विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २२१-२२५

विकिस्रोतः तः
← अध्यायाः २१६-२२० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २२१-२२५
वेदव्यासः
अध्यायाः २२६-२३० →

3.221
।। वज्र उवाच ।।
किं नु कृत्यतमं लोके मनुष्याणां प्रकीर्तितम् ।।
एतत्पृष्टो ममाचक्ष्व सर्वधर्मभृतां वर ।। १।।
मार्कण्डेय उवाच ।।
अन्तर्वेदि बहिर्वेदि पूजा कार्या दिवौकसाम् ।।
एतत्कृत्यतमं लोके पुरुषस्य विपश्चितः ।। ।। २ ।।
अन्तर्वेद्यां च यजनं बहुवित्तस्य कीर्तितम्।।
स्वल्पवित्तस्य धर्मज्ञ बहिर्वेदि प्रकीर्तितम् ।। ३।।
पुष्पान्नगन्धनैवेद्यस्तोत्राध्ययनकर्मणा ।।
धूपदीपनमस्कारैर्नित्यं पूज्या दिवौकसः ।।४।।
ततोऽपि नियमैश्चैव ब्राह्मणानां च तर्पणैः ।।
बहिः शुश्रूषया चैव दानेन विविधेन च।। ५ ।।
सदैव पूजिता देवास्तुष्टिमायान्ति यादव ।।
स्वेस्वे कालविशेषेण कालः पूर्वोदितो मया ।। ६ ।।
वज्र उवाच ।।
देवताः काश्च कस्मिन्नु काले संपूजयेत्सदा ।।
देवतापूजने कार्यं विशेषान्मम कीर्तय ।। ७ ।।
मार्कण्डेय उवाच ।।
कालं तथाहं वक्ष्यामि देवतापूजने पृथक् ।।
संवत्सरेण धर्मज्ञ सोपवासस्य सर्वदा ।। ८ ।।
ब्रह्माणं पूजयेद्देवं सततं प्रथमेहनि ।।
पक्षद्वये महाभाग पञ्चदश्यामुपोषितः ।। ९ ।।
संवत्सरेण धर्मज्ञ विद्याद्बहुसुवर्णकम्।।
हंसयुक्तेन यानेन ब्रह्मलोके च गच्छति।।3.221.१०।।
चैत्रमासस्य या शुक्ले प्रथमा प्रतिपद्भवेत्।
तदह्नि ब्रह्मणः कृत्वा सोपवासस्तु पूजनम्।।११।।
संवत्सरमवाप्नोति सौख्यानि भृगुनन्दन ।।
कालस्यावयवाः सर्वे तस्मिन्नहनि पूजिताः।।१२।
ग्रहर्क्षाणि च धर्मज्ञ सौख्यं दद्यादनुत्तमम्।।
संवत्सराधिपं नागं तस्मिन्नहनि पूजयेत्।।१३।।
ग्रहेभ्यः सौख्यमाप्नोति स्वास्थ्यमग्र्यं तथैव च।।
तत्राह्नि ब्रह्मणा सृष्टं त्रैलोक्यं प्रथमं द्विज।।१४।।
दक्षं प्रजापतिं नित्यं द्वितीयायामथार्चयेत् ।।
फलमाप्नोति धर्मज्ञ गोसवस्य न संशयः ।।१५।।
तथा नासत्ययोः कृत्वा तस्मिन्नहनि पूजनम् ।।
नित्यमारोग्यमाप्नोति तथा रूपं च भार्गव।।१६।।
शुक्लपक्षद्वितीयायां बालचन्द्रस्य पूजनम्।।
कृत्वा दत्त्वा च लवणं प्राग्रात्रौ सुभगो भवेत्।।१७।।
साध्या द्वादश ये प्रोक्तास्तेषां कृत्वा तु पूजनम्।।
तृतीयस्यां महाभाग द्वादशाहफलं लभेत्।।१८।।
तृतीयायां तथाभ्यर्च्य ब्रह्मविष्णुमहेश्वरान्।।
पृथक्पृथङ्महाभाग त्रिवर्गफलभाग्भवेत ।। ।। १९।।
त्रींल्लोकांश्च तदा राम सम्यक्संपूजयेन्नरः ।।
ऐश्वर्यं महदाप्नोति गतिमग्र्यां च विन्दति ।।3.221.२०।।
तृतीया श्रावणे कृष्णा या स्याच्छ्रवणसंयुता ।।
तस्यां संपूज्य गोविन्दं पुष्टिमग्र्यामवाप्नुयात् ।।२१।।
वैशाखशुक्लपक्षे तु तृतीयायामुपोषितः।।
अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य तु ।। २२।।
सा तथा कृत्तिकोपेता विशेषेण च पूजिता ।।
तत्र दत्तं हुतं तप्तं सर्वं सफलमुच्यते ।। २३ ।।
अक्षया सा तिथिर्यस्मात्तस्मात्सुकृतमक्षयम् ।।
अक्षतैः पूज्यते विष्णुस्तेन साप्यक्षता स्मृता ।।२४।।
अक्षतैस्तु नरः स्नातो विष्णोर्दत्त्वा तथाक्षतान् ।।
सक्तून्सुसंस्कृताँश्चैव हुत्वा चैव तथाक्षतान् ।। २५।।
विप्रेषु दत्त्वा तानेव तथा सक्तुं सुसंस्कृतम् ।।
यवान्नभुङ् महाराज फलमक्षय्यमश्नुते ।।२६ ।।
