् ।।
नाद्वारेण सुहृद्वेश्म न द्वारेण रिपोर्विशेत् ।। २५२ ।।
न सर्पशस्त्रैः क्रीडेत्तु नदीवेगं विवर्जयेत् ।।
विद्यात्प्रतिक्षणं मृत्योरयथातथचेष्टितम् ।। २५३ ।।
आहरेज्ज्ञानमर्थांश्च नरो ह्यमरवत्सदा ।।
केशैरिव गृहीतस्तु मृत्युना धर्ममाचरेत् ।। २५४ ।।
प्रविशेज्जनसंबाधं तथातिगहनं न च ।।
हेम नासंस्कृतं धार्यं निशि लोष्टं न च क्षिपेत् ।।२५५।।
आदौ पङ्क्त्यां न चाश्नीयाद्वर्जयेद्भूमिताडनम्।।
वर्जयेच्छात्रशबलं दिवा निद्रां तथैव च ।। २५६ ।।
कामः क्रोधो भयो हर्षं लोभो दर्पस्तथैव च ।।
रिपवः षड् विजेतव्या पुरुषेण विपश्चिता ।। २५७ ।।
अरिषड्वर्गसंन्यासात्कुर्यादिन्द्रियनिग्रहम ।।
योगक्षेमं सदोत्थानात्प्रज्ञां वृद्धोपसेवनात् ।। २५८ ।।
प्रश्रयेण जयेन्मानं दैन्यं दृष्टांत संश्रयात् ।।
अक्रोधेन जयेत्क्रोधं विनयेन त्वनार्यताम् ।। २५९ ।।
शीघ्रत्वाद्धस्तपादं च वाचमुच्चारणाज्जयेत् ।।
अज्ञानं ज्ञानसंयोगात्कामं कामांगवर्जनात् ।। 3.233.२६० ।।
धर्मिष्ठैरागमैर्लोभं क्रोधं मैत्र्याद्विवर्जयेत् ।।
कारुण्येन जयेन्मानं कालं कार्योपपत्तिभिः ।। २६१ ।।
आत्मानं सुखदुःखाद्यं त्वनभिज्ञाय योजयेत् ।।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।। २६२ ।।
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ।।
देश कालानुबन्धार्थं धर्माणामविरोधि यत् ।। २६३ ।।
तत्तत्सुखं निषेवेत नाकस्मान्निःसुखी भवेत् ।।
रूपसंदर्शनश्रव्यरसगन्धान्सदा जयेत्।।२६४।।
वसन्नपि सदोमध्ये ह्यसक्तो मनसा भवेत् ।।
परेषान्तत्र संदध्यात्प्रतिकूलं यदात्मनः ।। २६५ ।।
कृच्छ्रेष्वपि न तत्कुर्यात्साधूनां यदसम्मतम् ।।
जीर्णाशी च मिताशी च हिताशी च तथा भवेत् ।।२६६।।
शस्यते यैर्गुणैरन्यैर्येरन्यैरर्जितं यशः ।।
उञ्छवृत्तिर्भवत्येव विपरीतमतस्त्यजेत् ।। २६७ ।।
सुकारुणिकमात्मानं ख्यापयेन्नापि निर्घृणम् ।।
देशकालौ च शक्तिं च जनताञ्चावलोकयेत् ।। २६८ ।।
न मृदुः स्यान्न च क्रूरो ह्युभावेव समाश्रयेत् ।।
मृदुर्भवत्यवज्ञातः तीक्ष्णादुद्विजते जनः ।। २६९ ।।
अनालक्षितचित्तः स्यान्नैकान्ते किञ्चिदाचरेत् ।।
विद्यात्परस्य रन्ध्राणि स्वरंध्रं छादयेत्पुनः ।। 3.233.२७० ।।
गूहेत्कूर्म इवाङ्गानि रक्षेदात्मानमात्मना ।।
वागादीनि सहायानि कृत्वा प्रज्ञां च मन्त्रिणम् ।। २७१ ।।
धर्मकामसमृद्ध्यर्थं दासाद्यर्थः पुमान्भवेत् ।।
अर्थानर्थौ समासाद्य हर्षदैन्ये विवर्जयेत्।।२७२।।
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान ।।
नत्वेवं मूढवद्दध्यादात्मानं सुखदुःखयोः।।२७३।।
हर्षस्थानसहस्राणि शोकस्थानशतानि च ।।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम्।।२७४ ।।
न तत्कुर्वीत यस्यान्ते हर्षोपालम्भमाप्नुयात् ।।
अज्ञानप्रभवो मोहस्तस्माद्रागः प्रवर्तते ।।२७५।।
रागाद्वेषस्ततः क्रोधः क्रोधान्मानोऽभिजायते ।।
मानादपार्थकं कर्म कर्मतोऽशुभलक्षणम् ।। २७६ ।।
जन्ममृत्युजराव्याधिदुःखशोकप्रवर्त्तनम् ।।
अप्रमादो वृद्धसेवा तत्प्रज्ञामूलमिष्यते ।। २७७ ।।
ज्ञानाद्धर्मः सुखं धर्मान्निःश्रेयोऽभ्युदयात्मकम् ।।
इष्टेन्द्रियार्थसंयोगो भवेदुदयलक्षणम् ।। २७८ ।।
नारुन्तुदः स्यादनृशंसवादी नहीनतः परमभ्याददीत ।।
ययास्य वाचा पर उद्विजेत न तां वदेदुषतीं पापलोकाम् ।। २७९ ।।
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि।।
परस्य नुर्मर्मसु ते पतन्ति न तान्धीरोऽवसृजेद्वै परेषु।।3.233.२८०।।
प्रियाणि लोके शृणुते प्रियंवदः प्रियाणि चाप्नोति प्रियाणि चाश्नुते ।।
प्रियश्च सर्वस्य जनस्य जायते जनानुरागप्रभवा हि संपदः ।। २८१।।
आचारयुक्तस्त्रिदिवं प्रयाति आचारवानेव भवत्यरोगः ।।
आचारवानेव चिरन्तु जीवेदाचारवानेव भुनक्ति लक्षणम् ।। २८२ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु आचारवर्णनो नाम त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ।। २३३।।
