विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २२६-२३०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २२१-२२५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २२६-२३०
वेदव्यासः
अध्यायाः २३१-२३५ →

3.226
वज्र उवाच ।।
विष्णुना देवदेवेन हंसरूपेण किं कृतम् ।।
एनं मे संशयं छिन्धि मार्कण्डेय महामुने ।।१।।
मार्कण्डेय उवाच ।।
आसीत्प्रजा ज्ञाननिष्ठा पूर्वं कृतयुगे नृप ।।
जनानां ज्ञाननिष्ठत्वात्तदा यदुकुलोद्वह ।। २ ।।
स्वयं प्रभुत्वमभवत्तथा देवगणानि च ।।
तथा कृतयुगस्यान्ते प्रावर्तन्त परिग्रहे ।।३।।
परिग्रहात्ततो लोभो लोभाद्द्वेषोऽभवत्ततः ।।
रागद्वेषाभिभूतानां ज्ञानमन्तरधीयत ।। ४ ।।
नष्टज्ञाने तथा लोके धर्मो नाशमुपागमत् ।।
धर्मे नष्टे तु नश्यन्तं दृष्ट्वा लोकं जनार्दनः ।। ५ ।।
भूत्वा हंसस्समो वर्णे विजहार महीमिमाम् ।।
सुपक्षो देवचरणः सुचञ्चुः स्वायतेक्षणः ।। ६।।
स सदर्श तदा देशे कस्मिंश्चित्संस्थितानृषीन् ।।
ध्यायन्तो मूढविज्ञानाः किंकर्तव्यपरायणाः ।।७।।
स तान्दृष्ट्वा तु पप्रच्छ तेषां कुशलमव्ययम् ।।
ते तमूचुः कुतो नष्टे ज्ञाने नः कुशलं द्विज ।। ८ ।।
तानब्रवीन्मुनीन्सर्वान्स हंसः पक्षिराट् ततः ।।
ज्ञानं प्रकाशयिष्यामि तं निबोधत सत्तमाः ।। ९ ।।
एतच्छ्रुत्वा शुभं वाक्यं हंसेनोक्तं महात्मना ।।
हंसमूचुर्महात्मानो भव त्राता द्विजोत्तम ।। 3.226.१० ।।
ज्ञाननाशेन सकलं मा नश्यत्वखिलं जगत ।।
आदावेव त्वमात्मानं ब्रूह्यस्माकं महाखग ।। ११ ।।
वयं हि भ्रष्टविज्ञानास्त्वां न विद्मो महाद्युते ।।
तानब्रवीद्द्विजान्हंसो विष्णुरस्मि द्विजोत्तमाः ।। ।। १२ ।।
तं ते ज्ञात्वा तदा विष्णुं पूजयामासुरञ्जसा ।।
अब्रुवंश्च तथा ज्ञानं यथोक्तं तेन यादव ।। १३ ।।
ददुश्च गूढं शिष्येभ्यो नाशभीतास्तथा परम्।।
ततः प्रभृति लोकोऽस्मिञ्ज्ञानिनः केचिदेव तु ।। १४ ।।
एवं कृत्वा विष्णुना हंसरूप ज्ञानं नष्टं विप्रमुख्येषु दत्तम् ।।
ज्ञाने प्राप्ते भूतले नष्टशोकाः सर्वे चासन्विप्रमुख्या नृवीर ।। १५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां हंसप्रादुर्भाववर्णनोनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ।।२२६ ।।
3.227
वज्र उवाच ।।
किमुक्तं तेन हंसेन ऋषीणां भावितात्मनाम् ।।
एतं मे संशयं छिन्धि भृगुवंशविवर्धन ।।१।।
मार्कण्डेय उवाच ।।
बहूक्तं तेन हंसेन चर्षीणां भावितात्मनाम् ।।
तस्मात्किञ्चिदहं वक्ष्ये तन्मे निगदतः शृणु ।। २ ।।
ऋषय ऊचुः ।।
वर्णानामाश्रमाणां च ब्रूहि धर्मं द्विजोत्तम।।
तथा भक्ष्यमभक्ष्यं च शौचाशौचं तथैव च।।३।।
