विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २०६-२१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २०१-२०५ विष्णुधर्मोत्तरपुराणम्
अध्यायाः २०६-२१०
वेदव्यासः
अध्यायाः २११-२१५ →

3.206
वज्र उवाच।।
भगवन्कर्मणा केन प्रज्ञायुक्तो भवेन्नरः ।।
एतदेव मनुष्याणां मनुष्यत्वमुदाहृतम्।।१।।
मार्कण्डेय उवाच ।।
चैत्र्यां तु समतीतायां यावन्मासं दिनेदिने ।।
पूर्ववत्पूजयेद्देवं नृसिंहमपराजितम् ।। २ ।।
होमं च प्रत्यहं कुर्यात्तथा सिद्धार्थकैर्नृप ।।
ब्राह्मणान्भोजयेच्चात्र तथा त्रिमधुरं सदा।। ३ ।।
वैशाख्यां कनकं दद्यात्रिरात्रोपोषितो नरः ।।
ज्ञानावाप्तिप्रदं ह्येतद्व्रतं बुद्धिविवर्धनम् ।। ४ ।।
कृत्वा व्रतं मासमिदं मयोक्तमासाद्य नाकं सुचिरं मनुष्यः ।।
मानुष्यमासाद्य च बुद्धियुक्तो ज्ञानेन युक्तश्च तथा भवेत्तु ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे बुद्ध्यावाप्तिव्रतवर्णनो नाम षडुत्तरद्विशततमोऽध्यायः ।। २०६ ।।
3.207
वज्र उवाच ।।
भगवन्कर्मणा केन विद्यावान्पुरुषो भवेत् ।।
सुविद्य एव विज्ञेयः पुरुषः पशुरन्यथा ।। १ ।।
मार्कण्डेय उवाच ।।
पौष्यान्तु समतीतायां प्रतिपत्प्रभृति क्रमात् ।।
प्राग्वत्संपूजयेद्देवं तुरंगशिरसं हरिम्।।२।।
तिलाँश्च जुहुयाद्वह्नौ तिलैर्देवं समर्चयेत्।।
त्रिरात्रोपोषितो माघ्यां तिलान्कनकमेव च।।३।।
दद्याद्ब्राह्मणमुख्याय सम्यक्प्रयतमानसः।।
मुख्यं यज्ञोपवीतञ्च प्रभूतमपि चेन्धनम्।।४।।
कृत्वा व्रतं मासमिदं मयोक्तं विद्यान्वितः स्यात्पुरुषः सदैव।।
स्वर्लोकमासाद्य सुखानि भुक्त्वा कामानभीष्टान्पुरुषोश्नुते च।।५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे विद्यावाप्तिव्रतवर्णनो नाम सप्तोत्तरद्विशततमोऽध्यायः।।२०७।।
3.208
वज्र उवाच।।
भगवन्कर्मणा केन शीलवान्पुरुषो भवेत् ।।
कुलजातिश्रुतिभ्यश्च शीलमेव विशिष्यते ।। १ ।।
मार्कण्डेय उवाच ।।
आग्रायण्यामतीतायां मासमेकं दिनेदिने ।।
पूर्ववत्पूजयेद्देवं वराहमपराजितम्।।२।।
घृतेन स्नापयेद्देवं घृतेन जुहुयाद्धविः ।।
घृतं द्विजेभ्यो दद्याच्च घृतमेव निवेदयेत् ।।३।।
त्रिरात्रोपोषितः पौष्यां घृतपात्रेण च द्विजान् ।।
पूजयेत्ससुवर्णेन यथाशक्ति नराधिप ।। ४ ।।
कृत्वा व्रतं मासमिदं मयोक्तं चासाद्य नाकं सुचिरं मनुष्यः ।।
मानुष्यमासाद्य च शीलवान्स्यात्प्राप्नोति पुष्टिं चिरजीवितं च ।।५।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे शीलावाप्तिव्रतवर्णनो नामाष्टोत्तरद्विशततमोऽध्यायः ।। २०८ ।।
3.209
वज्र उवाच ।।
भगवन्कर्मणा केन नित्यं धर्मपरो भवेत् ।।
धर्म्मविच्च महाराज धर्म्मसा फल्यकारणात् ।। १ ।।
मार्कण्डेय उवाच ।।
आषाढ्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ।।
पूर्व्ववत्पूजयेद्देवं धर्म्मविग्रहधारिणम् ।।२।।
मासस्य चान्ते नृप पौर्णमास्यां कृत्वा त्रिरात्रं कनकञ्च दद्यात् ।।
व्रतोत्तमं धर्म्मकरं तवोक्तं सर्व्वार्थदं नात्र विचारणास्ति ।। ३ ।।
इति श्रीविष्णुधर्म्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धर्म्मप्राप्तिव्रतवर्णनो नाम नवोत्तरद्विशततमोऽध्यायः ।। २०९ ।।
3.210
वज्र उवाच ।।
भगवन्कर्मणा केन धनवान्पुरुषो भवेत् ।।
धनवानेव लोकेषु पूज्यो भवति मानवः ।। १ ।।
मार्कण्डेय उवाच ।।
श्रावण्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ।।
पूर्ववत्पूजयेद्विष्णुं देवं सङ्कर्षणं प्रभुम् ।। २ ।।
नीलोत्पलैस्तथा पत्रैर्नृप भृंगिरजस्य च ।।
घृतेन परमान्नेन तथा बिल्वैश्च शक्तितः ।। २ ।।
त्रिरात्रोपोषितः सम्यक् प्रोष्ठपद्यां ततो नरः ।।
गां च दद्याद्द्विजेन्द्राय व्रतान्ते मनुजोत्तमः ।। ४ ।।
कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः ।।
मानुष्यमासाद्य धनान्वितः स्याद्व्रतेन चीर्णेन नरेन्द्रसिंह ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे धनावाप्तिव्रतवर्णनो नाम दशोत्तर द्विशततमोऽध्यायः ।। २१० ।।