एकामप्युक्तवत्कृत्वा तृतीयां भृगुनन्दन ।।
एषामब्दतृतीयानां सर्वासां तत्फलं भवेत् ।।२७।।
प्रोक्तास्तु भृगवो नाम देवा द्वादश ये पुरा ।।
चतुर्थ्यां पूजनं तेषां कृत्वा दिवमवाप्नुयात् ।। २८ ।।
यमस्य पूजनं कृत्वा चतुर्थ्यामेव धार्मिकः ।।
नाप्नोति नारकं दुःखं तुष्टे रविसुते नरः ।। २९ ।।
विनायकमथाभ्यर्च्य चतुर्थ्यां यदुनन्दन ।।
सर्वविघ्नविनिर्मुक्तः कार्यसिद्धिमवाप्नुयात् ।। 3.221.३० ।।
निद्रां रतिं तथा श्रद्धां कीर्तिं मेधां सरस्वतीम् ।।
प्रज्ञां तुष्टिं तथा कान्तिं तस्मिन्नहनि पूजयेत् ।। ३१ ।।
तत्प्रसादमवाप्नोति यथेष्टं मनुजोत्तम ।।
विद्याकामो विशेषेण पूजयेत्तु सरस्वतीम् ।। ३२ ।।
देवानां मातरः सर्वास्तथा तत्राह्नि पूजिताः ।।
सर्वकामप्रदा ज्ञेयाः पुरुषस्य विपश्चितः ।। ३३ ।।
पञ्चम्यां पूजनं कृत्वा तथा चन्द्रमसो नरः ।।
सौभाग्यं महदाप्नोति यशश्चाग्र्यं च विन्दति ।। ३४ ।।
पञ्चम्यां पृथिवीं देवीं तथा सम्पूजयेन्नरः ।।
तामेवाप्नोत्ययत्नेन नात्र कार्या विचारणा ।। ३५ ।।
विश्वेदेवास्तु ये प्रोक्ताः पूर्वमेव मया दश ।।
तेषां सम्पूजनं कृत्वा पञ्चम्यां दिवमाप्नुयात् ।। ३६ ।।
इष्टगन्धर्वमभ्यर्च्य पञ्चम्यां सुभगो भवेत् ।।
तथा चित्ररथं तेषां राजानं च विशेषतः ।। ३७ ।।
देवभार्यां तथा भार्यां सम्पूज्य सुभगो भवेत् ।।
इष्टमप्सरसं चैव तथा रूपमवाप्नुयात् ।। ३८ ।।
इष्टं नागं तथाभ्यर्च्य श्रियमाप्नोत्यनुत्तमाम् ।।
वारुणैः पुष्करस्यार्चां पञ्चम्यां यः समाचरेत् ।। ३९ ।।
सर्वकामसमृद्धस्य सोमयज्ञफलं भवेत् ।।
तथा च पूजयन्राजंस्तथा वै नलकूबरम् ।। 3.221.४० ।।
श्रियः सम्पूजनं कृत्वा पञ्चम्यां प्रयतः सदा ।।
श्रियमाप्नोति विपुलां मतिमग्र्यां च विन्दति ।। ४१।।
चैत्रशुक्लस्य पञ्चम्यां पूजयित्वा तथा श्रियम्।।४२।।
सकृदेवाप्नुयाद्राजन्फलं संवत्सरोदितम् ।।
सर्वस्यां नृप पञ्चम्यां रतिं प्रीतिं सरस्वतीम्।।४३।।
उमां मेनां भद्रकालीं तथा कात्यायनीमपि ।।
धृतिं स्वाहां सुधामृद्धिमनुसूयां तथा क्षमाम्।।४४।।
सुभीमां देवसेनां च वेलां ज्योत्स्नां तथा शचीम्।।
गौरीं वरुणपत्नीं च यमपत्नीं तथैव च ।। ४५ ।।
धूमोर्णां सुमहाभागां मृत्युच्छायां तथैव च ।। ४६ ।।
अभीष्टां देवजननीं देवपत्नीं तथैव च ।।
पूजयन्काममाप्नोति तस्या ह्येकमसंशयम् ।।
ऐरावतं वा गरुडमुच्चैःश्रवसमेव वा।।४७।।
हरस्य वृषभं चैव शस्त्राण्यस्त्राणि यानि च।।
तदा सम्पूजयन्राजा विजयं तमुपाश्नुते ।।४८।।
तथा भाद्रपदे मासि शुक्लपक्षस्य पञ्चमीम् ।।
नागसंपूजनं कृत्वा धनभागी भवेन्नरः ।। ४९ ।।
कुमारश्च तथा स्कन्दो विशाखश्च गुहस्तथा ।।
चतुरात्मा विनिर्दिष्टो भगवान्क्रौञ्चदारणः।। 3.221.५० ।।
तमभ्यर्च्य नरः षष्ठ्यां पुत्रानाप्नोत्यभीप्सितान् ।।
बालकानां गृहे श्रेयो नरः प्राप्नोत्यसंशयम् ।। ५१ ।।
ऋतूनां पूजनं कृत्वा तत्र क्षेममवाप्नुयात् ।।
स्कन्दपार्श्वचरान्राजन्भीमपार्श्वचरांस्तथा ।। ५२ ।।
यमपार्श्वचराँश्चैव रोगमुक्तिमवाप्नुयात् ।।
कालपाशौ तथाभ्यर्च्य ज्वरव्याधीशमेव च ।। ५३ ।।
रोगमोक्षमवाप्नोति वायुवह्नीन्दवस्तथा ।।
चैत्रषष्ठ्यां विशेषेण स्कन्दमभ्यर्चयेन्नरः।।५४।।
पूर्वोक्तफलमाप्नोति स्वर्गलोकं च गच्छति ।।
सप्तम्यां च समभ्यर्च्य सूर्यपत्नीं सुवर्चलाम् ।।५५।।
इष्टान्कामानवाप्नोति नात्र कार्या विचारणा ।।