हंस उवाच।।
यजनं याजनं दानं विशिष्टश्च प्रतिगृहः ।।
अध्यापनमध्ययनं विप्रकर्म प्रकीर्तितम् ।। ४ ।।
दानमध्ययनं यज्ञः पाशुपाल्यं वणिक्क्रिया ।।
अमात्सर्यं च धर्मज्ञ धर्मस्साधारणो मतः ।। ५ ।।
आनुलोम्येन वर्णानां जातिर्मातृसमा भवेत् ।।
प्रतिलोमोद्भवाः सर्वे भवन्त्यार्यविगर्हिताः।।६।।
सूतो वैदेहकश्चैव चाण्डालश्च द्विजोत्तमाः।।
विज्ञेया ब्राह्मणीपुत्राः क्षत्रविट्शूद्रयोनितः ।। ७ ।।
मागधः पुक्कसश्चैव विट्शूद्रैः क्षत्त्रियासुतौ ।।
आयोगवश्च वैश्यायां शूद्रपुत्रः प्रकीर्तितः ।। ८ ।।
अन्ये वक्तुं न शक्यन्ते सङ्करात्सङ्करोद्भवाः ।।
विवाहः सदृशश्चैषां नोत्तमैर्नाधमैः सह ।। ९ ।।
सूतानामश्वसारथ्यं मागधानां स्तुतिक्रिया ।।
वैदेहः स्यात्तन्त्रिजीवः पुक्कसानां च व्याधता ।। 3.227.१० ।।
आयोगवस्य शिल्पानि रंगावतरणं तथा ।।
चण्डालानामसंस्पर्शस्तथा वैधव्यगामिता ।। ।। ११ ।।
गोब्राह्मणार्थे समरे हतानां स्त्रीबालहेतोर्यदि वाप्यशेषम् ।।
स्वाम्यर्थकार्यं यदि वा प्रकुर्वतां सिद्धिः प्रदिष्टा न हि संशयोऽत्र ।। १२ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां वर्णधर्मवर्णनो नाम सप्तविंशदुत्तरद्विशततमोऽध्यायः ।। २२७ ।।
3.228
हंस उवाच ।।
उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।।
आचारमग्निकार्यं च सन्ध्योपासनमेव च ।। १ ।।
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः ।।
अभिगम्य गुरोः कुर्यात्प्रयतस्त्वभिवादनम् ।। २ ।।
अनुज्ञातस्तु गुरुणा ततोध्ययनमाचरेत् ।।
भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ।। ३ ।।
गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ।।
हितप्रिये गुरोः कार्ये भक्त्याहङ्कारवर्जितः ।। ४ ।।
मधुमांसाञ्जनं श्राद्धं नृत्तं गीतं च साहसम् ।।
हिंसा परापवादं च मण्डनं च विवर्जयेत् ।। ५ ।।
मेखलामजिनं दण्डं धारयेत्प्रयतः सदा ।।
विनष्टान्यप्सु विक्षिप्य तथान्यानपि धारयेत् ।। ६ ।।
अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ।।
एवं व्रतस्तु कुर्वीत वेदस्वीकरणं बुधः ।। ७ ।।
गुरवे वचनं दत्त्वा स्नायाच्च तदनुज्ञया ।।
आशरीरविमोक्षाद्वा वसद्गुरुकुले द्विजाः।।८।।
एवं व्रतान्ते गुरुवे च दत्त्वा वरं यथावत्परिपूर्णविद्यः।
गृहाश्रमी स्याद्विधिवद्दिजेन्द्रो यात्रास्यलोकद्वितीयं प्रदिष्टम् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे हंसगीतायां ब्रह्मचारिव्रतवर्णनो नामाष्टाविंशदुत्तरद्विशततमोऽध्यायः ।।२२८।। ।।
3.229
।। हंस उवाच ।। ।।
ततो गृहाश्रमे तिष्ठन्नग्नीनाधाय धर्मवित् ।।