3.234
हंस उवाच ।।
प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा ।।
न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते नरः ।। १ ।।
ब्रह्महत्या सुरापानं स्तेयं गुर्वाङ्गनागमः ।।
महान्ति पातकान्याहुः संयोगमपि तैः सह ।। २ ।।
अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।।
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया।।३।।
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः।।
गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानि षट् ।।४।।
निक्षेपस्यापहरणं नराश्वरजतस्य च।।
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ।।५।।
रेतसेकः सयोनीषु कुमारीष्वन्त्यजासु च।।
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ।। ६ ।।
गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः ।।
गुरुमातृपरित्यागः स्वाध्यायाग्न्योः सुतस्य च ।।७।।
परिवित्तितानुजेनूढे परवेदनमेव च ।।
तयोर्दानं च कन्यायास्तयोरेव च याजनम् ।। ८ ।।
कन्यायादूषणं चैव वार्धुष्यं व्रतलोपनम् ।।
तडागागमदाराणामपत्यस्य च विक्रयः।। ९ ।।
व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ।।
भृताच्चाध्ययनादानमपण्यानां च विक्रयः।।3.234.१०।।
सर्वकार्येष्वधीकारो महायन्त्रप्रवर्तनम् ।।
हिंस्रोषधिस्त्रियाजीवोऽभिचारो मूलकर्म च।।११।।
इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ।।
आत्मार्थं च क्रियारम्भो निन्दिनान्नादनं तथा ।।१२।।
अनाहिताग्निता स्तेयमृणानां चानपाक्रिया ।।
असच्छास्त्राभिगमनं कौशीलव्यस्य च क्रिया ।। १३।।
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।।
स्त्रीशूद्रविट्क्षत्त्रवधो नास्तिक्यं चोपपातकम् ।। १४ ।।
ब्राह्मणस्य रुजःकृत्यं घ्रातिरघ्रेयमद्ययोः ।।
जैह्म्यं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम्।।१५।।
खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ।।
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ।। १६ ।।
निन्दितेभ्यो धनादानं वाणिज्यं शूद्र सेवनम् ।।
अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ।। १७ ।।
कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।।
फलैधःकुसुमस्तेयमधैर्यं च मलापहम् ।। ।। १८ ।।
एतान्यन्यानि सर्वाणि यथोक्तानि पृथक्पृथक् ।।
धैर्यव्रतैरपोह्यन्ते तानि मे सन्निबोधत ।। १९ ।।
ब्रह्महा द्वादशसमाः कुटिं कृत्वा वने वसेत् ।।
भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ।। 3.234.२० ।।
लक्षं शस्त्रभृतां वा स्याद्विदुषामिच्छयात्मनः ।।
प्राश्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ।। २१ ।।
यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा ।।
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ।। २२ ।।
जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ।।
ब्रह्महत्यापनोदाय मितभुङ नियतेन्द्रियः ।। २३ ।।
सर्वस्वं वा वेदविदे ब्राह्मणाश्चोपपादयेत् ।।
धनं हि जीवनायालं गृहं वा सपरिच्छदम् ।। २४।।
हविष्यभुग्वानुसरेत्प्रतिस्रोतः सरस्वतीम् ।।
जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ।। २५ ।।
कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा ।।
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ।। २६ ।।
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान्परित्यजेत् ।।
मुच्यते ब्रह्महत्याया गोब्राह्मणहिते रतः ।। २७ ।।
त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा ।।
विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ।। २८ ।।
एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।।
समाप्ते द्वादशे वर्षे ब्रह्महत्यां विमुञ्चति ।। २९ ।।
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।।