देवा एकोनपञ्चाशन्मरुतो नाम कीर्तिताः ।। ५६ ।।
तेषां संपूजनं कृत्वा सप्तम्यां दिवमाप्नुयात् ।।
इष्टपूजां च शैलस्य तदा कृत्वा सुखी भवेत् ।। ५७ ।।
पूजयित्वा तथाभीष्टां सरितं पुण्यभाग्भवेत् ।।
वह्निसंपूजनं कृत्वा वह्निष्टोमफलं लभेत् ।। ५८ ।।
वायोः संपूजनं कृत्वा प्राप्नोति परमाङ्गतिम् ।।
संपूज्य च ऋषीन्सप्त सोमसंस्थास्तु ये स्मृताः ।। ५९ ।।
सप्त प्राप्नोति लोकान्वै गतिमग्र्यां च विन्दति ।।
सप्तम्यां यदुशार्दूल इष्टमभ्यर्चयन्मुनिम् ।। 3.221.६० ।।
स्वाध्यायफलमाप्नोति तद्वत्साफल्यमश्नुते ।।
पूजयित्वा समुद्रांश्च द्रीपानथ तथा नरः ।। ६१ ।।
पातालान्वा महाभाग भुवमाप्नोत्यभीप्सिताम् ।।
सप्तलोकांस्तथा तत्र पूजयित्वा सुखी भवेत् ।। ६२ ।।
तेष्वेव च तथैवाग्र्यां गतिमप्रतिमां लभेत् ।।
गङ्गां सप्तप्रकारां च तथा देवीं सरस्वतीम् ।। ६३ ।।
सप्तयज्ञानवाप्नोति नरः संपूजयन्ध्रुवम् ।।
आदित्यं पूजयेद्देवं शीघ्रं रोगैर्विमुच्यते ।। ६४ ।।
सप्तम्यां यादवश्रेष्ठ गतिमग्र्यां च विन्दति ।।
एवं सुपूजनं कृत्वा गतिमग्र्यां तथा लभेत् ।। ६५ ।।
जयन्तं शक्रतनयं पूजयित्वा सुखी भवेत् ।।
अष्टम्यां पूजनं कृत्वा वसूनां धर्मसत्तम ।। ६६ ।।
नाकलोकमवाप्नोति गतिमग्र्यां च विन्दति ।।
एकानंशां तदा देवीं तथा संपूजयेन्नरः ।। ६७ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
महादेवं समभ्यर्च्य सर्वान्कामानवाप्नुयात् ।। ६८ ।।
वीरभद्रं सनंदीशं लगुडेशं तथैव च।।
भद्रकालीं तथाभ्यर्च्य नवम्यां यदुनन्दन ।। ६९ ।।
काममेकमवाप्नोति यं कञ्चिन्मनसेप्सितम् ।।
चतुष्पथेषु रम्येषु तथैवाट्टालकेषु च ।। 3.221.७० ।।
गिरिशृङ्गेषु रम्येषु नदीतीरेषु चाप्यथ ।।
गुहासु चैव रम्यासु पिशाचानां बलिं हरेत् ।। ७१ ।।
शक्रादीनां च देवानां ये च पार्श्वचराः सुराः ।।
तेषां बलिमुपाकुर्वन्क्षेममाप्नोति मानवः ।। ७२ ।।
आयुधं पूजयित्वा च तथा विजयमाप्नुयात् ।।
विद्यामाप्नोति विपुलां पूजयित्वा सरस्वतीम् ।। ७३ ।।
विद्याकामस्तु कुर्वीत तदा पुस्तकपूजनम् ।।
तथैवाश्वयुजे शुक्ले भद्रकालीं विशेषतः ।। ७४ ।।
नवम्यां पूजयित्वा तु सर्वान्कामानवाप्नुयात् ।।
दशम्यां पूजयन्राजन्विश्वेदेवांस्तथा दश ।। ७५ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
तदा संपूजयन्राजंस्तथैव च दिशो दश ।। ७६ ।।
क्रियासाफल्यमाप्नोति यत्र यत्राभिजायते ।।
धर्मं संपूज्य देवेशं सर्वसत्त्वसुखावहम् ।। ७७ ।।
धर्मे मतिमवाप्नोति धर्मसाफल्यमेव च।।
एकादश्यां तु संपूज्य रुद्रानेकादशैव च ।। ७८ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते।।
तथा सर्वगतान्रुद्रांस्तदा सर्वत्र पूजयेत् ।। ७९ ।।
सर्वान्कामानवाप्नोति सर्वगानपराजितान् ।।
तथा च द्वादशादित्यान्द्वादश्यां पूजयेन्नरः ।। 3.221.८० ।।
द्वादशाहमवाप्नोति गतिमग्र्यां च विन्दति ।।
द्वादश्यां देवदेवेशं पूजयित्वा जलाधिपम् ।। ८१ ।।
पौण्डरीकमवाप्नोति वरुणं यादसां पतिम् ।।
सर्वदेवेश्वरं शक्रं पूजयित्वा तथा नरः ।। ८२ ।।
सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ।।
विष्णोः संपूजनं कृत्वा कामानाप्नोत्यभीप्सितान्।। ८३ ।।
इष्टयज्ञफलं प्राप्य गतिमग्र्यां च विन्दति ।।
त्रयोदश्यामथाभ्यर्च्य कामदेवं समर्चयेत् ।। ८४ ।।