कृत्वा विवाहं विधिवद्धर्मेण च धनागमम् ।। १ ।।
त्रिवर्गं तत्र सेवेत यज्ञैश्च विविधैर्यजेत् ।।
आचारपालनं कुर्याद्वेदाध्ययनमेव च ।। २ ।।
उत्सर्गं छन्दसां कुर्याच्छुक्लान्ते श्रावणस्य च ।।
पौषमासस्य रोहिण्यामुपाकर्म विधीयते ।। ३ ।।
उत्सर्गानन्तरं वेदं नाधीयीत कदाचन ।।
तत्रापि शास्त्राध्ययनं द्विजातीनां विधीयते ।। ४ ।।
यत्नः कार्यः पूजने चातिथीनां चैतत्कार्यं सर्वकालं गृहस्थैः ।।
नान्यो धर्मो विद्यते तस्य विप्राश्चैतद्धर्मं तस्य श्रेष्ठं प्रदिष्टम् ।।५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे हंसगीतायां गृहस्थधर्मवर्णनो नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ।। २२९ ।।
3.230
हंस उवाच ।।
कीनाशबद्धचौराणां क्लीबरङ्गावतारिणाम् ।।
पतितव्रात्यदुष्टानां तथा बन्धनरक्षिणाम् ।। १ ।।
उदक्याविधवावापपाषण्डवधजीविनाम् ।।
चिकित्साजीवकव्याधपुंश्चलीनृपविद्विषाम् ।।२ ।।
चर्मकारायुधाजीविशस्त्रविक्रयकारिणाम् ।।
चैलधावनृशंसार्तस्त्रीजितग्रामयाजिनाम् ।। ३ ।।
तुन्नवायकदम्बस्य कूटकृच्छूद्रयाजिनाम् ।।
एषामन्नं न भोक्तव्यं यश्च दद्यादनर्चितम् ।। ४ ।।
पर्यायान्नं क्षुतं चैव संघुष्टं पतितेक्षितम् ।।
शुल्कं पर्युषितोच्छिष्टं तथा चोच्छिष्टजीविनः ।। ५ ।।
उदक्यया तथा स्पृष्टं यच्च घ्रातं गवा शुना ।।
केशकीटावपन्नं च पक्षिजग्धं तथैव च ।। ६ ।।
दासार्धसीरि गोपाल नापितान्नं तथाविनाम् ।।
शूद्रस्यान्नं तथा श्राद्धमात्मविक्रयिणस्तथा ।। ७ ।।
अन्नं पर्युषितं भोज्यं स्नेहाक्तं रागषाण्डवत् ।।
निस्नेहा अपि गोधूमयवपौराणनिम्बकाः ।। ८ ।।
अजागोमहिषीवर्ज्यं सर्वाण्यपि पयांसि च ।।
अनिर्दशाहं तेषां वै विवत्सायाश्च गोस्तथा ।। ९ ।।
कपिञ्जलस्तित्तिरिश्च मयूरो लावकस्तथा ।।
एते हि पक्षिणो भक्ष्या न तु शेषाः कथञ्चन ।। 3.230.१० ।।
शशकः शल्यको गोधा खड्गः कूर्मस्तथैव च ।।
भक्ष्याः पञ्चनखेष्वाहुरभक्ष्याश्चोभयादतः ।। ११ ।।
सर्वे चैकशफा वर्ज्यास्तथा ज्ञाता मृगद्विजाः ।।
लशुनं गृञ्जनं चैव पलाण्डुकवकानि च ।। १२ ।।
लोहितान्वृक्षनिर्यासाञ्शिग्रुश्लेष्मातकं तथा।।
अभक्ष्याणि द्विजातीनां खुर्खण्डानि तथैव च ।। १३ ।।
वृथा कृसरसंयावपायसापूपशष्कुलीः ।।
अनुपाकृतमांसानि देवान्नानि हवींषि च ।। १४ ।।
मांसाशनं नैव बुधस्तु कुर्याद्वृथा द्विजेन्द्रा नरकस्य हेतुम् ।।
मांसं हि यो नात्ति स याति नाकं लोके तथास्मिन्सुखसङ्गतिः स्यात् ।। १५ ।। इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां भक्ष्याभक्ष्यवर्जनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः ।। २३० ।।