स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ।। 3.234.३० ।।
धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते ।।
तस्मात्समागमे तेषामेनो विख्याप्य शुध्यति ।। ३१ ।।
ब्राह्मणः सम्भवेनैव देवानामपि दैवतम् ।।
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ।। ३२ ।।
तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनःसु निष्कृतिम् ।।
स तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् ।। ३३ ।।
अतोऽन्यतममास्थाय विधिं विप्रः समाहितः ।।
ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ।।३४।।
हत्वा गर्भमविज्ञातं चैतदेवव्रतं चरेत्।।
राजन्यवैश्यौ चेज्ज्ञानावात्रेयीमेव च स्त्रियम् ।।३५।।
उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरूंस्तथा ।।
अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ।। ३६ ।।
इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ।।
कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ।। ३७ ।।
सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरां पिबेत् ।।
तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः।। ।।३८।।
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ।।
पयो घृतं वा मरणाद्गोशकृद्रसमेव वा ।। ३९ ।।
कणान्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ।।
सुरापानोपनोदार्थं वालवासा जटी ध्वजी ।। 3.234.४० ।।
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।।
तस्माद्ब्राह्मणराजन्यौ वैश्यस्तु न सुरां पिबेत् ।। ४१ ।।
गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ।।
यथैवैका तथैवान्या न पातव्या द्विजातिभिः ।। ४२ ।।
यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ।।
तद्ब्राह्मणेन नाक्तव्यं देवानामश्नता हविः ।। ४३ ।।
अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् ।।
अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः ।। ४४ ।।
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।।
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ।। ४५ ।।
एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।।
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ।। ४६ ।।
सुवर्णस्तेयवान्विप्रो राजानमभिगम्य तु ।।
स्वकर्म ख्यापयन्ब्रूयाद्भवान्मामनुशास्त्विति ।। ४७ ।।
गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ।।
वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा ।। ४८ । ।
तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् ।।
चीरवासा द्विजोरण्ये चरेद्ब्रह्महणो व्रतम् ।। ४९ ।।
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।।
गुरुस्त्रीगमनीयं तु व्रतैरेतैरपानुदेत् ।। 3.234.५० ।।
गुरुतल्प्यभिभाष्यैनः कुंभे स्वप्यादयोमये ।।
सूर्मीं ज्वलन्तीं वाश्लिष्य मृत्युना स विशुध्यति ।। २३ ।।
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ ।।
नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ।। ५२ ।।
खट्वांगी चीरवासा वा श्मश्रुलो विजने वने ।।
प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ।। ५३ ।।
चान्द्रायणं वा त्रीन्मासानभ्यसेन्नियतेन्द्रियः ।।
हविष्येण यवाग्वाहवा गुरुतल्पापनुत्तये ।। ५४ ।।
एभिर्व्रतैरपोहेयुर्महापातकिनो मलान् ।।
उपपातकिनस्त्वेवं विविधैर्नियमैरपि ।। ५५ ।।
उपपातकसंयुक्तो गोघ्नो मासं यवान्पिबेत् ।।
कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ।। ५६ ।।
चतुर्थकालमश्नीयादक्षारलवणं मितम् ।।
गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ।। ५७ ।।
दिवानुगच्छेत्ता गास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् ।।
शुभ्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ।। ५८ ।।