अयत्नात्सर्वमाप्नोति फलं संवत्सरोदितम् ।।
यक्षाणां राक्षसानां च चतुर्दश्यां तु पूजनम् ।। ८५ ।।
कृत्वा क्षेममवाप्नोति क्रियासाफल्यमेव च ।।
पूजयित्वा धनाध्यक्षं तदा वैश्रवणं प्रभुम् ।। ८६ ।।
बहुवित्तमवाप्नोति फलं संवत्सरोदितम् ।।
शंख पद्मौ तथाभ्यर्च्य निधानौ यक्षपूजितौ ।। ८७ ।।
मणिभद्रं तथाभ्यर्च्य धनमाप्नोत्यसंशयम् ।।
पूजयित्वा महादेवं सर्वान्कामानवाप्नुयात् ।। ।। ८८ ।।
माघमासचतुर्दश्यां कृष्णपक्षे विशेषतः ।।
तथा पितॄन्गणान्राजन्क्षीणे चन्द्रे च पूजयेत् ।। ८९ ।।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।।
श्रद्धां कृत्वा तथा राजन्सर्वान्कामानवाप्नुयात् ।। 3.221.९० ।।
पूर्णमिन्दुं तथाभ्यर्च्य सौभाग्यं महदाप्नुयात् ।।
इष्टग्रहमथाभ्यर्च्य नक्षत्रमथ वार्चयेत् ।। ९१ ।।
तस्मात्क्षेममवाप्नोति कामं च यदुनन्दन ।।
मासनाम सनक्षत्र पूर्णिमायोगि यश्च वा।।९२।।
पूजयित्वा तथा राजन्सौभाग्यं महदाप्नुयात् ।।
सोपवासस्तु नक्षत्रं नक्षत्रेशमथार्चयेत् ।। ९३ ।।
नक्षत्रं वा महाभाग तस्मात्काममवाप्नुयात् ।।
कार्तिकेयं महाभाग कृत्तिकास्वर्चयेन्नरः ।। ९४ ।।
वह्निष्टोममवाप्नोति कुलं चैव समुद्धरेत् ।।
कृत्तिकासु तथाभ्यर्च्य खड्गं विजयमाप्नुयात् ।। ९५ ।।
भौजङ्गे नागमभ्यर्च्य श्रियं प्राप्नोत्यनुत्तमाम् ।।
कामदेवमथाभ्यर्च्य भाग्ये सौभाग्यवान्भवेत् ।। ९६ ।।
सावित्रं च तथा हस्ते श्रियं प्राप्नोत्यनुत्तमाम् ।।
इष्टग्रहाभितद्देहं तन्नामाध्यक्षसेवया ।। ९७ ।।
गन्धर्वं वा ग्रहं वापि तस्मात्कामानवाप्नुयात् ।।
कृष्णपक्षचतुर्दश्यां महाकालमथार्चयेत् ।। ९८ ।।
तस्मात्काममवाप्नोति यथेष्टं नात्र संशयः ।।
माहेश्वरं मातृगणं तथा तत्राग्निपूजनम् ।। ९९ ।।
एकवासान्तरं राजन्काममाप्नोत्यभीप्सितम् ।। 3.221.१०० ।।
तथा तुम्बरुसम्बद्धं पञ्चकं पूजयेन्नरः ।।
सर्वत्र जयमाप्नोति नात्र कार्या विचारणा ।। १०१ ।।
कृत्तिकासु नरोऽभ्यर्च्य स्कन्दपार्श्वचराँस्तथा ।।
आरोग्यं महदाप्नोति सदा वा मनसेप्सितम्।।१०२।।
नृसिंहप्रतिबद्धां तु पूर्णे चन्द्रे समर्चयेत्।।
नरो मातृगणं चार्च्य सर्वान्कामानवाप्नुयात्।।१०३।।
एकां वा मातरं राजन्कामानाप्नोत्यभीप्सितान् ।।
वानस्पत्यमवाप्नोति पूजयित्वा वनस्पतीन् ।। १०४ ।।
दैत्यानां दानवानां वा तत्पक्षा ये तथापरे ।।
तेषां संपूजनं कृत्वा चतुर्दश्यां सुखी भवेत् ।। १०५ ।।
करणे वा मुहुर्ते वा यथावद्देवमर्चयेत् ।।
तस्मात्काममवाप्नोति गतिमग्र्यां च विन्दति ।। १०६ ।।
चैत्रमासादथारभ्य यथोक्तेन नरः सदा ।।
इष्टं देवमथाभ्यर्च्य यथोक्तं फलमश्नुते ।। १०७ ।।
संवत्सरेण धर्मज्ञ नक्षत्रे यदि वा तिथौ ।।
ग्रहे वा सर्वधर्मज्ञ सोपवासस्समाहितः ।। १०८ ।।
संवत्सरे वाप्ययने ऋतौ मासे च तद्दले ।।
नक्ताशी सततं पूजां कृत्वा तत्स्वामिनः सदा ।।
तावत्कालं महाभाग तस्मात्काममवाप्नुयात् ।। १०९ ।।
चैत्रात्समारभ्य महानुभाव रोचेत रोचेशमथार्चयानः ।।
रोचेशतोषात्परमं स कामं प्राप्नोत्ययत्नाद्यदुवंशचन्द्र ।। 3.221.११० ।।
इति श्रीविष्णुध० तृ० ख० मा० सं० तिथ्युपवासदेवतार्चनवर्णनो नामैकविंशत्युत्तरद्वि शततमोऽध्यायः ।। २२१ ।।
3.222
वज्र उवाच ।।
भगवञ्श्रोतुमिच्छामि रोचेषु च पृथक्पृथक् ।।
उपोषितेन किं कार्यं किं फलं च तथा भवेत् ।। ।। १ ।।
