विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः २११-२१५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायाः २०६-२१० विष्णुधर्मोत्तरपुराणम्
अध्यायाः २११-२१५
वेदव्यासः
अध्यायाः २१६-२२० →

3.211
वज्र उवाच ।।
श्रीविहीनस्य लोकेस्मिन्किं धनेन महाद्युते ।।
तस्माद्व्रतं समाचक्ष्व येन स्याच्छ्रीयुतो नरः.।। १ ।।
मार्कण्डेय उवाच ।।
वैशाख्यां समतीतायां प्रतिपत्प्रभृति क्रमात् ।।
पूर्ववत्पूजयेद्देवं श्रीसहायं दिनेदिने ।।२ ।।
पुष्पैर्मूलैः फलैश्चैव जुहुयादक्षतांस्तथा ।।
बिल्वांश्च वह्नौ सततं गोरसैर्भोजयेद्द्विजान् ।। ३ ।।
त्रिरात्रोपोषितो ज्येष्ठे कनकं प्रतिपादयेत् ।।
वस्त्रयुग्मं च राजेन्द्र तेन साफल्यमश्नुते।।४।।
कृत्वा व्रतं मासमिदं यथोक्तं चासाद्य नाकं सुचिरं मनुष्यः ।।
मानुष्यमासाद्य विवृद्धतेजा श्रिया युतः स्याज्जगति प्रधानः।।५।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे श्रीलब्धिव्रतवर्णनो नामैकादशोत्तरद्विशततमोऽध्यायः ।।२११ ।।
3.212
वज्र उवाच ।।
भगवन्कर्मणा केन भोगानाप्नोति मानवः ।।
किन्नु भोगविहीनस्य कार्यमस्ति धनैर्द्विज ।।१।।
मार्कण्डेय उवाच ।।
ज्येष्ठायां समतीतायां प्रतिपत्प्रभृति क्रमात्।।
पूर्ववत्पूजयेद्देवं विश्वरूपधरं हरिम् ।।२।।
कृत्वा व्रतान्ते च तथा त्रिरात्रं दत्त्वा सुयुक्तं शयनं द्विजाय।।
स्वर्लोकमासाद्य चिरं तथोष्य मानुष्यमासाद्य च भोगवान्स्यात् ।। ३ ।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे भोगावाप्तिव्रतवणर्नो नाम द्वादशोत्तरद्विशततमोऽध्यायः ।। २१२ ।।
3.213
वज्र उवाच ।।
भगवन्कर्मणा केन सर्वत्र जयमाप्नुयात् ।।
व्यवहारे रणे द्यूते विवादे च द्विजोत्तम ।।१।।
जयावाप्तेः परं नास्ति सौख्यं लोकेषु सत्तम ।।
जयावाप्तिः परं सौख्यं तदाप्तिव्रतमुच्यताम् ।। २ ।।
मार्कण्डेय उवाच ।।
आश्वयुज्यामतीतायां प्रतिपत्प्रभृति क्रमात् ।।
पूर्ववत्पूजयेद्विष्णुं देवदेवं त्रिविक्रमम् ।। ३ ।।
त्रिरात्रान्ते तु कार्तिक्यां दद्यादुक्षाणमुत्तमम् ।।
सर्वसस्यधरं कृत्वा शक्त्या रत्नैरलङ्कृतम् ।। ४ ।।
कृत्वा व्रतं मासमिदं यथोक्तं प्राप्नोति नाकं सुचिरं नृवीरः।।
तत्रोष्य कालं सुचिरं मनुष्यः प्राप्नोति सर्वत्र जयं नृलोके ।। ५ ।।
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे जयावाप्तिव्रतवर्णनो नाम त्रयोदशोत्तरद्विशततमोऽध्यायः।।२१३।।
3.214
वज्र उवाच ।।
व्रतान्यन्यानि मे ब्रूहि काम्यानि द्विजपुङ्गव ।।
नारीणां पुरुषाणां वा सर्वज्ञस्त्वं मतो मम ।। १ ।।
मार्कण्डेय उवाच ।।
कृत्तिकास्वर्चयेद्देवं कार्तिकीप्रभृतिक्रमात् ।।
यावत्स्यात्कार्तिकं भूयो नरसिंहमुपोषितः ।।२ ।।
अनुलेपनपुष्पाद्यैः सर्वदोक्तैस्सदैव तु ।।
व्रतावसाने दत्त्वा च चन्दनं तगरं द्विजे ।। ३ ।।