तिष्ठन्तीष्वेव तिष्ठेत चरन्तीष्वप्यनुव्रजेत् ।।
आसीनासु तथासीत नियतो वीतमत्सरः ।। ५९ ।।
आतुरामभिशस्तां वा सिंहव्याघ्रादिभिर्भयैः ।।
पतितां पंकमग्नां च सर्वप्राणैर्विमोचयेत् ।। 3.234.६० ।।
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ।।६१।।
आत्मनो यदि वान्येषां गेहे क्षेत्रेऽथ वा खले ।।
भक्षयन्तीं न कथयेत्पिबन्तीं चैव वत्सकम् ।। ६२ ।।
अनेन विधिना यस्तु गोघ्नो गा अनुगच्छति ।।
स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ।। ६३ ।।
वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः ।।
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ।। ६४ ।।
एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः ।।
अवकीर्णिविशुद्ध्यर्थं चान्द्रायणमथापि वा ।।६५।।
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे।।
पाकयज्ञविधानेन यजेत निर्ऋतिं निशि।।६६।।
हुत्वाग्नौ विधिवद्धोमानन्ततश्च समित्यृचा ।।
वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः ।।६७।।
कामतो रेतसस्सेकं व्रतस्थस्य द्विजन्मनः ।।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ।। ६८ ।।
मरुतः पुरुहूतं च गुरुं पावकमेव च ।।
चतुरो व्रतिऽनोभ्येति ब्राह्मं तेजोऽवकीर्णिनः ।। ६९ ।।
एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।।
सप्तागारांश्चरेद्भैक्ष्यं स्वकर्म परिकीर्तयेत्।। 3.234.७० ।।
तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम् ।।
उपस्पृशंस्त्रिषवणं चाब्देन स विशुद्ध्यति ।।७१।।
जातिभ्रंशकरं कर्म कृत्वान्यतममिच्छया ।।
चरेत्सान्तपनं कृच्छ्रं प्राजापत्यमनिच्छ्रया ।।७२।।
सङ्करापात्रक्रृत्यासु मासं गोधनमैन्दवम् ।।
मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहम् ।। ७३ ।।
तुरीयं ब्रह्महत्यायाः क्षत्त्रियस्य वधे स्मृतम् ।।
वैश्येऽष्टमांशं वृत्तस्थे शूद्रे ज्ञेयं तु षोडशम्।। ७४ ।।
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।।
वृषभैकं सहस्रं गा दद्याच्छुद्ध्यर्थमात्मनः।।७५।।
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ।।
वसन्दूरतरे ग्रामे वृक्षमूलनिकेतनः ।।७६।।
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।।
प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वै शतकं गवाम् ।। ७७।।
एतदेव व्रतं कृत्स्नं षण्मासाञ्छूद्रहा चरेत् ।।
वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ।।७८।।
मार्जारनकुलं हत्वा चाषं मण्डूकमेव च।।
श्वगोधोलूककाकांश्च शूद्रहत्याव्रतं चरेत् ।।७९।।
पयः पिबेत्त्रिरात्रं वा योजनं वाध्वनो व्रजेत् ।।
उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ।।3.234.८०।।
अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः ।।
पलालभारकं शण्ढे सैसकं चैकमाषकम् ।। ८१ ।।
घृतकुम्भं वराहे तु तिलद्रोणन्तु तित्तिरौ ।।।
शुके द्विहायनं वत्सं कौञ्चं हत्वा त्रिहायणम्।।८२।।
हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।।
वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ।।८३।।।
वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषाँश्च वा ।।
अजमेषावनड्वाहं खरं हत्वैकहायनम् ।। ८४ ।।
क्रव्यादं तु मृगं हत्वा धेनुं दद्यात्पयस्विनीम् ।।।
अक्रव्यादं वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।।८५।।
जीनाकार्मुकवस्तावीन्पृथग्दयाद्विशुद्धये ।।
चतुर्णामपि वर्णानां नारीं हत्वा वनस्थिताम् ।।८६।।
दानेन वधनिर्णेकः सर्पादीनामशक्नुवन् ।।
एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये ।।८७।।
अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे।।
पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत।।८८।।
किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे ।।