मार्कण्डेय उवाच। ।।
इतिहासं तथात्रेमं निबोध गदतो मम ।।
धनाध्यक्षस्य संवादमष्टावक्रस्य चाप्यथ ।। २ ।।
अष्टावक्रः पुरा कन्यां प्रार्थयामास धर्मवित्।।
ऋषेर्भार्गवमुख्यस्य वदान्यस्य तु सुप्रभाम्।।३।।
रूपद्रविणसम्पन्नां स चोवाच मुनिं मुनिः।।
स्त्रीस्वभावो यदि ज्ञातस्त्वया धर्मविदां वर ।। ४ ।।
तत्तेऽहं तव दास्यामि कन्यां बालमृगेक्षणाम् ।।
।। अष्टावक्र उवाच ।। ।।
स्त्रीस्वभावो न विज्ञातो मया ब्राह्मणसत्तम ।। ५ ।।
कुतश्च तन्मया ज्ञातस्तन्ममाचक्ष्व पृच्छतः ।।
।। भार्गव उवाच ।। ।।
उत्तरां त्वं दिशं पश्य सा ते वक्ष्यति तत्त्वतः ।। ६ ।।
स्त्रीस्वभावं महाभाग गच्छ शीघ्रमतन्द्रितः ।।
।। मार्कण्डेय उवाच ।। ।।
एवमुक्तः स धर्मात्मा प्रययावुत्तरां दिशम् ।।७ ।।
गङ्गाद्वारात्क्रमेणाथ त्वरितो मुनिपुङ्गवः ।।
तीर्थानि सरितश्चैव शैलानि नगराणि च ।।८ ।।
विलङ्घ्य धनदावासमाससाद महातपाः ।।
कैलासे पर्वतश्रेष्ठे सर्वकामसमृद्धिमत् ।। ९ ।।
तत्रासीनं महाभागं स ददर्श धनाधिपम् ।।
वरासनगतं वीरं हारभाराञ्चितोदरम् ।। 3.222.१० ।।
वामभागे किरीटेन विनीतेन विराजितम् ।।
कुण्डलाभ्यां विचित्राभ्यां केयूरैरंगदैस्तथा ।। ११ ।।
गदाधरं महाकायमेकलोचनपिङ्गलम् ।।
तथा च शङ्खपद्माभ्यां निधिभ्यां च विराजितम् ।। १२ ।।
यक्षैश्च सुमहाभागैर्भीमरूपपराक्रमैः ।।
दीर्घभद्रेण वीरेण पूर्णभद्रेण चाप्यथ ।।१३।।
मणिभद्रेण वीरेण यक्षभद्रेण चाप्यथ ।।
दीर्घबाहुमहाबाहुपद्मकिंजल्कसृञ्जयैः ।। १४ ।।
स्वभद्रेण सुपार्श्वेन तथा मणिधरेण च ।।
यक्षैश्चान्यैश्च धर्मज्ञ महा बलपराक्रमैः ।। १५ ।।
नानावेशैश्च गन्धर्वैर्महासत्त्वैर्महाबलैः ।।
चित्राङ्गदश्चित्ररथश्चित्रसेनोऽथ तुम्बुरुः ।। १६ ।।
पूर्णायुरनघश्चैव तथा शालिशिराः प्रभुः ।।
शृङ्गारकर्णोऽतिबलो भीमो भीमपराक्रमः ।। १७ ।।
एते चान्ये च गन्धर्वास्तथैवाप्सरसः शुभाः ।।
उर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुसा १८ ।।
विश्वाची च घृताची च पञ्चचूडा मनोरमा ।।
एताभिश्च तथान्याभिर्देवस्त्रीभिः सहस्रशः ।। १९ ।।
स ददर्श धनाध्यक्षं समन्तात्परिवारितम् ।।
पादार्घ्याचमनीयाद्यैर्धनाध्यक्षेण पूजितः ।। 3.222.२० ।।
वरासनगतो राजंस्तुष्टाव धनदं प्रभुम् ।।
।। अष्टावक्र उवाच ।। ।।
नमोऽस्तु ते धनाध्यक्ष यज्ञाध्यक्ष नमोऽस्तु ते ।। २१ ।।
महाबाहो महासत्त्व राजराजामरप्रभो ।।
ऋषिसङ्घस्तुताचिन्त्य वाममौले वरप्रद ।।। ।। २२ ।।
पिङ्गाक्ष विपुलग्रीव देवेश नरवाहन ।।
गदाधर विशालांस सूर्यतेजःसमप्रभ ।। २३ ।।
भवाञ्छर्वसखो नित्यं विष्णोरंशस्तथा भवान् ।।
देवासुरेऽथ संग्रामे भवता विनिपातिताः ।। २४ ।।
बहवो दानवा वीरा महाबलपराक्रमाः ।।
लोकान्धारयसे सर्वांस्त्वमेको यक्षपार्थिवः ।। २५ ।।
भक्तानुकम्पी सततं चोत्तराशाप्रभुः प्रभुः ।।
धर्मसेतुर्जगत्यस्मिंस्त्वयि सर्वं प्रतिष्ठितम् ।। २६ ।।
मार्कण्डेय उवाच ।।
एवं धनाधिपेनोक्तः प्रत्युवाच महामुनिः ।।
धर्ममहाफलं त्वत्तः श्रोतुमिच्छामि वित्तप ।। २७।।
।। वैश्रवण उवाच ।। ।।
ब्रह्मन्स्वीयस्य च रुचौ देवतायाश्च पूजनम् ।।
धर्मं महाफलं विप्र तन्मे निगदतः शृणु ।। २८ ।।
सर्वेषु विप्र रोचेषु सोपवासो जितेन्द्रियः ।।
देवतापूजनं कृत्वा यथोक्तं फलमश्नुते ।। ।। २९ ।।
