विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २०१-२०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः १९६-२०० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २०१-२०५
वेदव्यासः
अध्यायाः २०६-२१० →

2.201
वज्र उवाच ।।
भगवन्कर्मणा केन कुले जन्म समश्नुते ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ।। १ ।।
मार्कण्डेय उवाच ।।
बृहद्दिशि तु संप्राप्य त्रिरात्रोपोषितो नरः ।।
मार्गशीर्षादथारभ्य पूजयेत्तु त्रिविक्रमम् ।। २ ।।
त्रिवर्णैः कुसुमैर्देवं त्रिभिः प्रयतमानसः ।।
त्रयोऽनुलेपना देया त्रिसारं धूपमेव तु ।। ३ ।।
बलिं त्रिमधुरं दद्यात्त्रीँश्च दीपान्नृपोत्तम ।।
यवैस्तिलैस्तथा होमः कर्तव्यः सर्षपायुतैः ।। ४ ।।
दद्यात्त्रिलोहं च तथा द्विजेभ्यस्ताम्रं सुवर्णं रजतं च राजन् ।।
न केवलं सत्कुलदं व्रतं तु यथेष्टकामाप्तिकरं प्रदिष्टम् ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सत्कुलावाप्तिव्रतवर्णनो नामैकोत्तरद्विशततमोऽध्यायः ।। २०१ ।।
3.202
वज्र उवाच ।।
भवन्कर्मणा केन रूपवाञ्जायते नरः ।।
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ।। १ ।।
मार्कण्डेय उवाच ।।
फाल्गुन्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ।।
यावच्चैत्री महाराज तावत्स्नातो दिनेदिने।।२।।
बहिः सम्पूजयेद्देवं केशवं भोगशायिनम् ।।
एकभक्ताशनो नक्तमधःशायी तथा भवेत ।। ३ ।।
त्रिरात्रोपोषितः कुर्यात्पूजां चैत्र्यां तथैव च ।।
स्वशक्त्या रजतं दद्याद्वस्त्रयुग्मं तथैव च ।। ४ ।।
रूपार्थिनो मासमिदं मयोक्तं व्रतोत्तमं नित्यमदीनसत्त्व ।।
कृत्वा च नाकं मनुजस्त्ववाप्य मानुष्यमासाद्य च रूपवान्स्यात् ।। ५ ।।
इति श्रीविष्णु० ध० तृ० ख० मा० व० सं० रूपावाप्तिव्रतवर्णनो नाम द्व्युत्तरद्विशततमोऽध्यायः ।।२०२।।
3.203
वज्र उवाच ।।
भगवन्कर्मणा केन नरो लावण्यमाप्नुयात् ।।
लावण्यरहितं रूपं निष्फलं प्रतिभाति मे ।।१।।
मार्कण्डेय उवाच ।।
कार्तिक्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ।।
पटे वा यदि वार्चायां प्रद्युम्नं पूजयेत्प्रभुम्।।२।।
बहिः स्नानं सदा कुर्यान्नक्तमश्नीत वाग्यतः ।।
एकभुक्तं महाराज हविष्यप्रयतः सदा।।३।।
मार्गशीर्षं तथा प्राप्य त्रिरात्रोपोषितः शुचिः ।।
संपूज्य देव प्रद्युम्नं हुत्वाग्नौ घृतमेव च ।।४।।
भोजयेद्ब्राह्मणांश्चात्र भोजनं लवणोत्कटम् ।।
चूर्णितस्य ततः प्रस्थं लवणस्य द्विजातये।५।।
महारजतरक्तं च वस्त्रयुग्मं तथा गुरोः ।।
दद्याच्च कनकं राजन्कांस्यपात्रं रसैर्युतम्।।६।।
एतद्धि लावण्यकरं प्रदिष्टं व्रतोत्तमं नाकगतिप्रदं च ।।
न केवलं यादववीर कामान्नराय दद्यात्पुरुषप्रधानः ।।७।।
इति श्रीविष्णुधर्मोत्तरे तृतीयकाण्डे मा० व० सं० लावण्यव्रतवर्णनो नाम त्र्युत्तरद्विशततमोऽध्यायः।।२०३।।
3.204
वज्र उवाच ।।
भगवन्कर्मणा केन सौभाग्यं महदाप्नुयात्।।
लावण्यरूपे सौभाग्यं विना ज्ञेयं निरर्थकम् ।।१।।
मार्कण्डेय उवाच।।
माघ्यां तु समतीतायां प्रतिपत्प्रभृति क्रमात् ।।
पटे वा यदि वार्चायां कृष्णं सम्पूजयेत्सदा ।। २ ।।
पूर्वोक्तं सकलं कुर्याद्धविष्यं च धराधिप ।।
नित्यं समाचरेत्स्नानं तथा गन्धप्रियङ्गुना ।। ३ ।।
फाल्गुन्यां तां ततो दद्यात्त्रिरापोषितः शुचिः।।४।।
वस्त्रे च देये नृप कुंकुमाक्ते क्षौद्रस्य पात्रं च तथैव कांस्यम् ।।
सौभाग्यदं चैतदनुत्तमं ते व्रतं मयैतत्कथितं नृवीर ।।५।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सौभाग्यावाप्तिव्रतवर्णनो नाम चतुरुत्तरद्विशततमोऽध्यायः।।२०४।।
3.205
वज्र उवाच।।
भगवन्कर्मणा केन नरस्त्वारोग्यमाप्नुयात्।।
रूपसौभाग्यलावण्याः सरोगस्य निरर्थकाः ।। १ ।।
।। मार्कण्डेय उवाच ।।
प्रोष्ठपद्यामतीतायां प्रतिपत्प्रभृतिक्रमात् ।।
पटे वा यदि वार्चायामनिरुद्धं तु पूजयेत् ।। २ ।।
पूर्वोक्तेन विधानेन यावदाश्वयुजी भवेत् ।।
सारसैरर्चयेद्देवं जातीपुष्पैर्दिनेदिने ।। ३ ।।
घृतेन जुहुयाद्वह्निं घृतं दद्याद्द्विजातये ।।
भोजनं गोरसप्रायं तथा विप्रांश्च भोजयेत् ।। ४ ।।
त्रिरात्रोपोषितः सम्यगाश्वयुज्यां ततो नरः ।।
सघृतं ससुवर्णं च कांस्यपात्रं द्विजातये ।। ५ ।।
दद्यान्नृपतिशार्दूल नरस्त्वारोग्यवृद्धये ।।
व्रतमेतद्विनिर्दिष्टं स्वगर्लोकप्रदं नृणाम् ।। ६ ।।
न केवलं रोगहरं प्रदिष्टमाज्ञाकरं रूपविवृद्धिदं च ।।
व्रतोत्तमं ते कथितं नृवीर तथेष्टकामाप्तिकरं नृलोके ।। ७ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आरोग्यव्रतवर्णनो नाम पञ्चोत्तरद्विशततमोऽ ध्याय ।। २०५ ।।