अनस्थ्नां चैव सत्त्वानां प्राणायामो विशोधनम् ।।८९।।
फलदानां तु वृक्षाणां च्छेदने जप्यमृक्च्छतम् ।।
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ।।3.234.९०।।
अन्नाद्यजातसत्त्वानां रसजानां च सर्वशः ।।
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम्।। ९१।।
कृष्टजानामौषधानां जातानाञ्च स्वयं वने।।
वृथालम्भेनुगच्छेद्वा दिनमेकं पयोव्रतम्।।९२।।
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम्।।
ज्ञानाज्ञानकृतं कृत्स्नं शृणुतान्नाद्यभक्षणे ।।९३।।
अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुद्ध्यति।।
मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ।।९४।।
अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ।।
पञ्चरात्रं वसेत्पीत्वा शङ्खपुष्पीशृतं पयः ।।९५ ।।
स्पृष्ट्वा दत्त्वा च मदिरां विधिवन्प्रतिगृह्य च ।।
शूद्रोच्छिष्टाश्च पीत्वापः कुशवारि पिबेत्त्र्यहम्।।९६।।
ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः ।।
प्राणानप्सु त्रिराचम्य घृतं प्राश्य विशुद्ध्यति ।।९७।।
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः।।९८।।
वसनं मेखला दण्डं भैक्ष्यचर्या व्रतानि च ।।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ।।९९।।
अभोज्यानान्तु भुक्तान्नं स्त्रीशूद्रोच्छिष्टमेव च ।।
जग्ध्वा मांसमभोज्यं च सप्तरात्रं पयः पिबेत् ।। 3.234.१०० ।।
शुक्तानि च कषायाँश्च पीत्वामेध्यानपि द्विजः ।।
तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ।। १०१ ।।
विड्वराह खरोष्ट्राणां गोमायोः कापकाकयोः ।।
प्राश्य मूत्रपुरीषाणि द्वित्रिश्चान्द्रायणं चरेत् ।। १०२ ।।
शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि वा ।।
अज्ञातं चैव सूपस्थं चैतदेव व्रतं चरेत् ।। १०३ ।।
क्रव्यादसूकराणां च कुक्कुटानां च भक्षणे ।।
नरकाकखराणाञ्च तप्तकृच्छ्रं विशोधनम् ।। ।। १०४ ।।
मासिकान्नञ्च योऽश्नीयादवृत्त्या कर्षितो द्विजः ।।
स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ।। १०५ ।।
व्रतचारी तु योऽश्नीयान्मधुमासे कथञ्चन ।।
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ।। १०६ ।।
बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च।।
केशकीटावपन्नञ्च पिबेद्ब्राह्मसुवर्चलम् ।। १०७ ।।
अभोज्यमन्नं नात्तव्यं चात्मनः शुद्धिमिच्छता।।
अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्याशु शोधनैः ।। १०८ ।।
एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।।
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ।। १०९ ।।
धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः ।।
स्वजातीयगृहादेव कृच्छ्राब्देन विशुद्धति ।। 3.234.११० ।।
मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।।
कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ।। १११ ।।
द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः ।।
चरेत्सान्तपनं कृच्छ्रन्तन्निर्यात्यात्मशुद्धये ।। ११२ ।।
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।।
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम्।। ११३ ।।
तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ।।
चैलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनम् ।। ११४ ।।
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।।
अयःकांस्योपलानाञ्च द्वादशाहं कणान्नतः ।। ११५ ।।
कार्पासकीटजीर्णानां द्विशफैकशफस्य च ।।
पक्षिगन्धौषधीनाञ्च रज्ज्वाश्चैव त्र्यहं पयः ।। ११६ ।।
एभिर्व्रतैरपोह्येत पापं स्तेयकृतं द्विजः ।।
अगम्यगमनीयन्तु व्रतैरेभिरपानुदेत् ।। ११७ ।।
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु ।।
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च।।११८।।