चैत्रशुक्लसमारंभाद्रोचे व्रतमनुत्तमम् ।।
रोचे यथेष्टं गृह्णीयात्संवत्सरमतन्द्रितः ।। 3.222.३० ।।
त्रिंशद्रोचानि विप्रेंद्र मासमेकं समाहितः ।।
संवत्सरेण नक्ताशी पूजयेद्रोचदेवताम् ।। ३१ ।।
प्रत्यहं सुमहाभाग तेन काममवाप्नुयात् ।।
आषाढमासे यः कुर्याद्रोचव्रतमनुत्तमम् ।। ३२ ।।
नक्तभोजी प्रतिदिनं चैककालाशनो द्विजः ।।
आहारकालादन्यत्र तोयपानं विवर्जयेत् ।। ३३ ।।
ब्राह्मरोचादथारभ्य यावद्रोचं तु पौरुषम् ।।
रोचे तु पौरुषे प्राप्ते कृत्वा ब्राह्मणतर्पणम् ।। ३४ ।।
वासांसि दत्त्वा विप्रेभ्यः सुवर्णं रजतं तथा ।।
स्वर्गलोकमवाप्नोति दीर्घकालं द्विजोत्तम ।। ३५ ।।
जन्म चासाद्य मानुष्यं रूपवानभिजायते ।।
विरोगो बलवान्नित्यं शत्रुजिद्बलवानपि ।। ३६ ।।
स्त्रियश्च मुख्याः प्राप्नोति कुले जन्म तथोत्तमे ।।
सौभाग्यं महदाप्नोति लावण्यमपि चोत्तमम् ।। ३७ ।।
सद्भिर्मैत्रीं तथा विद्यां धर्मे चैवोत्तमां गतिम् ।।
वाहनान्यपि मुख्यानि यश्चान्यदभिवाञ्छति ।। ३८ ।।
रोचेषु मासे सफलं तवोक्तं नक्ताशिनो देववरस्य विप्र ।।
अतः परं ते कथयामि रोचे पृथक्फलं सम्यगुपोषितस्य ।। ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डेमार्कण्डेयवज्रसंवादे रोचेषु मासोपवासफलनिरूपणोनाम द्वाविंशत्युत्तरशततमोऽध्यायः ।। २२२ ।। ।।
3.223
।। वैश्रवण उवाच ।। ।।
ब्राह्मे ब्रह्माणमभ्यर्च्य ब्रह्मलोकं प्रपद्यते ।।
अश्वमेधमवाप्नोति प्राजापत्ये प्रजापतिम् ।। १ ।।
स्वर्गरोचे तथा स्वर्गं स्वर्गलोकं प्रपद्यते ।।
चक्ररोचे तथा चक्रं वैष्णवन्तु सुदर्शनम् ।। २ ।।
द्वादशारं नरः कृत्वा वर्णकैः ससुगन्धिभिः ।।
सम्पूज्य वत्सरस्यांते सौवर्णं विनिवेदयेत् ।। ३ ।।
वासुदेवाय देवाय द्वितीयं ब्राह्मणाय च ।।
रिपून्स जयते सर्वान्बाह्यानाभ्यन्तरानपि ।। ४ ।।
चक्रमप्रतिमं तस्य सर्वगं च तथा भवेत् ।।
नाप्नोति नारकं दुःखं स्वर्गलोकं च गच्छति ।। ५ ।।
वानस्पत्ये तथा रोचे पूजयित्वा वनस्पतिम् ।। ६ ।।
उद्यानफलमाप्नोति वाजपेयस्य मानवः ।।
वानस्पत्यं च सफलं तथा सर्वत्र विन्दति ।।७ ।।
अन्नरोचे तथैवान्नं वासुदेवं समर्चयेत् ।।
क्षेत्रमध्यगतस्त्वन्नं प्राप्नोति बहु मानवः ।। ८ ।।
परलोके तथा तृप्तिं स्वर्गलोके तथैव च ।।
अहते वासरे चाह्नि वासरं पूज्य मानवः ।। ९ ।।
निवेद्य वासुदेवाय देवं सङ्कर्षणं विभुम् ।।
आरोग्यरूपलावण्यसौभाग्यानि समश्नुते ।। 3.223.१० ।।
कालरोचे नरः कालं सम्यक्सम्पूज्य धर्मवित् ।।
मरणे स्मृतिमाप्नोति मृतश्च परमां गतिम् ।। ११ ।।
आग्नेये पूजयेद्वह्निं सर्वांल्लोकान्समाप्नुयात् ।।
सर्वाणि वाग्निकर्माणि सिध्यन्त्यस्य न संशयः ।।१२।।
अपः संपूजयन्नाथे रत्नमाप्नोत्यथाम्बुजम् ।।
जलकर्माणि सर्वाणि सिद्ध्यन्त्यस्य न संशयः ।। १३ ।।
सौरे सूर्यमथाभ्यर्च्य विरोगत्वमवाप्नुयात् ।।
चन्द्रे चन्द्रं समभ्यर्च्य परमां निर्वृतिं लभेत।१४।
गोरोचे गां समभ्यर्च्य सुरभिं लोकमातरम् ।।
गाः समाप्नोति धर्मज्ञ तथा तल्लोकमेव च।।१५।।
रोचभं नियतेः प्राप्य नियतिं तु समर्चयन् ।।
दीर्घजीवितमाप्नोति यत्रयत्राभिजायते ।।१६।।
वैष्णवे विष्णुमभ्यर्च्य विष्णुलोकं प्रपद्यते ।।
रौद्रे रुद्रमथाभ्यर्च्य तल्लोकं प्रतिपद्यते।।१७।।
पुत्रानाप्नोति कौमारे कुमारं चार्चयन्नरः।।