चर्म चैवायुधं मुख्यं वासांसि विविधानि च ।।
सर्वत्र जयमाप्नोति यत्रयत्राभिजायते ।। ४ ।।
मार्गशीर्षादथारभ्य मृगशीर्षे तथार्चयेत् ।।
यावदाग्रायणी भूयो रामं दशरथात्मजम् ।। ५ ।।
अनुलेपनपुष्पाद्यैः सर्वरत्नैः सदैव तु ।।
व्रतावसाने दद्याद्गां तथा श्वेतां द्विजातये ।। ६ ।।
श्वेतं वस्त्रयुगं चैव रजतं च तथा नृप ।।
उपोषितः सदा कृत्वा व्रतं स्याच्छत्रुवर्जितः ।। ७ ।।
पौषमासादथारभ्य पुष्पैर्नित्यमुपोषितः ।।
यावत्पौषी भवेद्भूयो बलभद्रमथार्चयेत् ।। ८ ।।
अनुलेपनपुष्पान्नैः सर्वरत्नैस्तथैव च ।।
व्रतावसाने सघृतं कांस्यं कनकमेव च ।। ९ ।।
दत्त्वा विप्राय भवति नित्यं पुष्टियुतो नरः ।।
माघमासादथारभ्य मघासु सततं नरः ।। 3.214.१० ।।
वाराहमर्चयेद्देवं तथा नित्यमुपोषितः ।।
घृताभ्यङ्गेन विधिवच्चन्दनेन सुगन्धिना ।। ११ ।।
तथा च परमान्नेन घृतहोमेन चाप्यथ ।।
दद्याद्व्रतावसाने च क्षितिं गां वा नराधिप ।। १२ ।।
पितृप्रसादमाप्नोति कृत्वैतद्व्रतमुत्तमम् ।।
फाल्गुनात्तु तथारभ्य फाल्गुनीषु समर्चयेत् ।। १३ ।।
नरनारायणौ देवौ यावत्स्यात्फाल्गुनी पुनः ।।
व्रतावसाने शयनं स्वास्तीर्णे प्रति पादयेत ।। १४ ।।
व्रतावसाने नारी स्यात्सुभर्त्रा समलंकृता ।।
भार्यां नरस्तथाप्नोति रूपद्रविणसंयुताम् ।। १५ ।।
अनुकूलां श्रियं नित्यं तथा पक्षवतीं नृप ।।
अवियोगमवैधव्यं करोत्येतन्महाव्रतम् ।। १६ ।।
चैत्रमासादथारभ्य नित्यं चित्रास्वथार्चयेत् ।।
व्रतावसाने दद्याच्च चित्रं वस्त्रं द्विजन्मने ।। १७ ।।
व्रतेनानेन पुरुषः पुत्रानाप्नोत्यथेप्सितान्।।
नारी वा पुरुषव्याघ्र नात्र कार्या विचारणा ।। १८।।
वैशाखीतस्तथारभ्य विशाखासु तथार्चयेत् ।।
यावद्भूयस्तु वैशाखी सोपवासः पृथुं विभुम्।। १९।।
दत्त्वा व्रतान्ते कनकं ज्ञातिश्रैष्ठ्यमवाप्नुयात्।।
ज्येष्ठमासादथारभ्य ज्येष्ठासु सततं नरः।।3.214.२० ।।
अर्चयेद्भार्गवं रामं यावज्ज्येष्ठं पुनर्भवेत् ।।
व्रतावसाने दद्याच्च च्छत्रोपानहमेव च ।।२१ ।।
व्रतेनानेन भवति सर्वश्रेष्ठो नरोत्तम ।।
आषाढीतस्तथारभ्य दिनद्वयमुपोषितः ।। २२ ।।
आषाढ्यां त्वर्चयेद्देवं प्रद्युम्नमपराजितम् ।।
भूयः स्याद्यावदाषाढी दद्याच्च शयनं ततः ।। २३ ।।
स्वास्तीर्णं तेन चाप्नोति नित्यं रूपयुताः स्त्रियः ।।
श्रावणीतस्तथारभ्य श्रवणे सततं हरिम् ।। २४ ।।
अर्चयेत्सोपवासं तं यावत्स्याच्छ्रावणी पुनः ।।
व्रतावसाने दद्याच्च कांस्यं रूप्यं घृतं तथा।।२५।।
व्रतान्यथैतानि मया नरेन्द्र प्रोक्तानि ते पापहराणि नित्यम् ।।
नाकप्रदान्युत्तमपूर्यमाणान्कामान्प्रदातॄणि यथेष्टमत्र।।२६।।
इति श्रीविष्णुधर्मोत्तरे तृ०ख०मार्कण्डेयवज्रसंवादे द्वादशमासर्क्षव्रतवर्णनो नाम चतुदर्शोत्तरद्विशततमोऽध्यायः ।। २१४ ।।
3.215
वज्र उवाच ।।
आराधनार्थं देवस्य विष्णोरमिततेजसः ।।
व्रतान्यन्यानि मे ब्रूहि भृगुवंशविवर्धन ।। १ ।।