पैतृष्वस्रेयां भगिनीं स्वस्रीयां मातुरेव च।।
मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत् ।।११९।।
एताः स्त्रियस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान्।।
ज्ञातित्वेनानुपेयास्ताः पतन्ति ह्युपयन्नधः ।।3.234.१२०।।
अमानुषीषु पुरुष उदक्यायामयोनिषु ।।
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।। १२१ ।।
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।।
गोयानेप्सु दिवा चैव सवासा स्नानमाचरेत् ।। १२२ ।।
चाण्डालान्त्य स्त्रियं गत्वा भुक्त्वा च प्रतिगृह्य च ।।
पतत्यज्ञानतो विप्रो ज्ञानात्साम्यन्तु गच्छति ।। १२३ ।।
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।।।
यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्।।१२४।।
सा चेत्पुनः प्रदुष्येत सदृशेनोपयन्त्रिता।।
कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ।।१२५।।
यत्करोत्यैकरात्रेण वृषलीसेवनं द्विजः ।।
तद्भैक्ष्यभुग्जपन्नित्यं त्रिभिर्वषैर्व्यपोहति ।।१२६।।
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ।।
पतितैः संप्रयुक्तानां चेमाः शृणुत निष्कृतीः ।। १२७ ।।
संवत्सरेण पतति पतितेन सहाचरन् ।।
याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ।। १२८ ।।
यो येन पतितेनैवं संसर्गं याति मानवः ।।
स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ।। १२९।।
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ।।
निन्दिते ऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ ।। 3.234.१३० ।।
दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ।।
अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ।। १३१ ।।
निवर्तयेरंस्तस्मात्तु सम्भाषणसहाशने ।।
दायादस्य प्रदानश्च यात्रामेव च लौकिके ।।१३२।।
ज्येष्ठता च निवर्त्तेत ज्येष्ठं वापि च यद्वसु ।।
ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ।। १३३।।
प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ।।
तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशय ।।१३४ ।।
स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।।
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ।। १३५ ।।
एतमेव विधिं कुयार्द्योषित्सु पतितास्वपि ।।
वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ।। १३६ ।।
एनस्विभिरनिर्णिक्तैर्नार्थं कञ्चित्समाचरेत् ।।
कृतनिर्णेजनाश्चैनान्न जुगुप्सेत कर्हिचित् ।।१३७।।
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।।
शरणागतहन्तॄँश्च स्त्रीहन्तॄँश्च न संवसेत्।।१३८।।
येषां द्विजानां सावित्री नानूच्येत यथाविधि ।।
ताँश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ।। १३९ ।।
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।।
ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ।। 3.234.१४० ।।
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।।
तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ।। १४१ ।।
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।।
मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ।। १४२ ।।
उपवासकृशन्तं तु गोव्रजात्पुनरागतम् ।।
प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ।। १४३ ।।
सत्यमुक्त्वा तु विप्रेभ्यो विकिरेद्यवसङ्गवाम् ।।
गोभिः प्रवर्तिते तीर्थे कुर्युस्तेऽस्य परिग्रहम् ।। १४४ ।।
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म व ।।
अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ।। १४५ ।।
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।।
संवत्सरं यवाहारस्तत्पापमपसेधति ।। १४६ ।।
श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।।