पितॄणामर्चनं कृत्वा पितृरोचे समाहितः ।।१८।।
पूजामभीष्टामाप्नोति पितृलोकं च गच्छति ।।
वारुणे वरुणं देवमश्वानाप्नोति पूजयन् ।। १९ ।।
अनन्ते च तथानन्तं पूजयित्वा महीधरम् ।।
अनन्तं फलमाप्नोति कर्मणः सुकृतस्य च ।। 3.223.२० ।।
वायव्ये वायुमभ्यर्च्य वाणिज्ये लाभमाप्नुयात् ।।
याम्ये यममथाभ्यर्च्य नाप्नोति नरकाद्भयम् ।। २१ ।।
सारस्वतेन चाभ्यर्च्य द्विज देवीं सरस्वतीम्।।
विद्यां यथेष्टामाप्नोति तया वाग्मी च जायते।।२२।।
श्रीरोचे श्रियमभ्यर्च्य श्रियं विन्दति शोभनाम्।।
मदीये च तथा रोचे मां च सम्पूजयन्नरः ।। २३ ।।
धनभाग्भवते सो हि यत्रयत्राभिजायते ।।
शैलरोचे तथा शैलं पूजयित्वा सुखी भवेत् ।। ।। २४ ।।
भूरोचे भुवमभ्यर्च्य भुवमाप्नोत्यनुत्तमाम् ।।
वेदानामर्चनं कृत्वा वेदरोचे समाहितः ।। २५ ।।
वेदानाप्नोति पुरुषो यज्ञानपि नरा धिपः ।।
पौरुषे च तथा रोचे जले पुरुषमर्चयन् ।। २६ ।।
सर्वान्कामानवाप्नोति मोक्षोपायं च विन्दति ।।
रूपेण हीनं स्पर्शेन हीनं गन्धेन हीनं च रसेन हीनम् ।।
शब्देन हीनं पुरुषं पुराणं सम्पूजयन्मोक्षपथं प्रयाति ।। २७ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे प्रति रोचफलनिरूपणो नाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः ।। २२३ ।।
3.224
मार्कण्डेय उवाच ।।
इति रोचव्रतं श्रुत्वा भुक्त्वा धनदवेश्मनि ।।
श्रुत्वा गीतं च वाद्यं च दृष्ट्वा नृत्तं मनोहरम् ।। १ ।।
तत्रोष्य रजनीमेकां धनाध्यक्षेण पूजितः ।।
उदग्जगाम धर्मात्मा हिमशैलस्य स द्विजः ।। २ ।।
स शैलदेशे कस्मिंश्चिद्ददर्श रुचिरं गृहम् ।।
शीतांशुरश्मिजालाभं सर्वकामसमृद्धिमत् ।। ३ ।।
तस्मिन्गृहे ददर्शाथ वृद्धां रूपवतीं स्त्रियम् ।।
सर्वाभरणसम्पन्नां बह्वीभिः परिवारिताम् ।। ४ ।।
तरुणीभिर्वरस्त्रीभिश्चारुवेशाभिरेव च ।।
सा च तं पूजयामास पाद्यादिभिरनुक्रमात् ।। ५ ।।
गन्धतैलेन चाभ्यर्च्य स्नापयामास यादव ।।
सुखस्पर्शैश्च पवनैर्गन्धैश्च विविधैस्तथा ।। ६ ।।
लिलेप चास्य गात्राणि चन्दनेन सुगन्धिना ।।
वस्त्रालङ्कारमाल्यैश्च पूजयामास तं तथा ।। ७ ।।
भोजयामास चान्नेन सर्वकाममृद्धिना ।।
ताम्बूलं प्रददौ चास्मै सुगन्धि सुमनोहरम् ।। ८ ।।
श्वेतोत्तरच्छदं चित्रं स्वास्तीर्णं परमर्द्धिमत् ।।
गृहे विचित्रे शयनं प्रददौ सुमनोहरम् ।। ९ ।।
तादृग्विधे परे तत्र सा च सुष्वाप भामिनी ।।
विसर्जयित्वा नारीस्ताः सर्वा बालमृगेक्षणाः ।। 3.224.१० ।।
शीतापदेशेन ततो विरात्रे शयनात्स्वकात् ।।
अष्टावक्रस्य शयनं जगाम वरवर्णिनी ।। ११ ।।
दृष्ट्वा शयनसम्प्राप्तां किमेतदिति सोऽब्रवीत् ।।
नानुरूपमिदं तत्ते वयसश्चारुहासिनि ।। १२ ।।
अभग्नब्रह्मचर्योऽस्मि परदारविवर्जकः ।।
स्वच्छन्दं मामवज्ञाय किमिदं कर्तुमीहसे ।। १३ ।।
दिगुवाच ।।
न वयं द्विज तारुण्ये चपलाः केवलं स्त्रियः ।।
वयसोन्तेऽपि चापल्यं भजामः कामचोदिताः ।। १४ ।।
न श्रुतं तत्त्वया मन्ये स्त्रीशीलं द्विजसत्तम ।।
नैता वयसि रज्यन्ते न रूपे न कुले श्रुते ।। १५ ।।
शीले वेशे धने शौर्ये रज्यन्ते क्वचिदेव तु ।।
कामयन्त्येव पुरुषं यथालाभमिति श्रुतिः ।। १६ ।।
यासां हि रक्षा महती तास्त्रियः कुब्जवामनैः ।।
प्रेष्यैर्वापीह सज्जन्ते पुमांसमिति भार्गव ।। १७ ।।
नाग्निस्तृप्यति काष्ठैर्वा नापगाभिर्महोदधिः ।।