मार्कण्डेय उवाच ।।
गङ्गाद्वारे सुखासीनः पुलस्त्यऋषिसत्तमः ।।
व्रतानि यानि दाल्भ्याय जगाद शृणु तानि मे ।। २ ।।
दाल्भ्य उवाच ।। आराधनार्थं देवस्य विष्णोरमिततेजसः ।।
व्रतानि त्वं समाचक्ष्व सर्वधर्मभृतां वर ।। ३ ।।
पुलस्त्य उवाच ।।
एकादश्यां शुक्लपक्षे फाल्गुने मासि यो नरः ।।
जपन्कृष्णेति देवस्य नाम भक्त्या पुनःपुनः ।। ४ ।।
देवार्चने चाष्टशतं कृत्वैतत्तु जपेच्छुचिः ।।
स्नातः प्रस्थानकाले च उत्थाने स्खलिते क्षुते ।। ५ ।।
पाषण्डान्पतितांश्चैव तथैवान्तावसायिनः ।।
नालपेत तथा कृष्णमर्चयेच्छ्रद्धयान्वितः ।। ६ ।।
इदं चोदाहरेत्कृष्णे मनः सन्धाय तत्परः ।।
कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव ।। ७ ।।
संसारार्णवमग्नानां प्रसीद मधुसूदन ।।
एवं प्रसाद्योपवसेत्कृत्वा नियतमानसः ।। ८ ।।
पूर्वेह्नि चान्येद्युश्चापि गव्यं संप्राश्य वै सकृत् ।।
स्नातोर्चयित्वा कृष्णेति पुनर्नाम प्रकीर्तयेत् ।। ९ ।।
वारिधाराव्रते चैव विक्षिपेद्देवपादयोः ।।
चैत्रवैशाखयोश्चैव तद्वज्ज्येष्ठे च पूजयेत् ।। 3.215.१० ।।
मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य प्राप्नोति वै नरः ।।
उत्क्रान्तिकाले कृष्णस्य स्मरणं च तथाश्नुते ।। ११ ।।
आषाढे श्रावणे चैव मासि भाद्रपदे तथा ।।
तथैवाश्वयुजे मासि अनेन विधिना नरः ।। १२ ।।
उपोष्य संपूज्य तथा केशवेति च पूजयेत् ।।
गोमूत्रप्राशनात्पूतः स्वर्गलोकगतिं व्रजेत् ।। १३ ।।
आराधितस्य जगतामीश्वरस्याव्ययस्य च ।।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् ।। १४ ।।
क्षीरस्य प्राशनं यस्तु विधिं चेमं यथोदितम् ।।
कार्तिकादि यथान्यायं कुर्यान्मासचतुष्टयम् ।। १५ ।।
तेनैव विधिना ब्रह्मन्विप्णोर्नाम प्रकीर्तयेत् ।।
स याति विष्णुसालोक्यं विष्णुं स्मरति चाक्षयम् ।। १६ ।।
प्रतिमासं द्विजातिभ्यो दद्याद्दानं यथाविधि ।।
चातुर्मास्ये च संपूर्णे पुण्यश्रवणकीर्तनम् ।। १७ ।।
अथ वा वासुदेवस्य तद्गीतं चापि कारयेत् ।।
एवमेति गतिं श्रेष्ठां देवमानुष्यकीर्तनात् ।। १८ ।।
कथितं पारणं यत्ते कार्यं मासचतुष्टयम् ।।
आधिपत्यं तथा भोगांस्तेन प्राप्नोति चाक्षयान् ।। १९ ।।
द्वितीयेन तथा भोगानैन्द्रानाप्नोति मानवः ।।
विष्णुलोकं तृतीयेन पारणेन तथाप्नुयात् ।। 3.215.२० ।।
एवमेतत्समाख्यातं गतिप्रापकमुत्तमम् ।।
विधानं द्विजशार्दूल कृष्णतुष्टिप्रदं नृणाम् ।। २१ ।।
सुगतिद्वादशीमेतां श्रद्दधानस्तु यो नरः ।।
उपोष्यति तथा नारी प्राप्नोति विविधां गतिम् ।। २२ ।।
एषा तिथिः पापहरातिधन्या नाकप्रदा नाककरी तथोक्ता।।
आराधनार्थं त्रिदशेश्वरस्य देवस्य विष्णोर्द्विजसंघपूज्य ।। २३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुगतिद्वादशीव्रतवर्णनो नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ।। २१५ ।।