खराश्वोष्ट्रैर्वराहैश्च प्राणायामेन शुद्ध्यति ।। १४७।।
षष्ठान्नकालता मासं संहिताजप एव वा ।।
होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ।। १४८ ।।
उष्ट्रयानं समारुह्य खरयानञ्च कामतः ।।
स्नात्वा च विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति ।। १४९ ।।
विनाद्भिरप्सु वाप्यन्तः शरीरे संनिवेश्य तु ।।
सचैलो बहिराप्लुत्य गामालभ्य विशुद्ध्यति ।। 3.234.१५० ।।
वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ।। ।। १५१ ।।
हुङ्कारं ब्राह्मणस्योक्ता त्वङ्कारं तु गरीयसः ।।
स्नात्वानश्नन्नहःशेषं चाभिवाद्य प्रसादयेत् ।। १५२ ।।
ताडयित्वा तृणेनापि कण्ठे बद्ध्वा च वाससा ।।
विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ।। १५३ ।।
अवगूर्य त्वब्दशतं सहस्रमभिहन्य तु ।।
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ।। १५४ ।।
शोणितं यावतः पांसून्संगृह्णाति द्विजन्मनः ।।
तावन्त्यब्दसहस्राणि तत्कर्त्ता नरकं वसेत् ।। १५५ ।।
अवगूर्याचरेत्कृच्छ्रमतिकृच्छ्रं निपातने ।।
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ।। १५६ ।।
वेदाभ्यासोन्वहं शक्त्या महायज्ञक्रिया क्षमा ।।
नाशयन्त्याशु पापानि महापातकजान्यपि ।। १५७ ।।
यथैव तेजसा वह्निः प्राप्तान्निर्दहति क्षणात् ।।
तथा ज्ञानाग्निना पापं कृत्स्नं दहति वेदवित् ।। १५८ ।।
पापानुबन्धं पुरुषस्य शक्तिं देशं च कालं च तथा विदित्वा ।।
अनुक्तशुद्धिः प्रविचार्य देया उक्ते तथैतच्च निरूपणीयम् ।।१५९।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतासु प्रायश्चित्तवर्णनो नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ।। २३४ ।।
3.235
हंस उवाच ।।
इत्येतदेनसामुक्तं प्रायश्चित्तं यधाविधि ।।
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ।। १ ।।
सव्याहृतीकाप्रणवाः प्राणायामास्तु षोडश ।।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ।। २ ।।
कौत्सं जप्त्वाज इत्येतद्वासिष्ठं च त्र्यृचं प्रति ।।
माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ।। ३ ।।
सकृज्जप्त्वास्यवामीयं शिवसंकल्पमेव च ।।
अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ।। ४ ।।
हविष्मन्तीयमभ्यस्य न तमंह इतीति च ।।
जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ।। ५ ।।
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ।।
अपेत्यृचं जपेदब्दं यत्किञ्चेदमितीति च ।। ६ ।।
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।।
जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ।।७ ।।
सोमारौद्रं तु बह्वेना मासमभ्यस्य शुध्यति ।।
स्रवन्त्यामाचरन्स्नानमर्यम्णमिति च त्यृचम् ।। ८ ।।
अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् ।।
अप्रशस्तन्तु कृत्वाप्सु मासमासीत भैक्ष्यभुक् ।। ९ ।।
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ।।
सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ।। 3.235.१० ।।
उपपातकसंयुक्तोनुगच्छेद्गाः समाहितः ।।
अभ्यस्याब्दं पावमानीर्भैक्ष्याहारो विशुध्यति ।। ११ ।।
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ।।
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ।। १२ ।।
त्र्यहं तूपवसेद्यस्तु त्रिरह्नोभ्युपयन्नपः ।।
मुच्यते पातकैः सर्वैस्त्रिजपित्वाघमर्षणम् ।। १३ ।।
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः ।।
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ।। १४ ।।
यद्वाचिकं तस्य परस्य पुंसो यस्मिन्निबद्धं भुवनं समग्रम् ।।
जपन्तमोङ्कारमतन्द्रितात्मा पापानि शीघ्रं प्रजहाति मर्त्यः ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय वज्रसंवादे हंसगीतासु रहस्यप्रायश्चित्तवर्णनो नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ।। २३५ ।।