नान्तकः सर्वभूतैर्वा न पुंभिर्वामलोचनाः ।। १८ ।।
लीलयैव कुलं घ्नन्ति स्मयमानास्तु योषितः ।।
दुर्लभा हि स्त्रीरमणात्स्वभावेन भृगूत्तम ।। १९ ।।
रहो नास्ति क्षणो नास्ति नास्ति चोपनिमन्त्रकः ।।
तेन धर्मज्ञ नारीणां सतीत्वमुपजायते ।। 3.224.२० ।।
प्रेषितस्त्वं महाभाग मत्समीपं महात्मना ।।
स्त्रीणां शीलमिह ज्ञातुमस्मद्दृष्टं तथा श्रुतम् ।।। ।। २१ ।।
एतञ्ज्ञात्वा जुगुप्सां च स्त्रीणां कार्या न च त्वया ।।
मूलं धर्मार्थकामानां यतस्ता एव योषितः ।। २२ ।।
वह्निरन्नं जलं चैव नराणां धृतिहेतवः ।।
घातकाश्च त एवोक्तास्तथा ज्ञेयाश्च योषितः ।। २३ ।।
वृत्तिर्लोके यथा नास्ति वह्नयन्नसलिलैर्विना ।। ।
गृहाश्रमस्तथा नास्ति विना स्त्रीभिः कथञ्चन ।। २४ ।।
तस्मात्ताः प्रज्ञया रक्ष्या नोग्रेण मृदुना न च ।।
स्त्रियो मूलमनर्थानां त्रिवर्गस्य च साधनम् ।। २५ ।।
तासां न गच्छेद्विश्वासं मणिवद्गोपयेत्तु ताः ।।
गृहकार्योद्यताः कृत्वा रक्ष्यास्ता भूतिमिच्छता ।। २६ ।।
एतच्छ्रुत्वा द्वितीयेह्नि पूजितः स तया स्त्रिया ।।
जगाम धनदावासं ततोऽपि श्वशुरालयम् ।। २७ ।।
ततः श्वशुरमासाद्य सर्वं तस्मै न्यवेदयत ।।
स च पप्रच्छ तं विप्रं श्रुत्वा स्त्रीणां विचेष्टितम् ।। २८ ।।
बुद्धिर्निवेष्टुं सञ्जाता न वा जाता वदस्व तत् ।।
एतच्छ्रुत्वोत्तरं वाक्यमष्टावक्रोऽब्रवीन्मुनिम् ।।२९।।
न चाप्येषा गतिः क्षेम्या न चान्या विद्यते गतिः ।।
तस्मात्प्रयच्छ धर्मज्ञ पत्न्यर्थं स्वसुतां मम ।। 3.224.३० ।।
एतच्छ्रुत्वा ददौ तस्मै स्वसुतां भार्गवो मुनिः ।।
तिथौ दिवसनक्षत्रे मुहुर्ते चाभिपूजिते ।। ३१ ।।
त्रिवर्गमूलं सम्प्राप्य तां भार्यामसितेक्षणाम् ।।
जगाम परमां तुष्टिं मुमुदे च तया सह ।।३२।।
ररक्ष चैनां स ततो महात्मा कृत्वा च नित्यं गृहकार्ययुक्ताम् ।।
आराधयामास च सा द्विजेन्द्रं धर्मे निविष्टा परमा च साध्वी ।। ३३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अष्टावक्रदिक्संवादो नाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ।। २२४ ।।
3.225
मार्कण्डेय उवाच ।।
व्रतं कंचिन्ममाचक्ष्व सर्वकल्मषनाशनम् ।।
व्रतानामुत्तमं ब्रह्मन्पवित्रं पुण्यवर्धनम् ।। १ ।।
मार्कण्डेय उवाच ।।
रोचं तु पौरुषं प्राप्य सोपवासो जितेन्द्रियः ।। २ ।।
पौरुषेण च सूक्तेन स्नातः प्रयतमानसः ।।
तेनैव तर्पणं कृत्वा जाप्यं च मनुजोत्तम ।। ३ ।।
अष्टपत्रस्य पद्मस्य मध्ये हंसं जनार्दनम् ।।
पौरुषेण च सूक्तेन सत्कृतं पूजयेन्नरः ।। ४ ।।
पुष्पैर्भूयस्तथा धूपैः फलैश्च तदनन्तरम् ।।
दीपेन च ततो राजन्नैवेद्येन ततः परम् ।। ५ ।।
पौरुषेण च सूक्तेन ततो वह्निं समर्चयेत् ।।
ततस्तु धेनुर्दातव्या कर्मान्ते च पयस्विनी ।। ६ ।।
संवत्सरमिदं कृत्वा व्रतं परम पावनम् ।।
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ।। ७ ।।
अश्वमेधमवाप्नोति राजसूयं च विन्दति।।
भुक्त्वा भोगांस्ततः पश्चान्मोक्षमाप्नोत्यसंशयम् ।। ८ ।।
माङ्गल्यमेतत्परमं पवित्रं श्रीवर्धनं धर्मविवर्धनं च ।।
व्रतोत्तमं पापहरं नृलोके हंसव्रताख्यं पुरुषेण कार्यम् ।। ९ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे हंसव्रतनिरूपणो नाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ।। २२५ ।।